गरुडपुराणम्/आचारकाण्डः/अध्यायः १२५

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२४ गरुडपुराणम्
अध्यायः १२५
वेदव्यासः
आचारकाण्डः, अध्यायः १२६ →

श्रीगरुडमहापुराणम् १२५
पितामह उवाच ।
मान्धाता चक्रवर्त्यासीदुपोष्यैकादशीं नृपः ।
एकादश्यां न भुञ्जीत पक्षयोरुभयारपि ॥ १,१२५.१ ॥

दशम्येकादशीमिश्रा गान्धार्या समुपोषिता ।
तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत् ॥ १,१२५.२ ॥

द्वादश्येकादशी यत्र तत्र सन्निहितो हरिः ।
दशम्येकादशी यत्र तत्र सन्निहितोऽसुरः ।
बहुवाक्यविरोधेन सन्देहो जायते यदा ॥ १,१२५.३ ॥

द्वादशी तु तदा ग्राह्या त्रयोदश्यान्तु पारणम् ।
एकादशी कलापिस्यादुपोष्या द्वादशी तथा ॥ १,१२५.४ ॥

एकादशी द्वादशी च विशेषेण त्रयोदशी ।
त्रिमिश्रा सा तिथिर्ग्राह्या सर्वपापहरा शुभा ॥ १,१२५.५ ॥

एकादशीमुपोष्यैवद्वादशीम थवा द्विज ! ।
त्रिमिश्रां चैव कुर्वीत न दशम्या युतां क्रचित् ॥ १,१२५.६ ॥

रात्रौ जागरणं कुर्वन्पुराणश्रवणं नृपः ।
गदाधरं पूजयंश्च उपोष्यैका दशीद्वयम् ।
रुक्माङ्गदो ययौ मोक्षमन्ये चैकादशीव्रतम् ॥ १,१२५.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे एकादशीमाहात्म्यं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः