गरुडपुराणम्/आचारकाण्डः/अध्यायः १२२

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १२१ गरुडपुराणम्
अध्यायः १२२
वेदव्यासः
आचारकाण्डः, अध्यायः १२३ →

श्रीगरुडमहापुराणम् १२२
ब्रह्मोवाच ।
व्रतं मासोपवासाख्यं सर्वोत्कृष्टं वदामिते ।
वानप्रस्थो यतिर्नारी कुर्यान्मासोपवासकम् ॥ १,१२२.१ ॥

आश्विनस्य सिते पक्षे एकादश्यामुपोषितः ।
व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु ॥ १,१२२.२ ॥

अद्यप्रभृत्यहं विष्णो यावदुत्थानकं तव ।
अर्चयेत्वामनश्रंस्तु दिनानि त्रिंशदेव तु ॥ १,१२२.३ ॥

कार्तिकाश्विनयोर्विष्णो द्वादश्योः शुक्लयोरहम् ।
म्रियेयद्यन्तराले तु व्रतभङ्गो न मे भवेत् ॥ १,१२२.४ ॥

हरिं यजोत्त्रिषवणस्नायी गन्धादिभिर्व्रती ।
गात्राभ्यङ्गं गन्धलेपं देवतायतने त्यजेत् ॥ १,१२२.५ ॥

द्वादश्यामथ संपूज्य प्रदद्याद्द्विजभोजनम् ।
ततश्च पारणं कुर्याद्धरेर्मासोपवासकृत् ॥ १,१२२.६ ॥

दुग्धादिप्राशनं कुर्याद्व्रतस्थो मूर्छितोऽन्तरा ।
दुग्धाद्यैर्न व्रतं नश्येद्भुक्तिमुक्तिमवाप्नुयात् ॥ १,१२२.७ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मासोपवासव्रतं नाम द्वाविंशत्युत्तरशततमोऽध्यायः