गरुडपुराणम्/आचारकाण्डः/अध्यायः २३७

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २३६ गरुडपुराणम्
अध्यायः २३७
वेदव्यासः
आचारकाण्डः, अध्यायः २३८ →

श्रीगरुडमहापुराणम् २३७
श्रीबगवानुवाच ।
गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा ।
अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः ॥ १,२३७.१ ॥

आत्मलाभः परो नान्य अत्मदेहादिवर्जितः ।
हीनरूपादिदेहान्तः करणत्वादिलोचनः ॥ १,२३७.२ ॥

बिज्ञानरहितः प्राणः सुषुप्तौ हि प्रतीयते ।
नाहमात्मा च दुः खादिसंसारादिसमन्वयात् ॥ १,२३७.३ ॥

विधूम इव दीप्तार्चिरादीप्त (दित्य) इव दीप्तिमान् ।
वैद्युतोऽग्निरिवाकाशे हृत्सङ्गे आत्मनात्मनि ॥ १,२३७.४ ॥

श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना ।
सर्वज्ञः सर्वदर्शो च क्षेत्रज्ञस्तानि पश्यन्ति ॥ १,२३७.५ ॥

यदा प्रकाशते ह्यात्मा पटे दीपो ज्वलन्निव ।
ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ॥ १,२३७.६ ॥

यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि ।
इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् ॥ १,२३७.७ ॥

मनोबुद्धिरहङ्कारमव्यक्तं पुरुषं तथा ।
प्रसंख्याय परंव्याप्तो विमुक्तो बन्धवैर्भवेत् ॥ १,२३७.८ ॥

इन्द्रियग्राममखिलं मनसाभिनिवेश्य च ।
मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ॥ १,२३७.९ ॥

अहं कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ।
प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥ १,२३७.१० ॥

अहं बह्म परं ज्योतिः प्रसंख्याय विमुच्यते ।
नवद्वारमिदं गेहं तिसृणां?पञ्चसाक्षिकम् ॥ १,२३७.११ ॥

क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स वरः कविः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोच्शीम् ॥ १,२३७.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीमद्भगवद्गीतासारनिरूपणं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः