गरुडपुराणम्/आचारकाण्डः/अध्यायः १८८

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १८७ गरुडपुराणम्
अध्यायः १८८
वेदव्यासः
आचारकाण्डः, अध्यायः १८९ →

श्रीगरुडमहापुराणम् १८८
हरिरुवाच ।
निर्व्रणः स्यात्पूयंहीनो प्रहारो घृपूरितः ।
अपामार्गस्य वै मूलं हस्ताभ्याञ्च विमर्दितम् ।
तद्रसेन प्रहारस्य रक्तस्त्रावो न पूरणात् ॥ १,१८८.१ ॥

रुद्र लाङ्गलिकामूलं चेक्षुदर्भस्तथैव च ।
तेन व्रणमुखं लिप्तं शल्यं निः स रति व्रणात् ।
चिरकालप्रविष्टोऽपि तेन मार्गेण शङ्कर ॥ १,१८८.२ ॥

बालमूलं मेषशृङ्गीमूलं वा वारिघर्षितम् ।
तेन लिप्तं चिरं जातं व्रणं नाड्याः प्रशाम्यति ॥ १,१८८.३ ॥

जग्धं माहिषपध्ना च युक्तं कोद्रवभक्तकम् ।
हिङ्गुमूलस्य वै चूर्णं दत्तं नाडीव्रणापहम् ॥ १,१८८.४ ॥

ब्रह्मयष्टिफलं पिष्टं वारिणा तेनलेपितम् ।
तेन घृष्टं रक्तदोषः प्रणश्यति न संशयः ॥ १,१८८.५ ॥

यवभस्म विडङ्गञ्च गन्धपाषाणमेव च ।
शुण्ठिरेषाञ्चैव चूर्णं भ्वितं रुधिरेणवै ॥ १,१८८.६ ॥

कृकलासस्य तल्लिप्तं विद्रधिं नाशयेच्छिव ।
सौभाञ्जनस्य बीजानि त्वतसीमसिना सह ॥ १,१८८.७ ॥

सौरसर्षपयुक्तानि सर्वाण्येतानि शङ्कर ।
पिष्टान्यनम्लतक्रेण ग्रन्थिकं नाशयेद्धि वै ॥ १,१८८.८ ॥

श्वेतापराजितामूलं पिष्टं तण्डुलवारिणा ।
तेन नस्यप्रदानात्स्याद्भूतवृन्दस्य विद्रवः ॥ १,१८८.९ ॥

अगस्त्यपुष्पनस्यं वै समरीचं तु शूलहृत् ।
भुजङ्गचर्म वै हिङ्गु निम्बपत्रं तथा यवाः ।
गौरसर्षम एभिः स्याल्लेपो भूतहरः शिव ॥ १,१८८.१० ॥

गोरोचना मरीचानि पिप्पली सैन्धवं मधु ।
अञ्जनं कृतमेभिः स्याद्ग्रहभूतहरं शिव ॥ १,१८८.११ ॥

गुग्गुलूलूकपुच्छाभ्यां धूपो ग्रहहरो भवेत् ।
चातुर्थिकज्वरैर्मुक्तो कृष्णवस्त्रावगुण्ठितः ॥ १,१८८.१२ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे व्रणाचि दृमाष्टाशीत्यधिकशततमोऽध्यायः