गरुडपुराणम्/आचारकाण्डः/अध्यायः ८

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ७ गरुडपुराणम्
अध्यायः ८
वेदव्यासः
आचारकाण्डः, अध्यायः ९ →

।।हरिरुवाच ।।
भूमिष्ठे मण्डपे स्नात्वा मण्डले विष्णुमर्चयेत् ।।
पञ्चरंगिकचूर्णेन वज्रनाभं तु मण्डलम् ।। 8.1 ।।

षोडशैः कोष्ठकैस्तत्र सम्मितं रुद्र ? कारयेत् ।।
चतुर्थपंचकोणेषु सूत्रपातं तु कारयेत् ।। 8.2 ।।

कोणसूत्रादुभयतः कोणा ये तत्र संस्थिताः ।।
तेषु चैव प्रकुर्वीत सूत्रपातं विचक्षणः ।। 8.3 ।।

तदनन्तरकोणेषु एवमेव हि कारयेत् ।।
प्रथमा नाभिरुद्दिष्टा मध्ये रेखाप्रसंगमे ।। 8.4 ।।

अन्तरेषु च सर्वेषु अष्टौ चैव तुनाभयः ।।
पूर्वमध्यमनाभिभ्यामथं सूत्रं तु भ्रामयेत् ।। 8.5 ।।

अन्तरा स द्विजश्रेष्ठः पादोनं भ्रामयेद्धर !।।
अनेन नाभिसूत्रस्य कर्णिकां भ्रामयेच्छिव ! ।। 8.6 ।।

कर्णिकाया द्विभागेन केसराणि विचक्षणः ।।
तदग्रेण सदा विद्वान्दलान्येव समालिखेत् ।। 8.7 ।।

सर्वेषु नाभिक्षेत्रषु मानेनानेन सुव्रत ! ।।
पद्मानि तानि कुर्वीत देशिकः पर मार्थवित् ।। 8.8 ।।

आदिसूत्रविभागेन द्वाराणि परिकल्पयेत् ।।
द्वारशोभां तथा तत्र तदर्द्धेन तु कल्पयेत् ।। 8.9 ।।

कर्णिकां पीतवर्णेन सितरक्तादिकेसरैः ।।
अन्तरं नीलवर्णेन दलानि असितेन च ।। 8.10 ।।

कृष्णवर्णेन रजसा चतुरश्रं प्रपूरयेत् ।।
द्वाराणि शुक्लवर्णेन रेखाः पंच च मण्डले ।। 8.11 ।।

सिता रक्ता तथा पीता कृष्णा चैव यथाक्रमम् ।।
कृत्वैव मण्डलञ्चादौ न्यासं कृत्वार्चयेद्धरिम् ।। 8.12 ।।

हृन्मध्ये तु न्यसेद्विष्णुं कण्ठे सङ्कर्षणं तथा ।।
प्रद्युम्नं शिरसिन्यस्य शिखायामनिरुद्धकम् ।। 8.13 ।।

ब्रह्माणं सर्वगात्रेषु करयोः श्रीधरं तथा ।।
अहं विष्णुरिति ध्यात्वा कर्णिकायां न्यसेद्धरिम् ।। 8.14 ।।

न्यसेत्सङ्कर्षणं पूर्वे प्रद्युम्नं चैव दक्षिणे ।।
अनिरुद्धं पश्चिमे च ब्रह्माणं चोत्तरे न्यसेत् ।। 8.15 ।।

श्रीधरं रुद्रकोणेषु इन्द्रादीन्दिक्षु विन्यसेत् ।।
ततोऽभ्यर्च्य च गन्धाद्यैः प्राप्नुयात्परमं पदम् ।। 8.16 ।।


।।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुपूजोपयोगिवज्रनाभमण्डलनिरूपणं नामाष्टमोऽध्यायः ।। 8 ।।