गरुडपुराणम्/आचारकाण्डः/अध्यायः १९१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १९० गरुडपुराणम्
अध्यायः १९१
वेदव्यासः
आचारकाण्डः, अध्यायः १९२ →

श्रीगरुडमहापुराणम् १९१
हरिरुवाच ।
पुनर्नवाया मूलञ्च श्वेतं पुष्ये समाहृतम् ।
वारि पीतं तस्य पार्श्व भवनेषु न पन्नगाः ॥ १,१९१.१ ॥

तार्क्ष्यमूर्तिं वहेद्यो वै भल्लूकदन्तनिर्मिताम् ।
स पन्नगैर्न दृश्येत यावज्जीवं वृषध्वज ॥ १,१९१.२ ॥

पिबेच्छल्मलिमूलं यः पुष्यर्क्षे रुद्र वारिणा ।
तस्मिन्नपास्तदशना नागाः स्युर्नात्र संशयः ॥ १,१९१.३ ॥

पुष्ये लज्जालुकामूले हस्तबद्धे तु पन्नगान् ।
गृह्णीयाल्लेपतो वापि नात्र कार्या विचारणा ॥ १,१९१.४ ॥

पुष्येश्वेतार्कमूलन्तु पीतं शीतेन वारिणा ।
नश्येतु दंशकविषं करवीरादिजं विषम् ॥ १,१९१.५ ॥

महाकालस्य वै मूलं पिष्टं तत्काञ्जिकेन वै ।
वोड्राणां डुण्डुभानां च तल्लोपो हरते विषम् ॥ १,१९१.६ ॥

तण्डुलीयकमूलं च पिष्टं तण्डुलवारिणा ।
घृतेन सह पीतन्तु हरेत्सर्वाविषाणि च ॥ १,१९१.७ ॥

नीलीलज्जालुकामूलं पिष्टं तण्डुलवारिणा ।
पीतं तद्दंशकविषं नश्येदेकेन वोभयोः ॥ १,१९१.८ ॥

कूष्माण्डकस्य स्वरसः सगुडः सहशर्करः ।
पीतः सदुग्धो हन्याच्च दंशकस्यविषं च वै ॥ १,१९१.९ ॥

तथा कोद्रवमूलस्य मोहस्य हर एव च ।
यष्टीमधुसमायुक्ता तथा पीता च शर्करा ॥ १,१९१.१० ॥

सदुग्धा च त्रिरात्रेण मूषकानां विषं हरेत् ।
चुलुकत्रयपानाच्च वारिणः शीतलस्य वै ॥ १,१९१.११ ॥

ताम्बूलदग्धमुखस्य लालास्त्रावो विनश्यति ।
घृतं सशर्करं षीत्वा मद्यपानमदो न वै ॥ १,१९१.१२ ॥

कृष्णाङ्कोलस्य मूलेन पीतं सुक्वथितं जलम् ।
ततो नश्यद्गरविषं त्रिरात्रेण महेश्वर ॥ १,१९१.१३ ॥

उष्णं गव्यघृतं चैव सैन्धवेन समन्वितम् ।
नाशयेत्तन्महादेव वेदनां वृश्चिकोद्भवाम् ॥ १,१९१.१४ ॥

कुसुभं कङ्कुमञ्चैव हरितालं मनः शिला ।
करञ्जं पिषितं चैव ह्यर्कमूलं च शङ्कर ॥ १,१९१.१५ ॥

विषंनृणां विनश्येत्तु एतेषां भक्षणाच्छिव ।
दीपतैलप्रदानाच्च दंशैराकीटजैः शिव ।
खर्जूरकविषं नश्येत्तदा वै नात्र संशयः ॥ १,१९१.१६ ॥

दंशस्थानं वृश्चिकस्य शुण्ठी तगरसंयुता ।
नश्येन्मधुमक्षिकाया एतेषां लेपतो विषम् ॥ १,१९१.१७ ॥

शतपुष्पा सैन्धवञ्च साज्यं वा तेन लेपयेत् ।
शिरीषस्य तु बीजंवै सिद्ध क्षीरेण घर्षितम् ॥ १,१९१.१८ ॥

तल्लेपेन महादेव नश्येत्कुक्कुरजं विषम् ।
ज्वलिताग्निर्वारिसेको तथा दर्दुरजं विषम् ॥ १,१९१.१९ ॥

धत्तूरकरसोन्मिश्रं क्षीराद्यगुडपानतः ।
शूनां विषं विनश्येत्तु शशाङ्काङ्कितशेखर ॥ १,१९१.२० ॥

वटनिम्बशमीनाञ्च वल्कलैः क्वथितं जलम् ।
तत्सेकान्मुखदन्तानां नश्येद्वै विषवेदना ॥ १,१९१.२१ ॥

लेपनाद्देवदारोश्च गैरिकस्य च लेपनात् ।
नागेश्वरो दरिद्रे द्वे तथा मञ्जिष्ठका हर ।
एभिर्लेपाद्विनश्येत्तु लूताविषमुमापते ॥ १,१९१.२२ ॥

करञ्जस्य तु बीजानि वरुणच्छदमेव च ।
तिलाश्च सर्षपा हन्युर्विषं वै नात्र संशयः ॥ १,१९१.२३ ॥

घृतं कुमारीपत्रं वै दत्तं सलवणं हर ।
तुरङ्गमशरीराणां कण्डूर्नश्येद्दशाहतः ॥ १,१९१.२४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकनवत्यधिकशततमोऽध्यायः