गरुडपुराणम्/आचारकाण्डः/अध्यायः २०३

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः २०२ गरुडपुराणम्
अध्यायः २०३
वेदव्यासः
आचारकाण्डः, अध्यायः २०४ →

श्रीगरुडमहापुराणम् २०३
हरिरुवाच ।
या गौर्द्वेष्टिं स्वकं वत्सं तस्या देयं स्वकं पयः ।
लवणेन समायुक्तं तस्या वत्सः प्रियो भवेत् ॥ १,२०३.१ ॥

शुनोऽस्थि कण्ठबद्धं हि महिषाणां गवा तथा ।
कृमिजालं पातयति सकलं नात्र संशयः ॥ १,२०३.२ ॥

गोजङ्गनाभिपातः स्याद्गुञ्जामूलस्य भक्षणात् ॥ १,२०३.३ ॥

वरुणफलस्यरसं करेण मथितं शिव ।
चतुष्पादद्विपदयोः कृमिजालं निपातयेत् ॥ १,२०३.४ ॥

व्रणञ्च शमयेद्रुद्र जयायाः पूरणात्तथा ।
गजमूत्रस्य वै पानं गोमहिष्युपसर्गनुत् ॥ १,२०३.५ ॥

समसूर शालिबीजं पीतं तक्रेण घर्षितम् ।
क्षीरे गोमहीषस्यैव गोः पुंसश्च हितं भवेत् ॥ १,२०३.६ ॥

पत्रञ्च शरपुङ्खाया दत्तं सलवणं शिव ।
वारिस्फोटं हयानाञ्च केसराणां विनाशयेत् ॥ १,२०३.७ ॥

घृतकुमारीपत्रमेव दत्तं सलक्षणं हर ।
तुरगमकेसराणां कण्डूनंश्येन्न संशयः ॥ १,२०३.८ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नानौषधप्रयोगनिरूपणं नाम त्र्युत्तरद्विशततमोऽध्यायः