गरुडपुराणम्/आचारकाण्डः/अध्यायः १४१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १४० गरुडपुराणम्
अध्यायः १४१
वेदव्यासः
आचारकाण्डः, अध्यायः १४२ →

श्रीगरुडमहापुराणम् १४१
हरिरुवाच ।
शतानीको ह्यश्वमेधदत्तश्चाप्यधिसोमकः ।
कृष्णोऽनिरुद्धश्चाप्युष्णस्ततश्चित्ररथो नृपः ॥ १,१४१.१ ॥

शुचिद्रथो वृष्णिमांश्च सुपेणश्च सुनीथकः ।
नृचक्षुश्च मुखाबाणः मेधावी च नृपञ्जयः ॥ १,१४१.२ ॥

पारिप्लवश्च मुनयो मेधावी च नृपञ्जयः ।
बृहद्रथो हरिस्तिग्मो शतानीकः सुदानकः ॥ १,१४१.३ ॥

उदानोऽह्निनरश्चैव दण्डपाणिर्निमित्तकः ।
क्षेमकश्च ततः शूद्रः पिता पूर्वस्ततः सुतः ॥ १,१४१.४ ॥

बृहद्बलास्तु कथयन्ते नृपोश्चैक्ष्वाकुवंशजाः ।
बृहद्बलादुरुक्षयो वत्सव्यूहस्ततः परः ॥ १,१४१.५ ॥

वत्सव्यूहात्ततः सूर्यः सहदेवस्तदात्मजः ।
बृहदश्वो भानुरथः प्रतीच्यश्च प्रतीतकः ।
मनुदेवः सुनक्षत्रः किन्नरश्चान्तरिक्षकः ॥ १,१४१.६ ॥

सुपर्णः कृतजिच्चैव बृहद्भ्राजश्च धार्मिकः ।
कृतञ्जयो धनञ्जयः संजयः शाक्य एव च ॥ १,१४१.७ ॥

शुद्धोदनो बाहुलश्च सेनजित्क्षुद्रकस्तथा ।
सुमित्रः कुडवश्चातः सुमित्रान्मागधाञ्छणु ॥ १,१४१.८ ॥

जरासन्धः सहदेवः सोमापिश्च श्रुतश्रवाः ।
अयुतायुर्निरमित्रः सुक्षत्रो बहुकर्मकः ॥ १,१४१.९ ॥

श्रुतञ्जयः सेनजिच्च भूरिश्चैव शुचिस्तथा ।
क्षेम्यश्च सुव्रतो धर्मः श्मश्रुलो दृढसेनकः ॥ १,१४१.१० ॥

सुमतिः सुबलो नीतो सत्यजिद्विश्वजित्तथा ।
इषुञ्जयश्च इत्येते नृपा बार्हद्रथाः स्मृताः ॥ १,१४१.११ ॥

अधर्मिष्ठाश्च शूद्राश्च भविष्यन्ति नृपास्ततः ।
स्वर्गादिकृद्धि भगवान्साक्षान्नारायणोऽव्ययः ॥ १,१४१.१२ ॥

नैमित्तिकः प्राकृतिकस्तथैवात्यन्तिको लयः ।
याति भूः प्रलयं चाप्सु ह्यापस्तेजसि पावकः ॥ १,१४१.१३ ॥

वायौ वायुश्च वियति त्वाकाशौ यात्यहङ्कृतौ ।
अहं बुद्धौ मतिर्जोवे जीवोऽव्यक्ते तदात्मनि ॥ १,१४१.१४ ॥

आत्मा परेश्वरो विष्णुरेको नारायणो नरः ।
अविनाश्यपरं सर्वं जगत्स्वर्गादि नाशि हि ॥ १,१४१.१५ ॥

नृपादयो गता नाशमतः पापं विवर्जयेत् ।
धर्मं कुर्यात्स्थिरं येन पापं हित्वा हरिं व्रजेत् ॥ १,१४१.१६ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भविष्य राजवंश दृ नामैकचत्वारिंशदुत्तरशततमोऽध्यायः