गरुडपुराणम्/आचारकाण्डः/अध्यायः १३०

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२९ गरुडपुराणम्
अध्यायः १३०
वेदव्यासः
आचारकाण्डः, अध्यायः १३१ →

श्रीगरुडमहापुराणम् १३०
ब्रह्मोवाच ।
एवं भाद्रपदे मासि कार्तिकेयं प्रपूयेत् ।
स्नानदानादिकं सर्वमस्यामक्षय्यमुच्यते ॥ १,१३०.१ ॥

सप्तम्यां प्राशयेच्चपि भोज्यं विप्रान्रविं यजेत् ।
ओं खखोल्कायमृतत्वं (तन्तं) प्रियसङ्गमो भव सद स्वाहा ॥ १,१३०.२ ॥

अष्टम्यां पारणं कुर्यान्मरीचं प्राश्य स्वर्गभाक्
सप्तम्यां नियतः स्नात्वा पूजयित्वा दिवाकरम् ॥ १,१३०.३ ॥

दद्यात्फलानि विप्रेभ्यो मार्तण्डः प्रीयतामिति ।
खर्जूरं नारिकेलं वा प्राशयेन्मातुलुङ्गकम् ॥ १,१३०.४ ॥

सर्वे भवन्तु सफला मम कामाः समन्ततः ।
(इति फलसप्तमी)
संपूज्य देवं सप्तम्यां पायसेनाथ भोजयेत् ॥ १,१३०.५ ॥

विप्रांश्च दक्षिणां दत्त्वा स्वयं चाथ पयः पिबेत् ।
भक्ष्यं चोष्यं तथा लेह्यं ओदनं चेति कीर्तितम् ॥ १,१३०.६ ॥

धनपुत्रादिकामस्तु त्यजेदेतदनोदनः
वाय्वाशी विजयेत्क्षुच्च कुर्याद्विजयसप्तमीम् ।
अद्यादर्कं च कामेच्छुरुपवासे तरेन्मदम् ॥ १,१३०.७ ॥

गोधूममाषयवषष्टिककांस्यपात्रं पाषाणपिष्टमधुमैषुनमद्यमांसम् ।
अभ्यञ्जनाञ्जनतिलांश्च विवर्जयेद्यः तस्येषितं भवति सप्तसु सप्तमीषु ॥ १,१३०.८ ॥

(इति विजयसप्तमीव्रतम्) ।
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे सप्तमीव्रतनिरूपणं नाम त्रिंशोत्तरशततमोऽध्यायः