गरुडपुराणम्/आचारकाण्डः/अध्यायः ९०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ८९ गरुडपुराणम्
अध्यायः ९०
वेदव्यासः
आचारकाण्डः, अध्यायः ९१ →

           ॥ मार्कण्डेय उवाच ॥
ततस्तस्मान्नदीमध्यात्समुत्तस्थौ मनोरमा ॥
प्रम्लौचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥ 90.1 ॥

सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥
प्रसादयामास भूयः प्रम्लोचा च वराप्सराः ॥ 90.2 ॥

अतीवरूपिणी कन्या मत्प्रसाद्वराङ्गना ॥
जाता वरुणपुत्रेण पुष्करेण महात्मना ॥ 90.3 ॥

तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् ॥
मनुर्महामतिस्तस्यां समुत्पत्स्यति ते सुतः ॥ 90.4 ॥

मार्कंडेय उवाच ॥
तथेति तेन साप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ॥
उद्दधार ततः कन्यां मानिनीं नाम नामतः ॥ 90.5 ॥

नद्याश्च पुलिने तस्मिन्स मुनिर्मुनिसत्तमाः ॥
जग्राह पाणिं विधिवत्समानीय महामुनिः ॥ 90.6 ॥

तस्यां तस्य सुतो जज्ञे महावीर्य्यो महाद्युतिः ॥
रुचे रौच्य इति ख्यातो यो मया पूर्वमीरितः ॥ 90.7 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे प्रम्लोचागमनं नाम नवतितमोऽध्यायः ॥ 90 ॥