घेरण्डसंहिता/चतुर्थोध्यायः

विकिस्रोतः तः
← तृतीयोध्यायः चतुर्थोध्यायः
घेरण्डः
पञ्चमोध्यायः →

<poem> अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम्। अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम् ॥१॥
यतो यतो निश्चरति मनश्चञ्चमस्थिरम्। ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥२॥
पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम्। मनस्तस्मान्नियम्यैतदात्मन्येव वशं नयेत् ॥३॥
सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः। तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥४॥
मधुराम्लकतिक्तादिरसान्याति यदामनः। तदाप्रत्यारेत्तेभ्य आत्मन्येव वशंनयेत् ॥५॥

इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे प्रत्याहराप्रयोगो नाम चतुर्थोपदेशः ॥