कौटिलीय अर्थशास्त्रं ११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
  Book |  
    Chapt |      भेद उपादानानि - उपांशुदण्डाः
  • 11.1.01 सङ्घलाभो दण्डमित्रलाभानां उत्तमः
  • 11.1.02 सङ्घा हि संहतत्वाद् अधृष्याः परेषाम्
  • 11.1.03 तान् अनुगुणान् भुञ्जीत सामदानाभ्यां, विगुणान् भेददण्डाभ्याम्
  • 11.1.04 काम्बोजसुराष्ट्रक्षत्रियश्रेण्य्ऽअदयो वार्त्तशस्त्र उपजीविनः
  • 11.1.05 लिच्छिविकवृजिकमल्लकमद्रककुकुरकुरुपाञ्चालादयो राजशब्द उपजीविनः
  • 11.1.06 सर्वेषां आसन्नाः सत्त्रिणः सङ्घानां परस्परन्यङ्गद्वेषवैरकलहस्थानान्युपलभ्य क्रमाभिनीतं भेदं उपचारयेयुः असौ त्वा विजल्पति इति
  • 11.1.07 एवं उभयतोबद्धरोषाणां विद्याशिल्पद्यूतवैहारिकेष्वाचार्यव्यञ्जना बालकलहान् उत्पादयेयुः
  • 11.1.08 वेशशौण्डिकेषु वा प्रतिलोमप्रशंसाभिः सङ्घमुख्यमनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्यपक्ष उपग्रहेण वा
  • 11.1.09 कुमारकान् विशिष्टच्छिन्दिकया हीनच्छिन्दिकान् उत्साहयेयुः
  • 11.1.10 विशिष्टानां च एकपात्रं विवाहं वा हीनेभ्यो वारयेयुः
  • 11.1.11 हीनान् वा विशिष्टैरेकपात्रे विवाहे वा योजयेयुः
  • 11.1.12 अवहीनान् वा तुल्यभाव उपगमने कुलतः पौरुषतः स्थानविपर्यासतो वा
  • 11.1.13 व्यवहारं अवस्थितं वा प्रतिलोमस्थापनेन निशामयेयुः
  • 11.1.14 विवादपदेषु वा द्रव्यपशुमनुष्याभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः
  • 11.1.15 सर्वेषु च कलहस्थानेषु हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य प्रतिपक्षवधे योजयेत्
  • 11.1.16 भिन्नान् अपवाहयेद् वा
  • 11.1.17 भूमौ च एषां पञ्चकुलीं दशकुलीं वा कृष्यायां निवेशयेत्
  • 11.1.18 एकस्था हि शस्त्रग्रहणसमर्थाः स्युः
  • 11.1.19 समवाये च एषां अत्ययं स्थापयेत्
  • 11.1.20 राजशब्दिभिरवरुद्धं अवक्षिप्तं वा कुल्यं अभिजातं राजपुत्रत्वे स्थापयेत्
  • 11.1.21 कार्तान्तिकादिश्चास्य वर्गो राजलक्षण्यतां सङ्घेषु प्रकाशयेत्
  • 11.1.22 सङ्घमुख्यांश्च धर्मिष्ठान् उपजपेत् स्वधर्मं अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम् इति
  • 11.1.23 प्रतिपन्नेषु कृत्यपक्ष उपग्रहार्थं अर्थं दण्डं च प्रेषयेत्
  • 11.1.24 विक्रमकाले शौण्डिकव्यञ्जनाः पुत्रदारप्रेतापदेशेन नैSएचनिकम् इति मदनरसयुक्तान् मद्यकुम्भान्शतशः प्रयच्छेयुः
  • 11.1.25 चैत्यदैवतद्वाररक्षास्थानेषु च सत्त्रिणः समयकर्मनिक्षेपं सहिरण्याभिज्ञानमुद्राणि हिरण्यभाजनानि च प्ररूपयेयुः
  • 11.1.26 दृश्यमानेषु च सङ्घेषु राजकीयाः इत्यावेदयेयुः
  • 11.1.27 अथावस्कन्दं दद्यात्
  • 11.1.28 सङ्घानां वा वाहनहिरण्ये कालिके गृहीत्वा सङ्घमुख्याय प्रख्यातं द्रव्यं प्रयच्छेत्
  • 11.1.29 तद् एषां याचिते दत्तं अमुष्मै मुख्याय इति ब्रूयात्
  • 11.1.30 एतेन स्कन्धावाराटवीभेदो व्याख्यातः
  • 11.1.31 सङ्घमुख्यपुत्रं आत्मसम्भावितं वा सत्त्री ग्राहयेत् अमुष्य राज्ञः पुत्रः त्वं, शत्रुभयाद् इह न्यस्तोऽसि इति
  • 11.1.32 प्रतिपन्नं राजा कोशदण्डाभ्यां उपगृह्य सङ्घेषु विक्रमयेत्
  • 11.1.33 अवाप्तार्थः तं अपि प्रवासयेत्
  • 11.1.34 बन्धकीपोषकाः प्लवकनटनर्तकसौभिका वा प्रणिहिताः स्त्रीभिः परमरूपयौवनाभिः सङ्घमुख्यान् उन्मादयेयुः
  • 11.1.35 जातकामानां अन्यतमस्य प्रत्ययं कृत्वाऽन्यत्र गमनेन प्रसभहरणेन वा कलहान् उत्पादयेयुः
  • 11.1.36 कलहे तीक्ष्णाः कर्म कुर्युः हतोऽयं इत्थं कामुकः इति
  • 11.1.37 विसंवादितं वा मर्षयमाणं अभिसृत्य स्त्री ब्रूयात् असौ मां मुख्यः त्वयि जातकामां बाधते, तस्मिञ्जीवति न इह स्थास्यामि इति घातं अस्य प्रयोजयेत्
  • 11.1.38 प्रसह्यापहृता वा वनान्ते क्रिडागृहे वाऽपहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन
  • 11.1.39 ततः प्रकाशयेत् अमुना मे प्रियो हतः इति
  • 11.1.40 जातकामं वा सिद्धव्यञ्जनः सांवदनिकीभिरौषधीभिः संवास्य रसेनातिसन्धायापगच्छेत्
  • 11.1.41 तस्मिन्न् अपक्रान्ते सत्त्रिणः परप्रयोगं अभिशंसेयुः
  • 11.1.42 आढ्यविधवा गूढाजीवा योगस्त्रियो वा दायनिक्षेपार्थं विवदमानाः सङ्घमुख्यान् उन्मादयेयुः, अदितिकौशिकस्त्रियो नर्तकीगायना वा
  • 11.1.43 प्रतिपन्नान् गूढवेश्मसु रात्रिसमागमप्रविष्टांः तीक्ष्णा हन्युर्बद्ध्वा हरेयुर्वा
  • 11.1.44 सत्त्री वा स्त्रीलोलुपं सङ्घमुख्यं प्ररूपयेत् अमुष्मिन् ग्रामे दरिद्रकुल्लं अपसृतं, तस्य स्त्री राजार्हा, गृहाण एनाम् इति
  • 11.1.45 गृहीतायां अर्धमासानन्तरं सिद्धव्यञ्जनो दूष्यसङ्घमुख्यमध्ये प्रक्रोशेत् असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वाऽधिचरति इति
  • 11.1.46 तं चेत् सङ्घो निगृह्णीयात्, राजा एनं उपगृह्य विगुणेषु विक्रमयेत्
  • 11.1.47 अनिगृहीते सिद्धव्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः
  • 11.1.48 ततः तद्व्यञ्जनाः प्रक्रोशेयुः असौ ब्रह्महा ब्राह्मणीजारश्च इति
  • 11.1.49 कार्तान्तिकव्यञ्जनो वा कन्यां अन्येन वृतां अन्यस्य प्ररूपयेत् अमुष्य कन्या राजपत्नी राजप्रसविनी च भविष्यति, सर्वस्वेन प्रसह्य वा एनां लभस्व इति
  • 11.1.50 अलभ्यमानायां परपक्षं उद्धर्षयेत्
  • 11.1.51 लब्धायां सिद्धः कलहः
  • 11.1.52 भिक्षुकी वा प्रियभार्यं मुख्यं ब्रूयात् असौ ते मुख्यो यौवन उत्सिक्तो भार्यायां मां प्राहिणोत्, तस्याहं भयाल्लेख्यं आभरणं गृहीत्वाऽऽगताऽस्मि, निर्दोषा ते भार्या, गूढं अस्मिन् प्रतिकर्तव्यं, अहं अपि तावत् प्रतिपत्स्यामि इति
  • 11.1.53 एवंऽअदिषु कलहस्थानेषु स्वयं उत्पन्ने वा कलहे तीक्ष्णैरुत्पादिते वा हीनपक्षं राजा कोशदण्डाभ्यां उपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा
  • 11.1.54 सङ्घेष्वेवं एकराजो वर्तेत
  • 11.1.55 सङ्घाश्चाप्येवं एकराजाद् एतेभ्योऽतिसङ्घान् एभ्यो रक्षयेयुः
  • 11.1.56ab सङ्घमुख्यश्च सङ्घेषु न्यायवृत्तिर्हितः प्रियः |
  • 11.1.56chd दान्तो युक्तजनः तिष्ठेत् सर्वचित्तानुवर्तकः ( इति)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. कौटिलीय अर्थशास्त्रं
    1. कौटिलीय अर्थशास्त्रं १
    2. कौटिलीय अर्थशास्त्रं २
    3. कौटिलीय अर्थशास्त्रं ३
    4. कौटिलीय अर्थशास्त्रं ४
    5. कौटिलीय अर्थशास्त्रं ५
    6. कौटिलीय अर्थशास्त्रं ६
    7. कौटिलीय अर्थशास्त्रं ७
    8. कौटिलीय अर्थशास्त्रं ८
    9. कौटिलीय अर्थशास्त्रं ९
    10. कौटिलीय अर्थशास्त्रं १०
    11. कौटिलीय अर्थशास्त्रं ११
    12. कौटिलीय अर्थशास्त्रं १२
    13. कौटिलीय अर्थशास्त्रं १३
    14. कौटिलीय अर्थशास्त्रं १४
    15. कौटिलीय अर्थशास्त्रं १५

बाहरी कडियाँ[सम्पाद्यताम्]