छन्दः
| छन्दः |
मयरसत जभनलगसंमितं भ्रमति वाङ्मयं जगति यस्य।
स जयति पिङ्गलनागः शिवप्रसादाद्विशुद्धमतिः।।
त्रिगुरुं विद्धि मकारं लघ्वादिसमन्वितं यकाराख्यम्।
लघुमध्यमं तु रेफं सकारमन्ते गुरुनिबद्धम्।।
लघ्वन्त्यं हि तकारं जकारमुभयोर्लघुं विजानीयात्।
आदिगुरुं च भकारं नकारमिह पैङ्गले त्रिलघुम्।।
दीर्घसंयोग परं तथा स्वर व्यञ्जनान्तमूष्मान्तम्।
सानुस्वारं च गुरुं क्वचिदवसानेऽपि लघ्वन्त्यम्।।
आदिमध्यावसानेषु यरता यान्ति लाघवम्।
भजसा गौरवं यान्ति मनौ तु गुरुलाघवम्।।
त्रिविरामं दशवर्षं षण्मात्रमुवाच पिङ्गलः सूत्रम्।
छन्दोवर्ग पदार्थ प्रत्ययहेतोश्च शास्त्रादौ॥ । १.१ ।
धीश्रीस्त्रीम् । २.१ ।
वरासाय् । २.२ ।
कागुहार् । २.३ ।
वसुधास् । २.४ ।
सातेक्वत् । २.५ ।
कदासज् । २.६ ।
किंवदभ् । २.७ ।
नहसन् । २.८ ।
गृल् । २.९ ।
गन्ते । २.१० ।
ध्रादिपरः । २.११ ।
हे । २.१२ ।
लौसः । २.१३ ।
ग्लौ । २.१४ ।
अष्टौ वसव इति॥ । २.१५ ।
छन्दः । ३.१ ।
गायत्री । ३.२ ।
दैव्येकम् । ३.३ ।
आसुरी पञ्चदश । ३.४ ।
प्राजापत्याष्टौ । ३.५ ।
यजुषां षट् । ३.६ ।
साम्नां द्विः । ३.७ ।
ऋचां त्रिः । ३.८ ।
द्वौ द्वौ साम्नां वर्धेत । ३.९ ।
त्रींस्त्रीनृचाम् । ३.१० ।
चतुरश्चतुरः प्राजापत्यायाः । ३.११ ।
एकैकं शेषे । ३.१२ ।
जह्यादासुरी । ३.१३ ।
तान्युष्णिगनुष्टुब्बृहती पंक्ति त्रिष्टुब्जगत्यः । ३.१४ ।
तिस्रस्तिस्रस्सनाम्न्य एकैका ब्राह्म्यः। ३.१५ ।
प्राग्यजुषामार्ष्य इति।। । ३.१६ ।
पादः । ४.१ ।
इयादिपूरणः । ४.२ ।
गायत्र्या वसवः । ४.३ ।
जगत्या आदित्याः । ४.४ ।
विराजो दिशः । ४.५ ।
त्रिष्टुभो रुद्राः । ४.६ ।
एकद्वित्रिचतुष्पादुक्तपादम् । ४.७ ।
आद्यं चतुष्पादृतुभिः । ४.८ ।
क्वचित् त्रिपादृषिभिः । ४.९ ।
सा पादनिचृत् । ४.१० ।
षट्कसप्तकयोर्मध्येऽष्टावतिपादनिचृत् । ४.११ ।
द्वौ नवकौ षट्कश्च नागी।४.१२
विपरीता वाराही । ४.१३ ।
षट्कसप्तकाष्टकैर्वर्धमाना । ४.१४ ।
विपरीता प्रतिष्ठा । ४.१५ ।
तृतीयं द्विपाज्जागतगायत्राभ्याम् । ४.१६ ।
त्रिपात्त्रैष्टुभैः । ४.१७ ।
उष्णिग्गायत्रौ जागतश्च । ४.१८ ।
ककुम्मध्ये चेदन्त्यः । ४.१९ ।
पुरउष्णिक् पुरः ।। । ४.२० ।
परोष्णिक् परः । ५.१ ।
चतुष्पादृषिभिः । ५.२ ।
अनुष्टुप् गायत्रैः । ५.३ ।
त्रिपात्क्वचिज्जागताभ्यां च । ५.४ ।
मध्येऽन्ते च । ५.५ ।
बृहती जागतस्त्रयश्च गायत्राः । ५.६ ।
पथ्या पूर्वश्चेत्तृतीयः । ५.७ ।
न्यङ्कुसारिणी द्वितीयः । ५.८ ।
स्कन्धोग्रीवी क्रौष्टुकेः । ५.९ ।
रोबृहती यास्कस्य । ५.१० ।
उपरिष्टाद्बृहत्यन्ते । ५.११ ।
पुरस्ताद्बृहती पुरः । ५.१२ ।
क्वचिन्नवकाश्चत्वारः । ५.१३ ।
वैराजौ गायत्रौ च । ५.१४ ।
त्रिभिर्जागतैर्महाबृहती । ५.१५ ।
सतोबृहती ताण्डिनः । ५.१६ ।
पंक्तिर्जागतौ गायत्रौ च । ५.१७ ।
पूर्वौ चेदयुजौ सतः पंक्तिः । ५.१८ ।
विपरीतौ च॥ । ५.१९ ।
आस्तारपंक्तिः परतः । ६.१ ।
प्रस्तारपंक्तिः पुरतः । ६.२ ।
विष्टारपंक्तिरन्तः । ६.३ ।
संस्तारपंक्तिर्बहिः । ६.४ ।
अक्षरपंक्तिः पञ्चकाश्चत्वारः । ६.५ ।
द्वावप्यल्पशः । ६.६ ।
पदपंक्तिः पञ्च । ६.७ ।
चतुष्क षट्कौ त्रयश्च । ६.८ ।
पथ्या पञ्चभिर्गायत्रैः । ६.९ ।
जगती षड्भिः । ६.१० ।
एकेन त्रिष्टुप् ज्योतिष्मती । ६.११ ।
तथा जगती । ६.१२ ।
पुरस्ताज्ज्योतिः प्रथमेन । ६.१३ ।
मध्येज्योतिर्मध्यमेन । ६.१४ ।
उपरिष्टाज्ज्योतिरन्त्येन । ६.१५ ।
एकस्मिन्पञ्चके छन्दः शङ्कुमती । ६.१६ ।
षट्के ककुद्मती । ६.१७ ।
त्रिपादनिष्ठ मध्या पिपीलिक मध्या । ६.१८ ।
विपरीता यवमध्या । ६.१९ ।
ऊनाधिकेनैकेन निचृद्भुरिजौ । ६.२० ।
द्वाभ्यां विराट् स्वराजौ । ६.२१ ।
आदितः सन्दिग्धे॥ । ६.२२ ।
देवतादितश्च । ७.१ ।
अग्निः सविता सोमो बृहस्पतिर्मित्रावरुणाविन्द्रो विश्वेदेवा देवताः । ७.२ ।
स्वराः षड्ज ऋषभ गान्धार मध्यम पञ्चम धैवत निषादाः । ७.३ ।
सित सारङ्ग पिशङ्ग कृष्ण नील लोहित गौरा वर्णाः । ७.४ ।
आग्निवेश्य काश्यप गौतमांगिरस भार्गव कौशिक वासिष्ठानि गोत्राणि । ७.५ ।
श्यामान्यतिच्छन्दांसि । ७.६ ।
रोचनाभाः कृतयः । ७.७ ।
अनुक्तानां कामतो वर्णा इति।। । ७.८ ।
चतुः शतमुत्कृतिः । ८.१ ।
चतुरश्चतुरस्त्यजेदुत्कृतेः । ८.२ ।
तान्यभिसंव्याप्रेभ्यः कृतिः । ८.३ ।
प्रकृत्याचोपसर्गवर्जितः । ८.४ ।
धृत्यष्टिशक्वरी जगत्यः । ८.५ ।
पृथक्पृथक्पूर्वत एतान्येवैषाम् । ८.६ ।
द्वितीयं द्वितीयमतितः । ८.७ ।
अथ लौकिकम् । ८.८ ।
आत्रैष्टुभाच्च यदार्षम् । ८.९ ।
पादश्चतुर्भागः । ८.१० ।
यथावृत्तसमाप्तिर्वा । ८.११ ।
लः समुद्रागणः । ८.१२ ।
गौगन्तमध्यादिर्न्लश्च । ८.१३ ।
स्वरा अर्धं चार्यार्धम् । ८.१४ ।
अत्रायुङ्नज् । ८.१५ ।
षष्ठोज् । ८.१६ ।
न्लौ वा । ८.१७ ।
न्लौचेत्पदं द्वितीयादि । ८.१८ ।
सप्तमः प्रथमादि । ८.१९ ।
अन्त्ये पञ्चमः।। । ८.२० ।
षष्ठश्चल् । ९.१ ।
त्रिषु गणेषु पादः पथ्याद्ये च । ९.२ ।
विपुलान्या । ९.३ ।
चपला द्वितीय चतुर्थौ ग्मध्येजौ । ९.४ ।
पूर्वे मुखपूर्वा । ९.५ ।
जघनपूर्वेतरत्र । ९.६ ।
उभयोर्महाचपला । ९.७ ।
आद्यर्धसमा गीतिः । ९.८ ।
अन्त्येनोपगीतिः । ९.९ ।
उत्क्रमेणोद्गीतिः । ९.१० ।
अर्धे वसुगण आर्यागीतिः । ९.११ ।
वैतालीयं द्विःस्वरा अयुक्पादे युग्वसवोन्तेर्ल्गः । ९.१२ ।
गौपच्छन्दसिकम् । ९.१३ ।
आपातलिका भ्गौग् । ९.१४ ।
शेषे परेण युङ्न साकम् । ९.१५ ।
षट्चामिश्रायुजि । ९.१६ ।
पञ्चमेन पूर्वः साकं प्राच्यवृत्तिः । ९.१७ ।
अयुक्तृतीयेनोदीच्यवृत्तिः । ९.१८ ।
आभ्यां युगपत्प्रवृत्तकम् । ९.१९ ।
अयुक् चारुहासिनी ॥ । ९.२० ।
युगपरान्तिका । १०.१ ।
गन्ता द्विर्वसवो मात्रा समकल् नवमः । १०.२ ।
द्वादशश्च वानवासिका । १०.३ ।
विश्लोकः पञ्चमाष्टमौ । १०.४ ।
चित्रा नवमश्च । १०.५ ।
परयुक्तेनोपचित्रा । १०.६ ।
एभिः पादाकुलकम् । १०.७ ।
गीत्यार्यालः । १०.८ ।
शिखा विपर्यस्तार्धा । १०.९ ।
लः पूर्वश्चेज्ज्योतिः । १०.१० ।
गश्चेत्सौम्या । १०.११ ।
चूलिकैकान्नत्रिंशदेकत्रिंशदन्तेग् । १०.१२ ।
साग्येननसमा लांग्ल इति।। । १०.१३ ।
वृत्तम् । ११.१ ।
सममर्धसमं विषमं च । ११.२ ।
समं तावत्कृत्वः कृतमर्धसमं विषमं च । ११.३ ।
राश्यूनम् । ११.४ ।
ग्लिति समानी । ११.५ ।
ल्गिति प्रमाणी । ११.६ ।
वितानमन्यत् । ११.७ ।
पादस्यानुष्टुप् वकाम् । ११.८ ।
न प्रथमात्स्नौ । ११.९ ।
द्वितीय चतुर्थयोरश्च । ११.१० ।
वान्यत् । ११.११ ।
यच्चतुर्थात्।११.१२
पथ्या युजोज् । ११.१३ ।
विपरीतैकीयम् । ११.१४ ।
चपला युजोन् । ११.१५ ।
विपुलायुग्लः सप्तमः । ११.१६ ।
सर्वतः सैतवस्य । ११.१७ ।
भ्रौन्तौ च । ११.१८ ।
प्रतिपादं चतुर्वृध्यापदचतुरूर्ध्वम् । ११.१९ ।
गावन्त आपीडः।। । ११.२० ।
गावादौ चेत्प्रत्यापीडः । १२.१ ।
प्रत्यापीडो गावादौ च । १२.२ ।
प्रथमस्य विपर्यासे मञ्जरीलवल्यमृतधाराः । १२.३ ।
उद्गतामेकतसजौ स्लौ न्सौ ज्गौ भ्नौ ज्लौ ग्स्जौ स्जौग् । १२.४ ।
तृतीयस्य सौरभकं नौभ्गौ । १२.५ ।
ललितं नौसौ । १२.६ ।
उपस्थितप्रचुपितं पृथगाद्यं सौज्भौगौ स्नौज्रौग्नौस्नौन्जौय् । १२.७ ।
वर्धमानं तृतीये नौस्नौन्सौ । १२.८ ।
शुद्धविराळृषभं तज्राः । १२.९ ।
अर्धे । १२.१० ।
उपचित्रकं सोस्लोग्भौभ्गौग्।१२.११
द्रुतमध्या भौभ्गौग्न्जौज्यौ । १२.१२ ।
वेगवती सौस्गौभौभ्गौग् । १२.१३ ।
भद्रविराट् त्जौर्गौम्सौज्गौग् । १२.१४ ।
केतुमती स्जौस्गौभ्रौन्गौग् । १२.१५ ।
आख्यानकी तौ ज्गौग् ज्तौ ज्गौग् । १२.१६ ।
विपरीताख्यानकी ज्तौज्गौग्तौज्गौग् । १२.१७ ।
हरिणप्लुता सौस्लौ ग्न्भौ भ्रौ । १२.१८ ।
अपरवक्त्रं नौर्लौग्न्जौ ज्रौ । १२.१९ ।
पुष्पिताग्रा नौर्यौन्जौज्रौग्।। । १२.२० ।
यवमती र्जौर्जौज्रौज्रौग् । १३.१ ।
शिखैकान्नत्रिंशदेकत्रिंशदन्तेग् । १३.२ ।
खञ्जा महत्ययुजीति।। । १३.३ ।
यतिर्विच्छेदः । १४.१ ।
तनुमध्या त्यौ । १४.२ ।
कुमारललिता ज्सौग् । १४.३ ।
माणवकाक्रीडितकं भ्तौल्गौ । १४.४ ।
चित्रपदा भौगौ । १४.५ ।
विद्युन्माला मौगौ । १४.६ ।
भुजगशिशुभृता नौम् । १४.७ ।
हलमुखी र्नौस् । १४.८ ।
शुद्ध विराण्म्सौज्गौ । १४.९ ।
पणवो म्नौय्गौ । १४.१० ।
रुक्मवती भ्मौस्गौ । १४.११ ।
मयूरसारिणी र्जौर्गौ । १४.१२ ।
मत्ता म्भौस्गौ । १४.१३ ।
उपस्थिता त्जौज्गौ । १४.१४ ।
एकरूपं सौज्गौग् । १४.१५ ।
इन्द्रवज्रा तौ ज्गौग् । १४.१६ ।
उपेन्द्रवज्रा ज्तौज्गौग् । १४.१७ ।
वाद्यन्ता उपजातयः । १४.१८ ।
दोधकं भौभ्गौग् । १४.१९ ।
शालिनी म्तौत्गौग्समुद्र ऋषयः।। । १४.२० ।
वातोर्मी म्भौत्गौग्च । १५.१ ।
भ्रमरविलसितं म्भौन्लौग् । १५.२ ।
रथोद्धता र्नौर्लौग् । १५.३ ।
स्वागता र्नौभ्गौग् । १५.४ ।
वृत्ता नौस्नौग् । १५.५ ।
श्येनी र्जौर्लौग् । १५.६ ।
जगती । १५.७ ।
वंशस्था ज्तौज्रौ । १५.८ ।
इन्द्रवंशा तौज्रौ । १५.९ ।
द्रुतविलम्बितं न्भौभ्रौ । १५.१० ।
तोटकं सः । १५.११ ।
पुटो नौम्यौ वसुसमुद्राः । १५.१२ ।
जलोद्धतगतिर्ज्सौ ज्सौ रसर्तवः । १५.१३ ।
भुजङ्ग प्रयातं यः । १५.१४ ।
स्रग्विणी रः । १५.१५ ।
प्रमिताक्षरा स्जौसौ । १५.१६ ।
वैश्वदेवी मौयाविन्द्रिय ऋषयः । १५.१७ ।
नवमालिनी न्जौभ्याविति ॥ । १५.१८ ।
प्रहर्षिणी म्नौ ज्रौग् त्रिक दशकौ । १६.१ ।
रुचिरा ज्भौस्जौग् समुद्रनवकौ । १६.२ ।
मत्तमयूरा म्तौ य्सौग् । १६.३ ।
असम्बाधा म्तौ न्सौ गाविन्द्रिय नवकौ । १६.४ ।
अपराजिता नौर्सौ ल्गौ स्वर ऋषयः । १६.५ ।
प्रहरणकलिता नौ भ्नौ ल्गौ च । १६.६ ।
वसन्ततिलका द्भौ जौ गौ । १६.७ ।
सिंहोन्नता काश्यपस्य । १६.८ ।
उद्धर्षिणी सैतवस्य । १६.९ ।
चन्द्रावर्ता नौनौस् । १६.१० ।
मालर्तुनवकौ चेत् । १६.११ ।
मणिगुणनिकरो वस्वृषयः । १६.१२ ।
मालिनी नौम्यौय् च । १६.१३ ।
ऋषभगजविलसितं भ्रौनौन्गौ स्वर नवकौ । १६.१४ ।
हरिणी न्सौम्रौस्लौग् रस समुद्र ऋषयः । १६.१५ ।
पृथ्वी ज्सौ ज्सौ य्लौग् वसु नवकौ । १६.१६ ।
वंशपत्रपतितं भ्रौ न्भौ न्लौग् दिगृषयः । १६.१७ ।
मन्दाक्रान्ता म्भौ न्तौ द्गौग् समुद्रर्तु स्वराः । १६.१८ ।
शिखरिणी य्मौभ्लौगृतु रुद्राः । १६.१९ ।
कुसुमितलतावेल्लिता म्तौ न्यौ याविन्द्रियर्तु स्वराः।। । १६.२० ।
शार्दूलविक्रीडितं म्सौ ज्सौ तौगादित्य ऋषयः । १७.१ ।
सुवदना म्नौ भ्नौ य्भौ ल्गौ स्वर ऋषि रसाः । १७.२ ।
ग्लिति वृत्तम् । १७.३ ।
स्रग्धरा म्रौ भ्नौ यौय् त्रिस्सप्तकाः । १७.४ ।
मद्रकं भ्रौन्रौ न्रौन्गौ दिगादित्याः । १७.५ ।
अश्वललितं न्जौ भ्जौ भ्जौ भ्लौग्रुद्रादित्याः । १७.६ ।
मत्ताक्रीडा मौत्नौ नौन्लौग्वसु पञ्चदशकौ । १७.७ ।
तन्वी भ्तौन्सौ भौन्यौ द्विरादित्याः । १७.८ ।
क्रौञ्चपदा भ्मौस्भौ नौनौग्भूतेन्द्रिय वस्वृषयः । १७.९ ।
भुजङ्गविजृम्भितं मौत्नौनौ र्सौ ल्गौ वसु रुद्र ऋषयः । १७.१० ।
अपवाहको म्नौनौनौ न्सौगौ नवकर्तु रसेन्द्रियाणि । १७.११ ।
दण्डको नौरः । १७.१२ ।
प्रथमश्चण्डवृष्टिप्रयातः । १७.१३ ।
अन्यत्रारातमाण्डव्याभ्याम् । १७.१४ ।
शेषः प्रचित इति।। । १७.१५ ।
अत्रानुक्तं गाथा । १८.१ ।
द्विकौ ग्लौ । १८.२ ।
मिश्रौ च । १८.३ ।
पृथग्लामिश्राः । १८.४ ।
वसवस्त्रिकाः । १८.५ ।
लर्धे । १८.६ ।
सैकेग् । १८.७ ।
प्रतिलोमगुणं द्विर्लाद्यम् । १८.८ ।
ततोग्येकं जह्यात् । १८.९ ।
द्विरर्धे । १८.१० ।
रूपं शुन्यम् । १८.११ ।
द्विः शून्ये । १८.१२ ।
तावदर्धे तद्गुणितम् । १८.१३ ।
द्विर्द्व्यूनम् । १८.१४ ।
तदन्तानाम् । १८.१५ ।
एकोनेद्धा । १८.१६ ।
परेपूर्णं परे पूर्णमिति।। । १८.१७ ।