गरुडपुराणम्/आचारकाण्डः/अध्यायः १०१

विकिस्रोतः तः
← आचारकाण्डः, अध्यायः १०० गरुडपुराणम्
अध्यायः १०१
वेदव्यासः
आचारकाण्डः, अध्यायः १०२ →

              ॥ याज्ञवल्क्य उवाच ॥
श्रीकामः शान्तिकामो वा ग्रहदृष्ट्यभिचारवान् ॥
ग्रहयंज्ञं समं कुर्य्याद्ग्रहाश्चैते बुधैः स्मृताः ॥ 101.1 ॥

सूर्य्यः सोमो मङ्गलश्च बुधश्चैव बृहस्पतिः ॥
शुक्रः शनैश्चरो राहुः केतुर्ग्रहगणाः स्मृताः ॥ 101.2 ॥

ताम्रकांस्यस्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ ॥
रजतादयसः सीसात्कांस्याद्वर्णान्निबोधत ॥ 101.3 ॥

रक्तः शुक्लस्तथा रक्तः पीतः पीतः सितोसितः ॥
कृष्णः कृष्णः क्रमाद्वर्णा द्रव्याणि मुनयस्ततः ॥ 101.4 ॥

स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत्पटे ॥
स्नापयेद्धोमयेच्चैव ग्रहद्रव्यैर्विधानतः ॥
सुवर्णानि प्रदेयानि वासांसि सुसुमानि च ॥ 101.5 ॥

गन्धाश्च बलयश्चैव धूपो देयश्चगुग्गुलुः ॥
कर्त्तव्यास्तत्र मन्त्रैश्च चरवः प्रतिदैवतम् ॥ 101.6 ॥

आकृष्णेन इमंदेवा अग्निर्मूर्द्धादिवः ककुत् ॥
उब्दुध्यस्वेति जुहुयादेभिरेव यथाक्रमम् ॥ 101.7 ॥

बृहस्पतेपरिदीयेति सर्वे अन्नात्परिसुतम् ॥
शन्नोदेवी कयानश्च केतुंक्रण्वन्निति क्रमात् ॥ 101.8 ॥

अर्कः पलाशः खदिरस्त्वपामार्गोऽथ पिप्पलः ॥
औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ 101.9 ॥

होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्वितः ॥
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् ॥ 101.10 ॥

दध्योदनं हविः पूपान्मांसं चित्रान्नमेव च ॥
दद्याद्गहक्रमादेतान् ग्रहेभ्यो भोजनं ततः ॥ 101.11 ॥

धेनुः शङ्खस्तथानड्वान्हेम वासो हयस्तथा ॥
कृष्णा गौरायसं छाग एता वै दक्षिणाः क्रमात् ॥
ग्रहाः पूज्याः सदा यस्माद्रज्यादि प्राप्यते फलम् ॥ 101.12 ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमोऽध्यायः ॥ 101 ॥