गरुडपुराणम्/आचारकाण्डः/अध्यायः २५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २४ गरुडपुराणम्
अध्यायः २५
वेदव्यासः
आचारकाण्डः, अध्यायः २६ →

।।सूत उवाच ।।
ऐं क्रीं श्रीं स्फें क्षौं अनन्तशक्तिपादुकां पूजयामि नमः ।। 25.1 ।।

ऐं श्रीं फ्रौं क्षौं आधारशक्तिपादुकां पूजयामि नमः ।।
ॐ ह्रं कालाग्निरुद्रपादुकां पूजयामि नमः ।। 25.2 ।।

ॐ ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः ।।
ॐ ह्रीं शेषभट्टारकपादुकां पूजयामि नमः ।। 25.3 ।।

ॐ ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः ।। 25.4 ।।

ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम् ।।
हकारादिनवात्मकपदः सद्योदातादिमन्त्रः ह्रां हृदयाद्यङ्गः ।।
एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्‌समस्तषडंगः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्त्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णिकः ।।
नवशक्तिशिवादिभिर्मूलमण्डलत्रयकुजात्मकोत्पन्नापद्मासनपादुकां पूजयामि नमः ।। 25.5 ।।

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पंचविंशोऽध्यायः ।। 25 ।।