कृष्ण उपनिषद्
कृष्णोपनिषत्
॥ श्री गुरुभ्यो नमः हरिः ॐ ॥
- यो रामः कृष्णतामेत्य सार्वात्म्यं प्राप्य लीलया ।
- अतोषयद्देवमौनिपटलं तं नतोऽस्म्यहम् ॥ १॥
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरण्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
- ॐ शान्तिः शान्तिः शान्तिः ।
- ॥ अथ प्रथम खंडः ॥
- हरिः ॐ । श्रीमहाविष्णुं सच्चिदानन्दलxअणं रामचन्द्रं
- दृष्ट्वा सर्वाण्गसुन्दरं मुनयो वनवासिनो विस्मिता बभूवुः ।
- तं होचुर्नोऽवद्यमवतारान्वै गण्यन्ते आलिण्गामो भवन्तमिति ।
- भवान्तरे कृष्णावतारे यूयं गोपिका भूत्व मामालिण्गथ
- अन्ये येऽवतारास्ते हि गोपा न स्त्रीश्च नो कुरु । अन्योन्यविग्रहं
- धार्यं तवाण्गस्पर्शनादिह । शाश्वतस्पर्शयितास्माकं
- गृण्हीमोऽवतारान्वयम् ॥ १॥
- रुद्रादीनां वचः शृत्वा प्रोवाच भगवान्स्वयम् ।
- अण्गयण्गं करिष्यामि भवद्वाक्यं करोम्यहम् ॥ २॥
- मोदितास्ते सुरा सर्वे कृतकृत्याधुना वयम् ।
- यो नन्दः परमानन्दो यशोदो मुक्तिगेहिनी ॥ ३॥
- माया सा त्रिविधा प्रोक्ता सत्त्वराजसतामसी ।
- प्रोक्ता च सात्त्विकी रुद्रे भक्ते ब्रह्मणि राजसी ॥ ४॥
- तामसी दैत्यपxएषु माया त्रेधा ह्युदाहृता ।
- अजेया वैष्णवी माया जप्येन च सुता पुरा ॥ ५॥
- देवकी ब्रह्मपुत्र सा या वेदैरुपगीयते ।
- निगमो वसुदेवो यो वेदार्थः कृष्णरामयोः ॥ ६॥
- स्तुवते सततं यस्तु सोऽवतीर्णो महीतले ।
- वने वृन्दावने क्रीडण्गोपगोपीसुरैः सह ॥ ७॥
- गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः ।
- वंशस्तु भगवान् रुद्रः शृण्गमिन्द्रः सगोसुरः ॥ ८॥
- गोकुलं वनवैकुण्ठं तापसास्तत्र ते द्रुमाः ।
- लोभक्रोधादयो दैत्याः कलिकालस्तिरस्कृतः ॥ ९॥
- गोपरूपो हरिः साxआन्मायाविग्रहधारणः ।
- दुर्बोधं कुहकं तस्य मायया मोहितं जगत् ॥ १०॥
- दुर्जया सा सुरैः सर्वैर्धृष्टिरूपो भवेद्विजः ।
- रुद्रो येन कृतो वंशस्तस्य माया जगत्कथम् ॥ ११॥
- बलं ङ्य़ानं सुराणां वै तेषां ङ्य़ानं हृतं xअणात् ।
- शेशनागो भवेद्रामः कृष्णो ब्रह्मैव शाश्वतम् ॥ १२॥
- अष्टावष्टसहस्रे द्वे शताधिक्यः स्त्रियस्तथा ।
- ऋचोपनिषदस्ता वै ब्रह्मरूपा ऋचः स्त्रियाः ॥ १३॥
- द्वेषाश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः ।
- दर्पः कुवलयापीडो गर्वो रxअः खगो बकः ॥ १४॥
- दया सा रोहिणी माता सत्यभामा धरेति वै ।
- अघासुरो माहाव्याधिः कलिः कंसः स भूपतिः ॥ १५॥
- शमो मित्रः सुदामा च सत्याक्रोद्धवो दमः ।
- यः शण्खः स स्वयं विष्णुर्लxमीरुपो व्यवस्थितः ॥ १६॥
- दुग्धसिन्धौ समुत्पन्नो मेघघोषस्तु संस्मृतः ।
- दुग्दोदधिः कृतस्तेन भग्नभाण्डो दधिगृहे ॥ १७॥
- क्रीडते बालको भूत्वा पूर्ववत्सुमहोदधौ ।
- संहारार्थं च शत्रूणां रxअणाय च संस्थितः ॥ १८॥
- कृपार्थे सर्वभूतानां गोप्तारं धर्ममात्मजम् ।
- यत्स्रष्टुमीश्वरेणासीतच्चक्रं ब्रह्मरूपदृक् ॥ १९॥
- जयन्तीसंभवो वायुश्चमरो धर्मसंङ्य़ितः ।
- यस्यासौ ज्वलनाभासः खड्गरूपो महेश्वरः ॥ २०॥
- कश्यपोलूखलः ख्यातो रज्जुर्माताऽदितिस्तथा ।
- चक्रं शण्खं च संसिद्धिं बिन्दुं च सर्वमूर्धनि ॥ २१॥
- यावन्ति देवरूपाणि वदन्ति विभुधा जनाः ।
- नमन्ति देवरूपेभ्य एवमादि न संशयः ॥ २२॥
- गदा च काळिका साxआत्सर्वशत्रुनिबर्हिणी ।
- धनुः शार्ण्गं स्वमायाच शरत्कालः सुभोजनः ॥ २३॥
- अब्जकाण्डं जगत्बीजं धृतं पाणौ स्वलीलया ।
- गरुडो वटभाण्डीरः सुदामा नारदो मुनिः ॥ २४॥
- वृन्दा भक्तिः क्रिया बुद्धीः सर्वजन्तुप्रकाशिनी ।
- तस्मान्न भिन्नं नाभिन्नमाभिर्भिन्नो न वै विभुः ।
- भूमावुत्तारितं सर्वं वैकुण्ठं स्वर्गवासिनाम् ॥ २५॥
॥ इति प्रथम खण्डः ॥
\मेद्स्किप्\ह्रुले\मेद्स्किप्
॥ अथ द्वितीयः खण्डः ॥
शेषो ह वै वासुदेवात् संकर्षणो नाम जीव आसीत् ।
सोऽकामयत प्रजाः सृजेयेति ।
ततः प्रद्युम्नसंङ्य़क आसीत् ।
तस्मात् अहंकारनामानिरुद्धो हिरण्यगर्भोऽजायत ।
तस्मात् दश प्रजापतयो मरीच्याद्याः स्थाणुदक्षकर्दमप्रियव्रतोत्तनपादवायवो व्यजायन्त ।
तेभ्योः सर्वाणि भूतानि च ।
तस्माच्च्हेषादेव सर्वाणि cअ भूतानि समुत्पद्यन्ते ।
तस्मिन्नेव प्रलीयन्ते ।
स एव बहुधा जायमानः सर्वान् परिपाति ।
स एव काद्रवेयो व्याकरणज्योतिषादिशास्त्रणि निर्मिमाणो बहुभिर्मुमुक्षुभिरुपास्यमानोऽखिलां भुवमेकस्मिन् शीर्ष्ण सिद्धार्थवदवध्रियमाणः सर्वैर्मुनिभिः संप्रार्थ्यमानः सहस्रशिखराणि मेरोः शिरोभिरावार्यमाणो महावाय्वहंकारं निराचकार ।
स एव भगवान् भगवन्तं बहुधा विप्रीयमाणः अखिलेन स्वेन रुपेण युगे युगे तेनैव जयमानः स एव सौमित्रिरैक्ष्वाकः सर्वाणि धानुषशास्त्राणि सर्वाण्यस्त्रशास्त्राणि बहुधा विप्रीयमानो रक्षांसि सर्वाणि विनिघ्नंश्चातुर्वर्ण्यधर्मान् प्रवर्तयामास ।
स एव भगवान् युगसंधिकाले शारदाभ्रसंनिकाशो रौहिनेयो वासुदेवः सर्वाणि गदाद्यायुधशास्त्राणि व्याचक्षाणो नैकान् राजन्यमण्डलान्निराचिकीर्षुः भुभारमखिलं निचखान ।
स एव भगवान् युगे तुरियेऽपि ब्रह्मकुले जायमानः सर्व उपनिषदः उद्दिधीर्षुः सर्वाणि धर्मशास्त्राणि विस्तारयिष्णुः सर्वानपि जनान् संतारयिष्णुः सर्वानपि वैष्णवान् धर्मान् विजृम्भयन् सर्वानपि पाषण्डान् निचखान ।
स एष जगदन्तर्यामी ।
स एष सर्वात्मकः ।
स एव मुमुक्षुभिर्ध्येयः ।
स एव मोक्षप्रदः ।
एतं स्मृत्वा सर्वेभ्यः पापेभ्यो मुच्यते ।
तन्नाम संकीर्तयन् विष्णुसायुज्यं गच्च्हति ।
तदेतद् दिवा अधीयानः रात्रिकृतं पापं नाशयति ।
नक्तमधीयानो दिवसकृतं पापं नाशयति ।
तदेतद्वेदानां रहस्यं तदेतदुपनिषदां रहस्यम् एतदधीयानः सर्वत्रतुफलं लभते शान्तिमेति मनःशुद्धिमेति सर्वतीर्थफलं लभते य एवं वेद देहबन्धाद्विमुच्यते इत्युपनिषत् ॥
॥ इति द्वितीयः खण्डः ॥
हरिः ॐ तत्सत्
ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरण्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।
ॐ शान्तिः शान्तिः शान्तिः ।
॥ इति कृष्णोपनिषत्समाप्ता ॥
॥ भारतीरमणमुख्यप्राणंतर्गत श्रीकृष्णार्पणमस्तु ॥