चार्वाकदर्शनम्

Wikisource इत्यस्मात्
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
चार्वाकदर्शनम्
चार्वाकदर्शनम्


चार्वाकदर्शनं (Charvaka Darshan) किञ्चन विभिन्नं दर्शनम् अस्ति । चिन्तनगाम्भीर्यदृष्टया पश्यामः चेत् ज्ञायते यत् निम्नस्तरीयं दर्शनं चार्वाकदर्शनम् इति । बृहस्पतिः एव जनान् मोहयितुं प्रियकरैः वचनैः चार्वाकमतम् उपदिष्टवान् इति श्रूयते । चार्वाकदर्शनस्य मूलग्रन्थः इदानीं न उपलभ्यते । चार्वाकदर्शनं धर्माधर्मादीनां, पापपुण्यादीनाम् आत्मादीनां वा अस्तित्वं न अङ्गीकरोति । चार्वाकाः भोगवादं विशेषतः पुरस्कुर्वन्ति । किन्तु एतावता न निर्णेतव्यं यत् ते भोगैकतत्पराः दुराचाराः च आसन् इति । अहिंसा, शान्तिप्रियता, युद्धनिषेधः इत्यादयः बहवः अंशाः तैः अपि प्रतिपादिताः ।
अस्य दर्शनस्य सूत्रकारः बृह्स्पतिः नाम आचार्यः भवति । दर्शनस्यास्य प्रचारकः चार्वाको नाम दैत्यः आसीत् इत्यतः चार्वाकदर्शनमिति ख्यातिः । चार्वाकदर्शनानुसारं मरणमेव मोक्षः । मरणात् परं किमपि नास्ति इति ते वदन्ति । परलोकं पुनर्जन्म च न अङ्गीकुर्वन्ति ते । ‘भस्मीभूतस्य देहस्य पुनरागमनं कुतः ?’चार्वाकदर्शनम् इति ते पृच्छन्ति च । तेषां तु शरीरमेव आत्मा शरीरभिन्नः कश्चिद् आत्मा नास्ति । एतत् चार्वाकदर्शनं लोके बाहुल्येन प्रचलितत्वात् लोकायतदर्शनम् इत्यपि नाम प्राप्तम् । प्रत्यक्षं तेषाम् एकमात्रं प्रमाणम् ।

यावज्जीवं सुखं जीवेत् नास्ति मृत्योरगोचरः ।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ इति

लोकगाथामनुसन्दधाना नीतिकामशास्त्रानुसारेण अर्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिकमर्थम् अपह्नुवानाः चार्वाकमतम् अनुवर्तमानाः एवानुभूयन्ते । स.द. संग्रहः ॥

पृथिवी-अप्- तेजो-वायु -रूपात्मकं शरीरमेव आत्मा, न तु शरीरातिरिक्तः आत्मा वर्तते । प्रत्यक्षमेव प्रमाणम् । शरीरस्य कृते अपेक्षितो अर्थ-कामौ पुरुषार्थौ स्तः । वेदः कल्पितः, अतः प्रमाणं भवितुं नार्हति इति मन्वते चार्वाकाः ।

क) पृथिव्यप्तेजोवायवः तत्त्वानि ।
ख) तेभ्यः चैतन्यम् ।
ग) चैतन्यविशिष्टः कायः पुरुषः ।
घ) कामार्थौ पुरुषार्थौ ।
ङ) मरणं मोक्षः इति संग्रहः ।

तथाहि-
देहस्य नाशो मुक्तिस्तु न ज्ञानात् मुक्तिरिष्यते ॥
अत्र चत्वारि भूतानि भूमिवारयुर्नलानिलाः ।
चतुभ्यः खलु भूतेभ्यः चैतन्यमुपजायते ॥
..........................(सं.द.सं)

अनादिकालादेव सृष्टेः रहस्यं तत्त्वज्ञानिनां कृते अनुसन्धानस्य विषयोऽस्ति । सर्वासु दार्शनिकविचारधारासु स्वस्वदृष्टिकोणैरस्य विश्लेषणं कृतम् । यथा सर्वेषु मानवशरीरेषु जातिगतसाम्ये विद्यमानेऽपि आकृतिगतभेदो भवति तथैव बुद्धिवैषम्यात् सृष्टितत्त्वम् एकं सदपि पृथक्बुद्धिविषयत्वात् विविधरूपेषु ज्ञातुं शक्यते ।

दर्शनशास्त्रे प्रमेयतत्त्वानां सम्बन्धे इदमेव तथ्यं घटते । सृष्टि-स्रष्टा-प्रभृतीनि तत्त्वानि विविधदर्शनेषु विविधदृष्टिकोणेन मीमांसितानि । तत्त्वसाक्षात्कारस्य प्रक्रियायां चिन्तको यावत् चिन्तनं करोति तावत् उपलब्धं निष्कर्षं प्रस्तौति । एवञ्चेत् विविधानां चिन्तकानां निष्कर्षेषु पार्थक्यं दृश्यते । अतः दार्शनिकानाम् एकस्मिन् एव विषये मतान्तराणि स्वाभाविकानि वर्तन्ते ।

भारतीयदर्शने एकः सम्प्रदायविशेषः उपर्युक्तमतेन सहमतो नास्ति । तस्य विचारणा विद्यतेयत् सृष्टेर्यत् स्थूलं रूपं दृश्यते तदेव सत्यमस्ति । दृश्यमाणस्वरूपापेक्षया किमपि अन्यत् तत्त्वं सूक्ष्मरूपेण सृष्टिमूले वर्तते इति विश्वसनीयं नास्ति । यतो हि अदृष्टस्य सूक्ष्मतत्त्वस्य सत्तायामपि किं प्रमाणमस्ति इति नैव वक्तुं शक्यते । एवञ्चेत् बुद्धिभेदात् एते स्थूलबुद्धयो दार्शनिकाः स्वकीयया स्थूलबुद्ध्या यदपि अवगन्तुं क्षमन्ते,तदेव मूलतत्त्वं स्वीकुर्वन्ति ।

अयं संशयः सन्देहवादो वा यद्यपि महाभारतकालात्पूर्वमपि विद्यमान आसीत् येन वैदिक दर्शनानि पर्याप्तं क्षतिग्रस्तानि अभवन् । महाभारतकाले भगवद्गीताया माध्यमेन वैदिकदर्शनस्य पुनः प्रतिष्ठापना विहिता, तथापि वेदविरोधिविचाराणां मूलोच्छेदनं नैव जातम् । वैदिकदर्शनेषु सततं तेषां वेदविरोधिनामाचार्याणां प्रहारा अपि समजायन्त ।

सृष्टितत्त्वानां प्रामाण्यम् अनुमानापेक्षया शब्दप्रमाणेन सुतरां गृह्यते । वेदाः शब्दप्रमाणरूपाः वर्तन्ते । वैदिकवाक्यैरेव दर्शनोक्तानां जीव-जगत्-ईश्वर-ब्रह्मादितत्त्वानां प्रामाणिकता सिद्ध्यति । पुनरपि अवैदिकदर्शनेषु वेदानां प्रामाण्यं स्वीकृतं नास्ति । अवैदिकदर्शनेषु चार्वाक-जैन-बौद्धाः प्रमुखाः सन्ति । एष्वपि जैन-बौद्धयोः तत्त्वचिन्तने सूक्ष्मा दृष्टिरस्ति । चार्वाकस्तु पूर्णतया स्थूलदृष्टिरस्ति ।

दर्शनशास्त्रस्येतिहासे चार्वाकदर्शनस्य आद्यं स्थानमस्ति । अनेन चार्वाकदर्शनस्य प्राचीनताऽपि सिद्ध्यति । अस्य प्राचीनतया इदमपि स्पष्टीभवति यत् यथा यथा मानवसभ्यताया विकासो जातः तथा तथा तस्याः संस्कृतौ आचारविचारयोश्च परिष्कारो बभूव । सभ्यतया विकासेन सह सृष्टिविज्ञानादयो दार्शनिकसिद्धान्ता अपि सूक्ष्मतत्त्वानुसन्धाने प्रवृत्ता भवितारः, किन्तु सभ्यतायाः प्रारम्भे दर्शनशास्त्रस्य स्थूलतत्त्वानि प्रचलितानि स्युरित्यपि पन्तुं शक्यते ।

यदि चार्वाकाः स्थूलविचारपर्यन्यतमेवात्मनः चिन्तनस्य श्रेयस्करत्वं मन्यन्ते तर्हि को दोषः? वस्तुतः चार्वाकस्य एषा हठधर्मिता तु तन्मतस्य पुरातनम् अस्तित्वं द्योतयति । तथापि चार्वाकस्य स्थूलदृष्टेर्मान्यताया आधारः को भवितुं शक्नोति । दर्शनस्य तात्विकविश्लेषणेन तन्निर्धारणं स्यात् ।

प्रारम्भे इदं दर्शनं लोकायतनाम्ना प्रसिद्धमासीत् । लोकयतानां स्वीकार्यः कश्चित् सिद्धान्तो नासीत् परपक्षखण्डनमेव तेषां सिद्धान्तोऽवर्तत । ते लोकायतिका वेदनिन्दका आसन् । तात्कालिका अन्य विचारका अपि एभ्यः खिन्ना आसन् । जैनबौद्धाभ्याम् अपि एषा निन्दा विहिता । एषां चार्वाकनामकरणे किमपि सुदृढं प्रमाणं नास्ति। आचार्यबृहस्पतेः शिष्याश्चार्वाका आसन्,अतः एतेऽपि चार्वाका इत्युच्यन्ते । परलोक-पाप-पुण्यादीनां चवर्णादपि इमे चार्वाकाः स्युः । एषां वाक् चारु अस्तीति अत एव एते चार्वाकाः सन्ति ।

देवगुरुः बृहस्पतिरेव अस्य मतस्य प्रवर्तनं कृतवान् । बृहस्पतिप्रवर्तितेऽस्मिन् दर्शने स्वभाववादो यदृच्छावादो नियतिवादः कालवादो भौतिकवादश्च अवधारणारूपेण विकसिताः । एष्वपि स्वभाववादश्चार्वाकानाम् अतीव सन्निकटमस्ति । यतो हि स्वभाववादे कारणकार्यभावस्य आवश्यकतैव नास्ति । कालवादे भाग्यस्य महत्त्वं स्वीकृतमस्ति । नियतिवादे आकस्मिकताया ग्रहणं विधीयते । आकस्मिकघटनाभिः सह ऐक्यं यदृच्छावादोऽभिधीयत।

चार्वाकसिद्धान्तस्योल्लेखो रामायणमहाभारतयोरपि उपलभ्यते । वाल्मीकीयरामायणे लोकायतिकानां प्रसङ्गोऽस्ति । लोकायतिकाः मिथ्यावादिनः आसीत् । महाभारते देह एव आत्मा इति सिद्धान्तवादिनां लोकायतिकानां सिद्धान्तानां प्रतिपादनप्रसङ्गे चतुर्भ्यो भूतेभ्योः चैतन्यस्य उत्पत्तिः, प्रत्यक्षमात्रस्य प्रामाण्यञ्च प्रतिपादिते ।

चार्वाकदर्शनस्य मूलग्रन्थः सूत्रशैल्याम् उपनिबद्ध आसीत् । अस्य रचना आचार्येण बृहस्पतिना विहिता । अस्य तथ्यस्योल्लेखः प्राप्यते, किन्तु सः सूत्रग्रन्थोऽनुलब्धोऽस्ति । डाँ. उमेशमिश्रेण चार्वाकदर्शनस्य पञ्चदशसूत्राणि उल्लिखितानि । एतानि सूत्राणि तेन विविधभाष्यग्रन्थेभ्यः टीकाग्रन्थेभ्यश्चोद्धृतानि सन्ति । एततिरिक्तं ‘भागुरि’ कृतस्य टीकाग्रन्थस्यापि उल्लेखं इतिहासकाराः कुर्वन्ति । भट्टजयराशिकृतस्य तत्त्वोपल्पवसिन्धु नामकस्य अन्य ग्रन्थस्य विषयेऽपि विज्ञायते । अस्मिन् ग्रन्थे चार्वाकसिद्धान्तानां विस्तरेण विश्लेषणं कृतमस्ति ।