गरुडपुराणम्/आचारकाण्डः/अध्यायः ११६

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः ११५ गरुडपुराणम्
अध्यायः ११६
वेदव्यासः
आचारकाण्डः, अध्यायः ११७ →

श्रीगरुडमहापुराणम् ११६
ब्रह्मोवाच ।
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् ।
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः ॥ १,११६.१ ॥
एकभक्तेन नक्तेन उपवासफलादिना ।
ददाति धनधान्यादि पुत्रराज्यजयादिकम् ॥ १,११६.२ ॥
वैश्वानरः प्रतिपदि कुबेरः पूजितोऽर्थदः ।
उपोष्य ब्रह्मा प्रतिपद्यर्चितः श्रीस्तथाश्विनी ॥ १,११६.३ ॥
द्वितीयायां यमो लक्ष्मीनारायण इहार्थदः ।
तृतीयायां त्रिदेवाश्च गौरीविघ्नेशशङ्कराः ॥ १,११६.४ ॥
चतुर्थ्यां च चतुर्व्यूहः पञ्चम्यामर्चितो हरिः ।
कार्तिकेयो रविः षष्ठ्यां सप्तम्यां भास्करोऽर्थदः ॥ १,११६.५ ॥
दुर्गाष्टम्यां नवम्यां च मातरोऽथ दिशोऽर्थदाः ।
दशम्यां च यमश्चन्द्र एकादश्यामृषीन्यजेत् ॥ १,११६.६ ॥
द्वादश्यां च हरिः कामस्त्रयोदश्यां महेश्वरः ।
चतुर्दश्यां पञ्चदश्यां ब्रह्मा च पितरोऽर्थदाः ॥ १,११६.७ ॥
अमावास्यां पूजनीया वारा वै भास्करादयः ।
नक्षत्राणि च योगाश्च पूजिताः सर्वदायकाः ॥ १,११६.८ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे तिथ्यादिव्रतवर्णनं नाम षोडशोत्तरशततमोऽध्यायः

श्रीगरुडमहापुराणम् ११६
ब्रह्मोवाच ।
व्रतानि व्यास वक्ष्यामि हरिर्यैः सर्वदो भवेत् ।
सर्वमासर्क्षतिथिषु वारेषु हरिरर्चितः ॥ १,११६.१ ॥
एकभक्तेन नक्तेन उपवासफलादिना ।
ददाति धनधान्यादि पुत्रराज्यजयादिकम् ॥ १,११६.२ ॥
वैश्वानरः प्रतिपदि कुबेरः पूजितोऽर्थदः ।
पोष्य ब्रह्मो प्रतिपद्यर्चितः श्रिस्तथाश्विनी ॥ १,११६.३ ॥