गरुडपुराणम्/प्रेतकाण्डः (धर्मकाण्डः)/अध्यायः ३१

विकिस्रोतः तः
← प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३० गरुडपुराणम्
अध्यायः ३१
वेदव्यासः
प्रेतकाण्डः (धर्मकाण्डः), अध्यायः ३२ →

श्रीगरुडमहापुराणम् ३१
श्रीविष्णुरुवाच ।
ये नराः पापसंयुक्तास्ते गच्छन्ति यमालयम् ।
नृणां मत्साक्षिकं दत्तमनन्तफलदं भवेत् ॥ २,३१.१ ॥

यावद्रजः प्रमाणाब्दंस्वर्गे तिष्ठति भूमिदः ।
अश्वारूढाश्च ते यान्ति ददते ये ह्युपानहौ ॥ २,३१.२ ॥

आतपे श्रमयोगेन न दह्यन्ते च कुत्रचित् ।
छत्त्रदानेन वै प्रेता विचरन्ति सुखं पथि ॥ २,३१.३ ॥

यमुद्दिश्य ददात्यन्नं तेन चाप्यायितो भवेत् ॥ २,३१.४ ॥

अन्धकारे महाघोरे अमूर्ते लक्ष्यवर्जिते ।
उद्द्योतेनैव ते यान्ति दीपदानेन मानवाः ॥ २,३१.५ ॥

आश्विने कर्तिके वापि माघे मृततिथावपि ।
चतुर्दश्याञ्च दीयेत दीपदानं सुखाय वै ॥ २,३१.६ ॥

प्रत्यहञ्च प्रदातव्यं मार्गे सुविषमे नरैः ।
यावत्संवत्सरं वापि प्रेतस्य सुखलिप्सया ॥ २,३१.७ ॥

कुले द्योतति शुद्धात्मा प्रकाशत्वं स गच्छति ।
ज्योतिर्मयोऽसौ पूज्योऽसौ दीपदानप्रदो नरः ॥ २,३१.८ ॥

प्राङ्मुखोदङ्मुखं दीपं देवागारे द्विजातये ।
कुर्याद्याम्यमुखं पित्रे अद्भिः सङ्कल्प्य सुस्थिरम् ॥ २,३१.९ ॥

सर्वोपहारयुक्तानि पदान्यत्र त्रयोदश ।
यो ददाति मृतस्येह जीवन्नप्यात्महेतवे ।
स गच्छति महामार्गे महाकष्टविवर्जितः ॥ २,३१.१० ॥

आसनं भाजनं भोज्यं दीयते यद्द्विजायते ।
सुखे न भुञ्जमानस्तु देन गच्छत्यलं पथि ॥ २,३१.११ ॥

कमण्डलुप्रदानेन तृषितः पिबते जलम् ॥ २,३१.१२ ॥

भाजनं वस्त्रदानञ्च कुसुमञ्चाङ्गुलीयकम् ।
एकादशा हे दातव्यं प्रेतोद्धरणहेतवे ॥ २,३१.१३ ॥

त्रयोदश पदानीत्थं प्रेतस्य शुभमिच्छता ।
दातव्यानि यथाशक्त्या प्रेतोऽसौ प्रीणितो भवेत् ॥ २,३१.१४ ॥

भोजना नि तिलांश्चैव उदकुम्भांस्त्रयोदश ।
मुद्रिकां वस्त्रयुग्मञ्च तया याति परां गतिम् ॥ २,३१.१५ ॥

योऽश्वं नावं गजं वापि ब्राह्मणे प्रतिपादयेत् ।
स महिम्नोऽनुसारेण तत्तत्सुखमुपाश्नुते ॥ २,३१.१६ ॥

नानालोकान् विचरति महिषीञ्च ददाति यः ।
यमपुत्त्रस्य या माता महिषी सुगतिप्रदा ॥ २,३१.१७ ॥

ताम्बूलं कुसुमं देयं याम्यानां हर्षवर्धनम् ।
तेन सम्प्रीणिताः सर्वे तस्मिन् क्लेशं न कुर्वते ॥ २,३१.१८ ॥

गोभूतिलहिरण्यानि दानान्याहुः स्वशक्तितः ॥ २,३१.१९ ॥

मृतोद्देशेन यो यद्याज्जलपात्रञ्च मृन्मयम् ।
उदपात्रसहस्रस्य फलमाप्नोति मानवः ॥ २,३१.२० ॥

यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः ।
न भीषयन्ति तं याम्या वस्त्रदाने कृते सति ॥ २,३१.२१ ॥

मार्गे हि गच्छमानस्तु तृष्णार्तः श्रमपीडितः ।
घटान्नदानयोगेन सुखी भवति निश्चितम् ॥ २,३१.२२ ॥

शय्या दक्षिणया युक्ता आयुधाम्बरसंयुता ।
हैमश्रीपतिना युक्ता देया विप्राय शर्मणे ।
तथा प्रेतत्वमुक्तोऽसौ मोदते सह दैवतैः ॥ २,३१.२३ ॥

एतत्ते कथितं तार्क्ष्य दानमन्त्येष्टिकर्मजम् ।
अधुना कथयिष्येऽहमन्यदेहप्रवेशनम् ॥ २,३१.२४ ॥

जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् ।
मृतिः कुर्यात्स्वधर्मेण यास्यतश्च परन्तप ॥ २,३१.२५ ॥

पूर्वकाले मृतानाञ्च प्राणिनाञ्च खगेश्वर ।
सूक्ष्मोभूत्वा त्वसौ वायुर्निर्गच्छत्यास्यमण्डलात् ॥ २,३१.२६ ॥

नवद्वारै रोमभिश्च जनानां तालुरन्ध्रके ।
पापिष्ठानामपानेन जीवो निष्क्रामति ध्रुवम् ॥ २,३१.२७ ॥

शरीरञ्च पतेत्पश्चान्निर्गते मरुतीश्वरे ।
वाताहतः पतत्येव निराधारो यथा द्रुमः ॥ २,३१.२८ ॥

पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च ।
तेजस्तेजसि लीयते समीरणः समीरणे ।
आकाशे च तथा काशः सर्वव्यापी च शङ्करे ॥ २,३१.२९ ॥

तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ।
एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः ॥ २,३१.३० ॥

कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ।
संहारकश्च कालोऽयं पुण्यपापसमन्वितः ॥ २,३१.३१ ॥

जगतश्च स्वरूपन्तु निर्मितं स्वेन कर्मणा ।
पुनर्देहान्तरं याति सुकृतैर्दुष्कृतैर्नरः ॥ २,३१.३२ ॥

पञ्चेन्द्रियसमायुक्तं सकलैर्विष्यैः सह ।
प्रविशेत्स नवं देहं गृहे दग्धे यथा गृही ॥ २,३१.३३ ॥

शरीरे ये समासीना सम्भवेत्सर्वधातवः ।
षाट्कौशिको ह्ययं कायो माता पित्रोश्च धातवः ॥ २,३१.३४ ॥

सम्भवेयुस्तथा तार्क्ष्य सर्वे वाताश्च देहिनाम् ।
मूत्रं पुरीषं तद्योगा ये चान्ये व्याधयस्तथा ॥ २,३१.३५ ॥

अस्थि शुक्रं तथा स्नायुः देहेन सह दह्यते ।
एष ते कथितस्तार्क्ष्य विनाशः सर्वदेहिनाम् ॥ २,३१.३६ ॥

कथयामि पुनस्तेषां शरीरञ्च यथा भवेत् ।
एकस्तम्भं स्नायुबद्धं स्थूणाद्वयसमुद्धृतम् ॥ २,३१.३७ ॥

इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ।
विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् ॥ २,३१.३८ ॥

रागद्वेषसमाकीर्णं तृष्णादुर्गसुदुस्तरम् ।
लोभजालसमायुक्तं पुरं पुरुषसंज्ञितम् ॥ २,३१.३९ ॥

एतद्गुणसमायुक्तं शरीरं सर्वदेहिनाम् ।
तिष्ठन्ति देवताः सर्वा भुवनानि चतुर्दश ॥ २,३१.४० ॥

आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ।
एवमेतन्मयाख्यातं शरीरं ते चतुर्विधम् ॥ २,३१.४१ ॥

चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ।
उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः ॥ २,३१.४२ ॥

एतत्ते सर्वमाख्यातं यत्पृष्टोहं त्वयानघ ॥ २,३१.४३ ॥

इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे प्रेतकल्पे श्रीकृष्णगरुडसंवादे दानफ लान्यदेहप्रवेशादिनिरूपणं नामै कत्रिंशोऽध्यायः