कूर्मपुराणम्-उत्तरभागः/द्वात्रिंशत्तमोऽध्यायः

विकिस्रोतः तः
  1. प्रथमोऽध्यायः
  2. द्वितीयोऽध्यायः
  3. तृतीयोऽध्यायः
  4. चतुर्थोऽध्यायः
  5. पञ्चमोऽध्यायः
  6. षष्ठोऽध्यायः
  7. सप्तमोऽध्यायः
  8. अष्टमोऽध्यायः
  9. नवमोऽध्यायः
  10. दशमोऽध्यायः
  11. एकादशोऽध्यायः
  12. द्वादशोऽध्यायः
  13. त्रयोदशोऽध्यायः
  14. चतुर्दशोऽध्यायः
  15. पञ्चदशोऽध्यायः
  16. षोडशोऽध्यायः
  17. सप्तदशोऽध्यायः
  18. अष्टादशोऽध्यायः
  19. एकोनविंशतितमोऽध्यायः
  20. विंशतितमोऽध्यायः
  21. एकविंशतितमोऽध्यायः
  22. द्वाविंशतितमोऽध्यायः
  23. त्रयोविंशतितमोऽध्यायः
  24. चतुर्विंशतितमोऽध्यायः
  25. पञ्चविंशतितमोऽध्यायः
  26. षड्विंशतितमोऽध्यायः
  27. सप्तविंशतितमोऽध्यायः
  28. अष्टाविंशतितमोऽध्यायः
  29. नवविंशतितमोऽध्यायः
  30. त्रिंशत्तमोऽध्यायः
  31. एकत्रिंशत्तमोऽध्यायः
  32. द्वात्रिंशत्तमोऽध्यायः
  33. त्रयस्त्रिंशत्तमोऽध्यायः
  34. चतुस्त्रिंशत्तमोऽध्यायः
  35. पञ्चत्रिंशत्तमोऽध्यायः
  36. षड्त्रिंशत्तमोऽध्यायः
  37. सप्तत्रिंशत्तमोऽध्यायः
  38. अष्टत्रिंशत्तमोऽध्यायः
  39. नवत्रिंशात्तमोऽध्यायः
  40. चत्वारिंशत्तमोऽध्यायः
  41. एकचत्वारिंशत्तमोऽध्यायः
  42. द्विचत्वारिंशत्तमोऽध्यायः
  43. त्रिचत्वारिंशत्तमोऽध्यायः
  44. चतुश्चत्वारिंशत्तमोऽध्यायः
  45. पञ्चचत्वारिंशत्तमोऽध्यायः
  46. षड्चत्वारिंशत्तमोऽध्यायः

व्यास उवाच ।
सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।
तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ।। ३२.१

गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।
पयो घृतं जलं वाऽथ मुच्यते पातकात् ततः ।। ३२.२

जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।
ब्रह्महत्याव्रतं चाथ चरेत् पापप्रशान्तये ।। ३२.३

सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।
स्वकर्म ख्यापयन् ब्रूयान्मा भवाननुशास्त्विति ।। ३२.४

गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् ।
वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसाथवा ।। ३२.५

स्कन्धेनादाय मुसलं लकुडं वाऽपि खादिरम् ।
शक्तिंचादायतीक्ष्णाग्रामायसं दण्डमेव वा ।। ३२.६
राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।
आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम् ।। ३२.७

शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।
अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ।। ३२.८

तपसापनोतुमिच्छस्तु सुवर्णस्तेयजं मलम् ।
चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महणो व्रतम् ।। ३२.९

स्नात्वाऽश्वमेधावभृथे पूतः स्यादथवा द्विजः ।
प्रदद्याद् वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ।। ३२.१०

चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।
ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ।। ३२.११

गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।
अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ।। ३२.१२

स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।
आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ।। ३२.१३

गुर्वह्गनागमः शुद्ध्यै चरेद् वा ब्रह्महणो व्रतम् ।
शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ।३२.१४

अधः शयीत नियतो मुच्यते गुरुतल्पगः ।
कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः ।३२.१५

अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ।
कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ।३२.१६

स्थानाशनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयत्नतः ।
अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् ।३२.१७

चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ।

पतितैः संप्रयुक्तात्मा अथ वक्ष्यामि निष्कृतिम् ।३२.१८

पतितेन तु संसर्गं यो येन कुरुते द्विजः ।
स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ।। ३२.१९

तप्तकृच्छ्रं चरेद् वाऽथ संवत्सरमतन्द्रितः ।
षाण्मासिके तु संसर्गे प्रायश्चित्तार्थंमाचरेत्। ३२.२०

एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।
पुण्यतीर्थाभिगमनात् पृथिव्यां वाऽथ निष्कृतिः ।। ३२.२१

ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।
कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ।। ३२.२२

कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।
ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ।। ३२.२३

न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।
तस्मात् पुण्येषु तीर्थेषु दहन्वापि स्वदेहकम् ।। ३२.२४

इति श्री कूर्मपुराणे द्वात्रिंशोध्यायः ।।