कुमारसम्भवम् - मल्लिनाथः/दशमः सर्गः

विकिस्रोतः तः
← नवमः सर्गः कुमारसम्भवम् - मल्लिनाथः
दशमः सर्गः
कालिदासः
एकादशः सर्गः →
दशमः सर्गः

आससाद सुनासीरं सदसि त्रिदशैः सह ।

(१)एष त्रैयम्बकं तीव्रं वहन्वह्निमंहन्महः ।। १०.१ ।।

{१.तच्च,मत्वा.}
     अन्वयः- एष वह्निः तीव्रं त्रैयम्बकं महो वहन् त्रिदशैः सह सुनासीरम् आससाद ।
     सीo- आससादेति । एष वह्निः । तीव्रं दुःसहं महत्त्रैयम्बकं शैवम् । त्र्यम्बकशब्दात् इदमर्थकेऽणि `न य्वाभ्याम्' इत्यैजादेशः । महो वीर्य वहन् । त्रिदशैर्देवैः सह सदसि सभायां स्थितं सुनासीरं महेन्द्रमाससाद प्राप । `वृद्धश्रवाः सुनासीरः' इत्यमरः ।। १०.१ ।।


सहस्रेण दृशामीशो (२)कुत्सिताङ्गं च सादरम् ।
दुर्दर्शनं ददर्शाग्निं (३)धूम्रधूमितमण्डलम् ।। १०.२ ।।

{२.द्युसदां सोऽतिसादरम्,द्युसत्संसदि सादरम्.३.धूमिल.}
     अन्वयः- कुत्सिताऽङ्गं दुर्दर्शनं धूम्रधूमितमण्डलं तम् अग्निम् ईशः दृशां सहस्त्रेण सादरं ददर्श ।
     सीo- सहेति । कुत्सिताङ्गमत एव दुर्दर्शनं धूम्रं धूम्रवर्णं धूमितं संजातधूमम् । तारकादित्वादितच् । मण्डलं यस्य तमग्निमीशो महेन्द्रो दृशां सहस्त्रेण सादरं यथा तथा ददर्श दृष्टवान् ।। १०.२ ।।


दृष्ट्वा तथाविधं वह्निमिन्द्रः (४)क्षुब्धेन चेतसा ।
व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेषिरोषजम् ।। १०.३ ।।

{४.क्रुद्धेन.}
     अन्वयः- इन्द्रो वह्नि तथाविधं दृष्ट्वा क्षुब्धेन चेतसा कन्दर्पद्वेषिरोषजं किञ्चित् चिरं व्यचिन्तयत् ।
     सीo- दृष्ट्वेति । इन्द्रो वह्निं तथाविधं दृष्ट्वा क्षुब्धेन संचलितेन चेतसा कन्दर्पद्वेषिणो हरस्य रोषाज्जातं किंचिदपराधलक्षणं चिरं व्यचिन्तयत् ।। १०.३ ।।


स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ।। १०.४ ।।

{१.स्त्रवज्जलमुखैः, स विलक्षमुखैः.}
     अन्वयः-- स विलक्ष्यमुखैः देवैः क्षणं क्षणं वीक्ष्यमाणः (सन्) सुरेन्द्रेण सादरम् आदिष्टम् आसनम् उपाविशत् ।
     सीo-- स इति । सोऽग्निर्विलक्ष्यमुखैर्म्लानमुखैर्देवैः क्षणं क्षणं प्रतिक्षणं वीक्ष्यमाणो दृश्यमानः सन् । सुरेन्द्रेण सादरमादिष्टमासनमुपाविशत् ।। १०.४ ।।


हव्यवाह ! त्वयासादि (२)दुर्दशेयं दशा कुतः ?
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ।। १०.५ ।।

{२.सुमहादुर्दशा;सुदर्दर्शा दशा.}
     अन्वयः- `हे हव्यवाह ! त्वया इयं दुर्दशा दशा कुत आसादि' इति सुरेन्द्रेण पृष्टः (सन्) स निःश्वस्य वचः अवदत् ।।
     सीo- हव्यवाहेति । सोऽग्निः । हव्यवाह ! त्वया दुर्दशेयं दशावस्था कुतो हेतोरासादि प्रापोति सुरेन्द्रेण पृष्टः सन्निःश्वासं कृत्वा वचो वक्ष्यमाणमवदत् ।। १०.५ ।।


अथ युग्मेनाह-

`अनतिक्रमणीयात्ते शासनात्सुरनायक !

पारावत वपुः प्राप्य वेपमानोऽतिसाध्वसात् ।। १०.६ ।।
(३)अभिगौरि रतासक्तं जगामाहं महेश्वरम् ।

कालस्येव स्मरारातेः (४)स्वं रुपमहमासदम् ।। १०.७ ।।

{३.अतिगौरी.४.उपान्तम्.}
     अन्वयः- `हे सुरनायक ! अहं पारावतं वपुः प्राप्य अनतिक्रमणीयात् ते शासनात् अभिगौरि रतासक्तं महेश्वरं जगाम । (अथ) अतिसाध्वसात् वेपमानः अहं कालस्य इव स्मरारातेः स्वं रुपम् आसदम्' ।
     सीo- अनतीति । अभिगौरीति । हे सुरनायक, अहं पारावतं कापोतं वपुः प्राप्यानतिक्रमणीयादनुल्लङ्घनीयात्ते तव शासनाद्धेतोरभिगौरि गौर्यामित्यभिगौरि । `अव्ययं विभ्क्ति-' इत्यादिना विभक्त्यर्थेऽव्ययीभावः । रतासक्तं महेश्वरं जगाम प्राप । जगामेति लिट् उत्तमपुरुषैकवचनम् । अथ चातिसाध्वसाद्वेपमानः कम्पमानोऽहं कालस्येव । तद्वद्भयानकस्येत्यर्थः । स्मरारातेर्हरस्य । पुर इति शेषः । स्वं रुपमाग्नेयस्वरुपमासदं प्रापम् । लङ उत्तमपुरुषैकवचनम् ।। १०.६-१०.७ ।।


दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय (१)जम्भभित् !
ज्वलद्भालानले होतुं (२)कोपनो (३)माममन्यत ।। १०.८ ।।

{१.ज्ञानभृत्,यज्ञभित्.२.कोपतः.३.अयममन्यत,मामलोकयत्.}
     अन्वयः-- `हे जम्भमित् ! सुज्ञो मां दृष्ट्वा छद्मविहङ्गं विज्ञाय कोपनः (सन्) मां ज्वलद्भालाऽनले होतुम् अमन्यत ।'
     सीo-- दृष्ट्वेति । हे जम्भभिदिन्द्र ! सुज्ञो हरो मां दृष्ट्वा । अथ च छद्मना विहङ्गं विज्ञाय ज्ञात्वा । दर्शनमात्रादेव तु कापट्यानवगम एव किन्तु विलम्बोपस्थिततया । अतो ज्ञानदर्शनयोर्भिन्नकालीनत्वात्पृथग्व्यपदेशः । अतो ल्यब्द्वयस्य मननक्रियापेक्षया पूर्वत्वेनान्वयः । कोपनः क्रोधनः सन् । `क्रुधमण्डार्थेभ्यश्च' इति युच् । मां ज्वलति भालस्थेऽनलेऽग्नौ होतुं दग्धुममन्यत मेने । मननमत्र विचारणं तद्धवनफलकमिति । अहमेनमग्नौ धक्ष्यामीति विचचारेत्यर्थः ।। १०.८ ।।


वचोभिर्मधुरैः (४)सार्थैर्वनम्रेण मया स्तुतः ।
प्रीतिमानभवद्देवः `स्तोत्रं कस्य न तुष्टये' ।। १०.९ ।।

{४.सान्त्वैः.}
     अन्वयः- मया सता विनम्रेण साऽर्थैः मधुरैः वचोभिः स्तुतो देवः प्रीतिमान् अभवत्; `स्तोत्रं कस्य तुष्टये न' ।
     सीo- वचोभिरिति । मया विनम्रेण सता सार्थैरत एव मधुरैर्मनोहरैर्वचोभिः करणैः । स्तुत ईडितो देवो हरः प्रीतिमानभवत् । मदुपरिप्रससादेत्यर्थः । तथाहि । स्तोत्रं स्तुतिः । `स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । कस्य तुष्टये संतोषाय न भवति । अपि तु सर्वस्यापीत्यर्थः । अत्र सामान्येन विशेषसमर्थनरुपोऽर्थान्तरन्यासोऽलंकारः ।। १०.९ ।।


शरण्यः सकलत्राता मामत्रायत शंकरः ।
क्रोधाग्नेर्ज्वलतो (१)ग्रासात्र्त्रासतो दुर्निवारतः ।। १०.१० ।।

{१.ग्रासत्रासतः.}
     अन्वयः- शरण्यः सकलत्राता शङ्करः ज्वलतो दुर्निवारतः क्रोधाऽग्नेः ग्रासात् त्रासतो माम् अत्रायत ।
     सीo- शरण्य इति । शरण्यः शरणे साधुः । `तत्र साधुः' इति यत्प्रत्ययः । अत एव सकलत्राता सर्वेषां रक्षिता । एवंभूतः शंकरो हरो ज्वलतो दीप्यमानस्य दुर्निवारतो दुःखेन निवारयितुं शक्यस्य क्रोधाग्नेः क्रोधाग्निकर्तृकाद्ग्रासाद्यस्त्रासो भयं तस्मान्मामत्रायत ररक्ष । `त्रैङ् पालने' लङ् ।। १०.१० ।।


परिहृत्य (२)परीरम्भरभसं दुहितुर्गिरेः ।
कामकेलिरसोत्सेकाद् व्रीडया विरराम सः ।। १०.११ ।।

{२.परीरम्भं रभसात्.}
     अन्वयः- स गिरेः दुहितुः परीरम्भरभसं परिहृत्य व्रीडया कामकेलिरसोत्सेकात् विरराम ।
     सीo- परिहृत्येति । स हरो गिरेर्दिहितुः पार्वत्याः संबन्धिनं परीरम्भरभसं परिहृत्योत्सृज्य व्रीडया हेतुभूतया कामस्य केले रसस्योत्सेकान्मानसस्यासक्तेर्विरराम विरतोऽभूत् । `व्याङ्परिभ्यो रमः' इति परस्मैपदम् ।। १०.११ ।।


रङ्गभङ्गच्युतं (३)रेतस्तदामोघं (४)सुदुर्वहम् ।
त्रिजगद्दाहकं सद्यो मद्विग्रह(५)मधि न्यधात् ।। १०.१२ ।।

{३.तदमोघम्.४.सुदुर्धरम्.५.अभिन्यधात्.}
     अन्वयः- तदा (सः) रङ्गभङ्गच्युतम् अमोघं त्रिजगद्दाहकं सुदुर्वहं रेतः मद्विग्रहम् अधि सद्यो न्यधात् ।
     सीo- रङ्गेति । तदा स हरो रङ्गस्य कामकेलेर्भङ्गादन्तरायात् । अस्य हेतोः क्रोधाभिव्यञ्जकत्वे न दोषः । च्युतं पतितममोधं सफलं त्रिजगद्दाहकमत एव सुदुर्वहं सुतरां दुःखेन वोढुं शक्यं रेतः शुक्रं मद्विग्रहमधि । मम शरीर इत्यर्थः । सद्यो न्यधात् । `अधिमद्विग्रहम्' इति वक्तव्ये मद्विग्रहमधीत्युक्तं महाकविप्रयोगान्न दोषाय ।। १०.१२ ।।


दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः ।। १०.१३ ।।

     अन्वयः-- दहनात्मना दुर्विषह्येण तेन तेजसा निर्दग्धं दुर्वहम् आत्मनो देहं वोढुम् अहम् अक्षमः ।
     सीo- दुर्विषह्येणेति । दहनात्मनाग्निरुपेणात एव दुर्विषह्येण दुःखेन वोढुं शक्येन । `शकिसहोश्च' इति यत् । तेन तेजसा वीर्येण निर्दग्धम् अत एव दुर्वहमात्मनो देहं वोढुमहमक्षमोऽस्मि । यथाहं क्षमा स्यां तथैव त्वयाशु विधेयमिति व्यज्यते ।। १०.१३ ।।


रौद्रेण दह्यमानस्य महसातिमहीयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ! ।। १०.१४ ।।

     अन्वयः-- हे वासव ! अतिमहीयसा रौद्रेण महसा दह्यमानस्य मम प्राणपरित्राणप्रगुणो भव ।
     सीo- राद्रेणेति । हे वासव इन्द्र, अतिमहीयसा रौद्रेण शाम्भवेन महसा तेजसा दह्यमानस्य मम प्राणानां परित्राणेन प्रगुणो विख्यातो भव । मम प्राणत्राणे भवतो महद्यशो भविष्यतीति भावः ।। १०.१४ ।।


इति श्रुत्वा वचो बह्नेः परितापोपशान्तये ।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः ।। १०.१५ ।।

     अन्वयः- विबुधेश्वरः वह्नेः इति वचः श्रुत्वा परितापोपशान्तये मनसा हेतु विचिन्तयामास ।
     सीo- इतीति । विबुधानामीश्वरो महेन्द्रो वह्नेरितीत्येवंभूतं वचः श्रुत्वा परितापस्योपशान्तये । अर्थात्तस्यैवेत्यर्थः । मनसा हेतुं निदानं विचिन्तयामास । केनोपायेनास्य तापोपशान्तिर्भवेदिति विचारयामासेत्यर्थः ।। १०.१५ ।।
 

तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
किंचित्कृपीटयोनिं तं दिवस्पतिरभाषत ।। १०.१६ ।।

     अन्वयः- दिवस्पतिः तं कृपीटयोनिं तेजोदग्धानि अस्य गात्राणि पाणिना परामृशन् किञ्चित् अभाषत ।
     सीo- तेज इति । दिवस्पतिरिन्द्रस्तं कृपीटयोनिमग्निं कर्मभूतं तेजसा शाम्भवेन धाम्ना दग्धानि प्लुष्टान्यस्याग्नेर्गात्राणि पाणिना परामृशन्स्पृशन्सन् । किंचिद्वक्ष्यमाणमभाषतोवाच । भाषतेर्द्विकर्मकत्वं हि व्रूञर्थनिबद्धत्वात् । `अर्थनिबन्धनेयं सज्ञा' इति वार्तिकात् । `कृपीटयोनिर्ज्वलनः' इत्यमरः । `शतमन्युर्दिवस्पतिः' इति च ।। १०.१६ ।।


अथेन्द्रोऽग्निं सप्तभिः स्तौति-

प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ।। १०.१७ ।।

     अन्वयः- (भो अग्ने !) त्वं प्रीतः (सन्) स्वाहा-स्वधा-हन्तकारैः देवान् पितॄन् मनुष्यान् (च) स्वयं प्रीणयसे, यतः एकः (एव) तेषां मुखम् (असि) ।
     सीo- प्रीत इति । भौ अग्ने, त्वं प्रीतः सन् । स्वाहाकारः स्वधाकारो हन्तकार एतैः शब्दैः कृत्वा होतृभिः प्रक्षिप्तेन । हविषेति शेषः । देवानिन्द्रादीन्पितृन्मनुष्यांश्च स्वयं प्रीणयसे प्रसादयसि । कथमेतान्प्रसादयामीत्याह-यत एक एव त्वं तेषां देवादीनां मुखमसि ।। १०.१७ ।।


त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
(१)भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ।। १०.१८ ।।

{१.भुञ्जते.}
     अन्वयः- (भो अग्ने !) होतारो हवींषि त्वयि जुह्वति, (अत एव) ध्वस्तकल्मषाः (सन्तः) स्वर्ग भुञ्जन्ति । हि त्वम् एक एव स्वर्गप्राप्तौ कारणम् ।
     सीo- त्वयीति । होतारो हवींषि त्वयि जुह्वति । अत एव ध्वस्तकल्मषाः स्रस्तपापाः सन्तः स्वर्ग भुञ्जन्ति । हि यतस्त्वमेक एव स्वर्गप्राप्तौ कारणम् । `ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादिश्रुत्युक्तयागफलस्वर्गप्राप्तौ यागस्य त्वदायत्ततया कारणत्वोक्तेरिति भावः ।। १०.१८ ।।


हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
तपस्विनस्तपःसिद्धिं यान्ति, त्वं (२)तपसां प्रभुः ।। १०.१९ ।।

{२.तपसः.}
     अन्वयः- हे हुताश ! तपस्विनः मन्त्रपूतानि हवींषि त्वयि जुह्वतः (सन्तः) तपःसिद्धिं यान्ति, (यतः) त्वं तपसां प्रभुः ।
     सीo- हवींषीति । भो हुताश ! तपस्विनो मन्त्रपूतानि हवींषि त्वयि जुह्वतः सन्तः । `नाभ्यस्ताच्छतुः' इति नुम्निषेधः । तपःसिद्धिं यान्ति प्राप्नुवन्ति । यतस्त्वं तपसां प्रभुः ।। १०.१९ ।।


(३)निधत्से हुतमर्काय, स पर्जन्योऽभिवर्षति ।
ततोऽन्नानि, (४)प्रजास्तेभ्यस्तेनासि जगतः पिता ।। १०.२० ।।

{३.नयन.४.प्रजान्ते.}
     अन्वयः- (हे अग्निदेव !) त्वम् अर्काय हुतं निधत्से (अतः) स पर्जन्यः (सन्) अभिवर्षति, ततः अन्नानि, तेभ्यः प्रजाः, तेन जगतः पिता (असि) ।
सींo- निधत्स इति । भो अग्ने ! त्वमर्काय देवान्तःपातिने सूर्याय हुतं हविर्निधत्से निधानरूपतया ददासि । अतः सोऽर्कः पर्जन्यः सन्नभिवर्षति । ततो वर्षणादन्नान्युत्पद्यन्ते । तेभ्योऽन्नेभ्यः प्रजा जायन्ते । तेन कारणेन जगतः पितासि । पातीति पितेति व्युत्पत्त्या साधारणरक्षकस्यापि पितृत्वम् । न केवलं जनकस्यैवेति भावः । अथ एवोक्तं नीतो- `अन्नदाता भयत्राता यश्च कन्यां प्रयच्छति । जनिता चोपनेता च पञ्चैते पितरः स्मृताः ।।' इति ।। १०.२० ।।


(१)अन्तश्चरोऽसि भूतानां, तानि (२)त्वत्तो भवन्ति च ।
(३)ततो (४)जीवितभूतस्त्वं जगतः प्राणदोऽसि च(५) ।। १०.२१ ।।

{१.अन्तश्चरास.२.त्वद्वलवन्ति.३.त्वत्ता.४.जीवितमय.५.तत्.}
     अन्वयः- (हे अग्निदेव !) त्वं भूतानाम् अन्तश्चरः असि । तानि त्वत्तो भवन्ति । ततः त्वं जीवितभूतो जगतः प्राणदश्च असि ।
     सीo- अन्तरिति । भो अग्ने ! त्वं भूतानां प्राणिनामन्तश्चरोऽन्तर्व्याप्यसि । तानि भूतानि च त्वत्तो भवन्त्युत्पद्यन्ते । तत उभयकारणतस्त्वं जीवितानि प्राणितानि भूतानि येन तथोक्ता जगतः प्राणदस्चासि । अग्नेरन्तराधेयतयैव प्राणिनां जीवनमतो जीवितभूतत्वम् । अग्नेरेव जगदुत्पादकतया प्राणदत्वं चार्थात्सिद्धम् । उतरवाक्यद्वयस्य पूर्ववाक्यद्वयान्तर्गतत्वात् पृथक्त्वेन ग्रहणं व्यर्यमिति चेन्न । अन्तर्व्यापित्वजीवितभूतत्वयोः साहचर्यप्रयुक्तं न सामानाधिकरण्यम् । यस्य यत्र यत्रान्तर्भावित्वं तस्य तत्रतत्र जीविभूतत्वमिति नियमाभावात् । न च वह्निसंबन्धावच्छिन्नत्वेन तयोः सामानाधिकरण्यमिति वाच्यम् । वह्निसंबन्धावच्छिन्नत्वमन्तर्व्याप्ते तप्तायःपिण्डे न तत्र जीवितभूतत्वम् । अतो वह्निसंबन्धावच्छिन्नत्वेनापि सामानाधिकरणतानियमः कर्तुं न शक्यते । उत्पादकत्वप्राणदत्वयोः साहचर्यनियमाभावात् । कुलालस्य सत्यप्युत्पादकत्वे प्राणदत्वं नास्ति । घटमुत्पादयतोऽपि कुलालस्य न जीवनदातृत्वशक्तिरित्यलं विवादेन । अतिगहनोऽयं विवादः । `जगतः' इति षष्ठी प्राणान्वयान्नतु दानान्वयात् । अन्यथा `कर्मणा यमभिप्रैति स संप्रदानम्' इति संप्रदानत्वाच्चतुर्थी प्रसज्येतेति । ननु जगत इत्यस्य प्राणान्वये केवलसंबन्धवाचकत्वेन तस्य नित्यसंप्रदानविवक्षा केन निरास्यते । एवं च संप्रदानान्तरं मृग्यं स्यात् । अथवा जगत्संबन्धिनां प्राणानां दानं जगत्संप्रदानकमेवेत्यर्थात् संप्रदानसिद्धिः ।। १०.२१ ।।


जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ।। १०.२२ ।।

     अन्वयः- (हे अग्ने !) त्वम् एकः (एव) अस्य सकलस्य जगतः उपकारकृत् असि । (अस्माकम्) तत्र कार्योपपादने त्वत्तः अन्यः कः प्रगल्भते ?
     सीo- जगत इति । भो अग्ने ! त्वमेक एवास्य सकलस्य जगत उपकारकृद्धितकृदसि । अत एवास्माकं तत्र कार्योपपादने त्वत्तोऽन्यः । `अन्यारादि-' ति पञ्चमी । कः प्रगल्भते ? समर्थो भवेत् । न कोऽपीत्यर्थः ।। १०.२२ ।।


अमीषां (१)सुरसंघानां त्वमेकोऽर्थसमर्थने ।
(२)विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ।। १०.२३ ।।

{१.सुरसैन्यानाम्.२.विपदोऽपि पदं श्लाध्योपकारयति नो हि सः;विपदोऽपि पदं श्लाघोपकारवतिनो हि सा.}
     अन्वयः-- हे अनल ! अमीषां सुरसङ्घानाम् अर्थ-समर्थने त्वम् एकः अपि (असि) उपकारप्रतिनो विपत्तिरपि संश्लाघ्या ।
     सीo- अमीषामीति । भो अनल, अमीषां सुरसंघानां देवसमूहानामस्मदादीनामर्थसमर्थने कार्यसाधने विषये त्वमेक एव समर्थोऽसि । एवंविधोऽप्यहं विपन्नः किं करोमीत्याह विपत्तिरिति । उपकारेषु परहितेषु व्रतिनो नियमवतः पुरुषस्य विपत्तिरपि सम्यक् श्लाघ्या भवति । अतो विपन्नोऽपि स्तूयस इति भावः ।। १०.२३ ।।


संप्रत्युपायमुपदिशति-

देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता ।
निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति ।। १०.२४ ।।

     अन्वयः-- पूर्वम् अस्माभिः भक्त्या प्रतोषिता देवी भागीरथी निमज्जतः तव उदीर्णं तापं निर्वापयिष्यति ।
     सीo- देवीति । पूर्वमस्माभिर्भक्त्या प्रतोषिता भागीरथी देवी निमज्जतः स्नानं कुर्वतस्तवोदीर्णमत्युल्बणं तापं निर्वापयिष्यतीत्यर्थः ।। १०.२४ ।।


गङ्गां तद्गच्छ मा कार्षी (१)विलम्बं हव्यवाहन ।
(२)कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ।। १०.२५ ।।

{१.विषादम्.२.अर्थेष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता.}
     अन्वयः- हे हव्यवाहन ! तत् गङ्गां गच्छ, विलम्बं मा कार्षीः । (तथा हि) अवश्यकार्येषु कार्येषु क्षिप्रकारिता सिद्धये ।
     सीo- गङ्गामिति । भो हव्यवाहन, तत्तस्माद् गङ्गां देवीं गच्छ याहि । विलम्बं मा कार्षिर्मा कुरु । `न माङ्योगे' इत्यडागमनिषेधः । तथाहि । अवश्यकार्येषु सिद्धये क्षिप्रकारितानलसितत्वम् । उचितेति शेषः । तस्मात्त्वया शीघ्रमेव गन्तव्यमिति भावः ।। १०.२५ ।।


शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
(३)त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ।। १०.२६ ।।

{३.तत्र गत्वा च तद् बीजममोघं मुञ्च सुस्थिरम्.}
     अन्वयः- (हे अग्ने !) शम्भोः अम्भोमयी मूर्तिः, सा एव सुरापगा देवी दुर्धरं स्मरद्विषो बीजं त्वत्तः धारयिष्यति ।
     सीo- शंभोरिति । भो अग्ने ! शंभोरम्भोमयी जलमयी मूर्तेर्देवी सा सुरापगैव गङ्गैव दुर्धरं स्मरद्विषो हरस्य बीजं तेजस्त्वत्त आदाय धारयिष्यति । धरिष्यतीत्यर्थः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च' । इत्यमरः ।। १०.२६ ।।


इत्युदीर्य सुनासीरो विरराम, स चानलः ।
तद्विसृष्टस्तमापृच्छ्य(१) प्रतस्थे स्वर्धुनीमभि ।। १०.२७ ।।

{१.आमन्त्र्य.}
     अन्वयः- इति उदीर्य सुनासीरो विरराम । सः अनलश्च तद्विसृष्टः (सन्) तम् आपृच्छ्य स्वर्धुनीम् अभि प्रतस्थे ।
     सीo- इतीति । इत्येवभूतमुदीर्योक्त्वा सुनासीर इन्द्रो विरराम । तूष्णीं तस्थावित्यर्थः । विररामेति `व्याङ्परिभ्यो रमः' इति परस्मैपदम् । `वृद्धश्रवाः सुनासीरः' इत्यमरः । सोऽनलश्चाग्निस्तु तद्विसृष्टस्तेन सुनासीरेण विसृष्टस्त्यक्तः । गन्तुमनुमत इत्यर्थः । तादृशः सन् । तमिन्द्रमापृच्छ्याहं गच्छामीत्याज्ञामादाय स्वर्धुनीं गङ्गामभि प्रतस्थे प्रस्थितवान् ।। १०.२७ ।।


हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी ।
तीर्णाध्वना प्रपेदे सा (२)निःशेषक्लेशनाशिनी ।। १०.२८ ।।

{२.अघविनाशिनी.}
     अन्वयः- तेन तीर्णाऽध्वना हिरण्यरेतसा निःशेषक्लेशनाशिनी सा स्वर्गतरङ्गणी देवी प्रपेदे ।
     सीo- हिरण्येति । तेन प्रस्थितेन तीर्णाध्वनावगाहितमार्गेण हिरण्यरेतसा वह्निना निःशेषक्लेशनाशिनी निःशेषा ये क्लेशाः पञ्च क्लेशास्तेषां नाशिनी । मुक्तिदायिनीत्यर्थः । सा प्रसिद्धा स्वर्गतरङ्गिणी स्वर्णदी देवी प्रपेदे प्राप्ता । कर्मणि लिट् ।। १०.२८ ।।


अथ त्रिभिस्तामेव विशिनष्टि-

स्वर्गारोहणनिःश्रेणिर्मोक्ष(१)मार्गाधिदेवता ।
उदारदुरितोद्गारहारिणी दुर्गतारिणी ।। १०.२९ ।।

{१.स्वर्गं.}
     अन्वयः- स्वर्गारोहणनिःश्रेणिः (पुनः) मोक्षमार्गाधिदेवता, उदारदुरितोद्गारहारिणी दुर्गतारिणी ।
     सीo- स्वर्गेति । स्वर्गे यदारोहणं तस्य निःश्रेणि सोपानपङ्क्तिः । यस्यां स्नानमात्रेणैव स्वर्गमारोहन्तीत्यर्थः । पुनश्च मोक्षमार्गस्य मुक्तिपथस्याधिदेवता । यां प्रसाद्य मुक्तिमाप्नुवन्तीत्यर्थः । पुनश्चोदाराणामुच्चैस्तराणां दुरितानां पापानामुद्गारस्य समूहस्य हारिणी । विनाशिनीत्यर्थः । पुनश्च तरन्त्यनया सा तारिणी । दुर्गस्य संसाररूपस्य तारिणीत्यर्थः तारिणी इति णिजन्तात्तरतेः `करणाधिकरणयोश्च' इति करणे ल्युट् । अतः `टिड्ढे-' ति ङीप् । `तारिणी' इति पाठे तारयति लोकान्सा तारिणी । दुर्गात्तारिणी । अत्र णिनौ कृते `ऋन्नेभ्यः-' इति ङीप् ।। १०.२९ ।।


महेश्वरजटाजूटवासिनी, पापनाशिनी ।
(२)सरागान्वयनिर्वाणकारिणी, धर्मधारिणी ।। १०.३० ।।

{२.सागरान्वय.}
     अन्वयः- महेश्वरजटाजूटवासिनी, पापनाशिनी, सरागाऽन्वयनिर्वाणकारिणी धर्मधारिणी ।
     सीo- महेश्वरेति । पुनश्च महेश्वरस्य जटाजूटे वासिनी वासवती । पुनश्च पापनाशिनी । अत्रापि तारिणीवत्प्रत्ययव्यवस्था । पुनश्च सरागस्य विषयलिप्सोरन्वयस्य वंशस्यापि निर्वाणकारिणी ।किं पुनर्विमुक्तानामित्यर्थः । धर्मं धारयतीति धर्मधारिणी । आत्मसम्बन्धेन जन्तून् धर्मवतः कुर्वन्तीत्यर्थः ।। १०.३० ।।


विष्णुपादोदकोद्भूता, ब्रह्मलोकादुपागता ।
त्रिभिः स्त्रोतोभिरश्रान्तं (३)पुनाना भुवनत्रयम् ।। १०.३१ ।।

{३.पुनाति.}
     अन्वयः-- विष्णुपादोदकोद्भूता, ब्रह्मलोकात् उपागता, त्रिभिः स्त्रोतोभिः भुवनत्रयम् अश्रान्तं पुनाना ।
     सीo- विष्णिवति । पुनश्च विष्णुपादोदकोद्भूतोत्पन्ना विष्णुपादोदकमेवास्या जन्महेतुरित्यर्थः । विष्णुपादोदकमोवोद्भूतं रुपं यस्याः सेति वा । पुनश्च ब्रह्मलोकादुपागतेहागता पुनश्च त्रिभिः स्रोतोभिः प्रवाहैर्भुवनत्रयं स्वर्गमृत्युपाताललक्षणमश्रान्तं निष्परिश्रमं यथा भवति तथा पुनाना । पवित्रीकुर्वाणेत्यर्थः । अथ एव त्रिस्त्रोता इति नाम दधतीर्यर्थः । `पूञ्पवने', शानच् श्नाप्रत्ययश्च ।। १०.३१ ।।


जातवेदसमायान्तमूर्मिहस्तैः (१)समुत्थितैः ।
(२)आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ।। १०.३२ ।।

{१.समुच्छ्रितैः.२.आजुहावास्य.}
     अन्वयः- सुप्रसादधरा सा आयान्तं तं जातवेदसम् अर्थसिद्ध्यै समुत्थितैः ऊर्मिहस्तैः आजुहाव इव ।
     सीo- जातवेदसमिति । सुतरामतिशयितो यः प्रसादस्तस्य धराधारिणी सा गङ्गा आयान्तमागच्छन्तं तं जातवेदसमग्निमर्थसिद्ध्या अर्थसिद्धिं कर्तुं समुत्थितैरुच्चलितैरूर्मय एव हस्तास्तैः कृत्वाजुहावेव । अन्योऽपि हस्तसंकेतेन कंचिदाह्वयति । पुनः पुनरूर्मिसमुत्थानं तत्कर्तृकंमाह्वानमिवेत्युत्प्रेक्षा । आपूर्वाद् ह्वयतेः कर्तरि लिट् ।। १०.३२ ।।


संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ।। १०.३३ ।।

     अन्वयः- संमिलद्भिः उन्मदैः कलं कूजद्भिः मरालैः (युक्ता) सा (हे अग्ने !) (तुभ्यम्) `श्रेयांसि ददे, दुःखं निहन्मि' इति अभ्यधात् ।
     सीo- संमिलद्भिरिति । संमिलद्भिः सम्यङ्मिलन्त्येकीभवन्तीति तथोक्तैः । तथोन्मदैरन्मत्तैरत एव कलं मधुरं यथा भवति तथा कूजद्भिः शब्दायमानैर्मरालैर्हंसैर्युक्ता सा देवी गङ्गा तमग्निमित्यभ्यधादुवाच । किमिति तत् । भो अग्ने ! तुभ्यं श्रेयांसि ददे । दुःखानि निहन्मि । आत्मशक्त्याभिधाने जलरुपतयाशक्तापि स्वकीयतीरगतहंसनिनादेन वदति स्मेति भावः ।। १०.३३ ।।


कल्लोलैरुद्गतैरर्वाचीनं (१)तटमभिद्रुतैः ।
(२)प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ।। १०.३४ ।।

{१.उपागतैः.२.प्रीत्येष.}
     अन्वयः-- स्वर्धुनी प्रीता (सती) उद्गतैः अर्वाचीनं तटम् अभिद्रुतैः कल्लौलैः तं जातवेदसम् अभीयाय इव ।
     सीo- कल्लोलैरिति । स्वर्धुनी गङ्गा प्रीता सती । उद्गतैरानन्दादुद्वेलैरत एवार्वाचीनमर्वागभवं तटमभिद्रुतैः पलायितैः कल्लोलैः कृत्वा तं जातवेदसमभीयायेव संमुखीबभूवेव ।। १०.३४ ।।


(३)अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
विपदा (४)परिभूताः किं (५)व्यवस्यन्ति विलम्बितुम् ।। १०.३५ ।।

{३.अभ्युपेत्य.४.परिभूतः.५.व्यवस्यति.}
     अन्वयः- अथ तापार्तः अभ्युपेतः अनलः निममज्ज किल । विपदा परिभूताः विलम्बितुं किं व्यवस्यन्ति ?
     सीo- अथेति । अथानन्तरं तापेन हरतेजोजन्मनार्तः पीडितोऽत एवाभ्युपेतः संमुखमुपगतोऽग्निः । किलेति प्रसिद्धौ । निममज्ज निमग्नोऽभूत् । ननु झटित्येव किं मग्न इत्यर्थान्तरं न्यस्यति-विपदापदा परिभूता जिताः पुरुषा विलम्बितुमापत्प्रतीकारभविष्णुतां सोढुं किं व्यवस्यन्त्युद्युञ्जते । अपि तु नेत्यर्थः । `प्रतीक्षते जातु न कालमार्तिः' इति न्यायादिति भावः ।। १०.३५ ।।


गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मग्नो निर्वृतिं प्राप (६)पुण्यभारिणि तारिणि ।। १०.३६ ।।

{६.पुण्यतारिणि.}
     अन्वयः- स कल्याणकारिणि श्रमहारिणि पुण्यभारिणि तारिणि गङ्गावारिणि मग्नो निर्वृतिं प्राप ।
     सीo- गङ्गेति । सोऽग्निः कल्याणकारिण्यनेकमङ्गलविधायिनि श्रमहारिणि परिश्रमहारके । पुण्यं भारयति जनैः संग्राहयति तस्मिन्पुण्यभारिणि, येन जनाः पुण्यभारवन्तो भवन्तीति भावः । तारिणि भवार्णवतारिणि गाङ्गेयजले मग्नः स्नातः सन् निर्वृतिं सुखं प्राप । तापार्तानां वारिनिमज्जनमेव सुखैकहेतुरिति भावः ।। १०.३६ ।।


तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
(१)गङ्गायामुत्तरङ्गायामन्तस्तापविपद्धृति(२) ।। १०.३७ ।।

{१.इद्धभङ्गायाम्.२.अन्तस्तापविपद्भृतः,अन्तस्तापभिदाभृति.}
     अन्वयः- माहेश्वरं धाम हविर्भुजः अन्तस्तापविपद्धृति उत्तरङ्गायां तत्र गङ्गायां संचक्राम ।
     सीo- तत्रेति । माहेश्वरं शैवं धाम तेजो हविर्भुजोऽग्नेः सकाशात्तत्र गङ्गायां संचक्राम संक्रान्तम् । लग्नमिति यावत् । अत एव किंभूतायां गङ्गायाम् । अन्तर्मध्ये ताप एव विपत्तां धरति तथोक्तायामत एवोल्ललिता अति वेलास्तरङ्गाः कल्लोला यस्यास्तथोक्तायाम् । विशेषणद्वयार्थस्य पूर्ववाक्यानन्तरभावितया पृथग्वाक्यत्वेन व्यपदेशे कर्तव्ये विशेषणतया वाक्यात्पूर्वोपमादानं यत्तत्पूज्यतया व्यवस्थितम् । न तु चित्तपरितोषाय । धामसंक्रमणात्प्राग्विपद्धरणासंभवात् । `धृता' इति पञ्चम्यन्तपाठे हविर्भुजो विशेषणम् । उत्तरङ्गत्वं च जलप्रकृतिविलसितं च स्वीकर्तव्यम् ।। १०.३७ ।।


कृशानुरेतसो (३)रेतस्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु ।। १०.३८ ।।

{३.आहृते.}
     अन्वयः-- तया सरिता कृशानुरेतसो रेतसि आदृते (सति) हव्यवाहः बहुसौख्यं वहन् ततो निश्चक्राम ।
     सीo-- कृशान्विति । तया सरिता गङ्गया कृशानुरेतसो हरस्य रेतसि धामनि । `कृशानुरेताः सर्वज्ञः' इत्यमरः । आदृते । आदरपुर्वकं गृहीते सतीत्यर्थः । हव्यवाहोऽग्निः । णिजन्तात्पचाद्यच् । बहु सौख्यं वहन् सन् । ततो गङ्गातो निश्चक्राम बहिर्निःसृतः ।। १०.३८ ।।


(४)सुधासारैरिवाम्भोभिरभिषिक्तो(५) हुताशनः ।
यथागतं जगामाथ परां निर्वृतिमादधत् ।। १०.३९ ।।

{४.उदारैः.५.परिषिक्तः.}
     अन्वयः-- अथ सुधासारैः इव अम्भोभिः अभिषिक्तः परां निर्वृतिम् आदधत् हुताशनो यथाऽऽगतं जगाम ।
     सीo-- सुधासारैरिति । अथानन्तरम् । सुधासारैरिवाम्भोभिर्जलैरभिषिक्तः स्नातोऽत एव परामत्युत्कटां निर्वृतिं सुखमादधद्विभ्रद्धुताशनोऽग्निर्यथागतमनतिक्रम्य जगाम गतवान् ।। १०.३९ ।।


सा सुदुर्विषहं (१)गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ।। १०.४० ।।

{१.कामम्.}
     अन्वयः-- व्योमवाहिनी सा गङ्गा कामजितो महत् सुदुर्विषहं धाम आदधाना (सती) परीतापम् अवाप ।
     सीo-- सेति । व्योम्नि वाहः प्रवाहोऽस्ति यस्यास्तथोक्ता सा गङ्गा कामजितो महेश्वरस्य महत् सुदुर्विषहम् । ईषद्दुःसुष्वि-- `ति कृच्छ्रार्थे खल्' । धाम तेज आदधाना सती परीतापं संतापम् । `उपसर्गस्य घञ्यमनुष्ये बहुलम्' इति दीर्घः । अवाप प्राप्तवतीत्यर्थः ।। १०.४० ।।


बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
हित्वोष्णानि (२)जलान्यस्या निर्जग्मुर्जलजन्तवः ।। १०.४१ ।।

{२.पयांसि.}
     अन्वयः- जलजन्तव आर्ताः (सन्तः) युगाऽन्ताऽग्नेः शिखाशतैः तप्तानि इव उष्णानि अस्याः जलानि हित्वा निर्जग्मुः ।
     सीo- बहिरिति । जलजन्तवो यादांस्यार्ताः सन्तो युगान्ताग्नेः प्रलयकालीनानलस्य शिखाशतैः प्रकरणाच्छिवधाम्न एव तप्तान्यत एवोष्णान्यस्या गङ्गाया जलानि हित्वा परित्यज्य बहिर्निर्जग्मुः । निर्गतवन्त इत्यर्थः । यानि महेश्वरधामशिखाशतानि तान्यत्युग्रसंतापरुपसाधारणदर्मेण गम्यमानेन प्रलयकालानलसंबन्धिनीवेत्युत्प्रेक्षा । `अर्चिर्हेतिः शिखा स्त्रियाम्' इत्यमरः । हित्वेति `ओहाक् त्यागे' इत्यस्य ।। १०.४१ ।।


तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
समुदञ्चन्ति चण्डानि (१)दुर्धराणि बभार सा ।। १०.४२ ।।

{१.दुर्भराणि.}
     अन्वयः- सा रौद्रेण तेन तेजसा तप्तानि समुदञ्चन्ति दुर्धराणि अपि सलिलानि बभार ।
     सीo- तेजसेति । सा गङ्गा । रौद्रेण तेन तेजसा तप्तान्यत एव समुदञ्चन्ति अतितापवशादुत्प्लुत्य बहिर्निःसरन्तीत्यर्थः । अत एव चण्डानि प्रचण्डस्वरूपाण्यत एव दुर्धराण्यपि सलिलानि बभार धृतवती । तेजसो रुद्रसंबन्धितत्वादिति भावः ।। १०.४२ ।।


जगच्चक्षुषि चण्डांशौ किंचिदभ्युदयोन्मुखे ।
जग्मुः षट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ।। १०.४३ ।।

     अन्वयः- माघे मासि जगच्चक्षुषि चण्डांशो किञ्चिदभ्युदोन्मुखे षट् कृत्तिकाः स्नातुं सुरापगां जग्मुः ।
     सीo- जगदिति । माघे माघसंज्ञके मासि । `पद्दन्नि-' ति मासशब्दस्य हलन्तमासादेशः । जगच्चक्षुषि जगन्नेत्रभूते चण्डांशौ सूर्ये किंचिदभ्युदयोन्मुखे । शैलान्तर्हितेन तेजसा दिशः किंचित्प्रकाशयतीत्यर्थः । षट् कृत्तिकाः स्नातुं सुरापगां मन्दाकिनीं जग्मुः प्रापुः ।। १०.४३ ।।


अथ चतुर्भिः सुरापगां विशिनष्टि-

शुभ्रैरभ्रंकषैरूर्मिशतैः (२)स्वर्गनिवासिनाम् ।
कथयन्तीमिवालोकावगाहा(३) चमनादिकम् ।। १०.४४ ।।

{२.स्वर्गमनं सताम्.३.आचमनादिना.}
     अन्वयः- आलोकाऽवगाहाचमनादिकं (कुर्वताम्) स्वर्गनिवासिनाम्, अभ्रङ्कषैः शुभ्रैः ऊर्मिशतैः कथयन्तीम् इव ।
     सीo- शुभ्रैरिति । आलोको दर्शनमवगाहः स्नानमाचमनं चेत्यादीनि यस्य तादृशं कर्म कुर्वतां स्वर्गनिवासिनामभ्रंकषैरुत्प्लुत्याकाशस्पृग्भिः शुभ्रैरुर्मिशतैस्तरङ्गशतैरात्मदुःखं कथयन्तीमिवेत्युत्प्रेक्षा । अस्मिन् श्लोके पदद्वयाध्याहारदोषः स्फुट एव । क्रियाकारकयोः परस्परनित्यसंबन्धादाक्षेपलक्षणन्यायेन केचित्समादधते । उत्प्लुतानि यानि तरङ्गशतानि तानि कथनसंज्ञानानीवेति भावः । यथान्योऽप्यात्मव्याधिहेतुकं कंचिददनीयपदार्थं कंचिदपि पुरुषं दर्शयित्वाऽऽस्वाद्य च तत्पदार्थदोषं कथयति तथेयमपीति बोद्धव्यम् । अभ्रंकषैरिति `सर्वकूलाभ्रकरीषेषु' इत्यभ्रोपपदकात्कषेः खश् ।। १०.४४ ।।


सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ।। १०.४५ ।।

     अन्वयः- सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैः दूर्वाक्षताऽन्वितैः पुष्पोत्करैः बहिः अलं कीर्णतीराम् (गङ्गां स्नातुं जग्मुः) ।
     सीo- सुस्नातानामिति । सुस्नातानां मुनीन्द्राणां सप्तर्षीणां बलिकर्मणि पूजाविधावुचितानि योग्यानि तैः । यथा दूर्वाभिरक्षतैश्चान्वितैर्युक्तैः पुष्पोत्करैः कुसुमसमूहैर्बहिः कीर्णतीरां व्याप्तसैकताम् । `लाजाः पुंभूम्नि चाक्षताः' इत्यमरः । अलंशब्दोऽत्रात्यर्थवाचकः । स च कीर्णतीरामित्यतः प्रागन्वयितव्यः ।। १०.४५ ।।


(१)ब्रह्मध्यानपरै(२)र्योगपरैर्ब्रह्मासन(३)स्थितैः ।
योगनिद्रागतैर्योगपट्ट(४)बन्धैरुपाश्रिताम् ।। १०.४६ ।।

{१.ब्रह्मा.२.योगिवरैः.३.पद्मासन.४.भोगिभोगवद्धैः.}
     अन्वयः- ब्रह्मसनस्तितैः ब्रह्मध्यानपरैः योगनिद्रागतैः योगपट्टबन्धैः योगपरैः उपाश्रिताम् (गङ्गां स्नातुं जग्मुः) ।
     सीo- ब्रह्मेति । ब्रह्मासने स्थितैः । तथा ब्रह्मणो ध्याने परैः सक्तैः । तथा योग एव निद्रा तां गतैः, तथा योगपट्टस्य बन्धो बन्धनं येषां तैः । योगपट्टं बध्नद्भिरित्यर्थः । एवंविधैर्योगपरैर्योगिभिरुपाश्रितां सेविताम् ।`उभौ जानू ऊर्ध्वतमौ सकट्यपसुवाससा । बद्धौ च कृत्वा सततं ध्यायेत्परमनन्यधीः' इति योगलक्षणम् ।। १०.४६ ।।


पादाङ्गुष्ठाग्र(१)भूमिस्थैः सूर्य(२)संबद्धदृष्टिभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ।। १०.४७ ।।

{१.भूमिष्ठैः,भूयिष्ठैः.२.संविष्टः.}
     अन्वयः- पादाऽङ्गुष्ठाऽग्रभूमिस्थैः, सूर्यसम्बद्धदृष्टिभिः, परं ब्रह्म गृणद्भिः ब्रह्मर्षिभिः उपसेविताम् (गङ्गां स्नातुं जग्मुः) ।
     सीo- पादेति । पादसंबन्धिनोऽङ्गुष्ठस्याग्रेणैव । न समग्रपादेनेत्यर्थः । भूमिस्थैः पृथिव्यां स्थितैरित्यर्थः । तथा सूर्ये सम्बद्धदृष्टिभिरन्वितविलोचनैः । तथा परं ब्रह्म गृणद्भिर्जपद्भिर्ब्रह्मर्षिभिः सप्तर्षिभिरुपसेवितामुपाश्रिताम् ।। १०.४७ ।।


अथ (३)दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
कं नाभिनन्दयत्येषा (४)दृष्टा पीयूषवाहिनी ।। १०.४८ ।।

{३.देवीं धुनीम्,दिव्यनदीम्.४.देवी }
     अन्वयः- अथ ताः दिव्यां नदीं विलोक्य अभ्यनन्दन् । एषा पीयूषवाहिनी दृष्टा कं न अभिनन्दयति ।
     सीo- अथेति । अथानन्तरं ताः कृत्तिकाः दिव्यां स्वर्गीयां नदीं देवीं गङ्गां विलोक्याभ्यनन्दन् आनन्दिता बभूवुरित्यर्थः । एतद्युक्तमेवेत्याह एषा पीयूषवाहिनी गंगा दृष्टा दर्शनगोचरीभूता सती कं पुरुषं नाभिनन्दयति, अपि तु सर्वमेवेत्यर्थः । `किम्' इति पाठे किं कुतः कारणान्नाभिनन्दयति मोदयति, अपि तु मोदयत्येवेत्यर्थः । अत एतदालोकन आनन्दयुक्त इति भावः ।। १०.४८ ।।


चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि ।
(५)यस्या विलोकनं पुण्यं श्रद्दधूस्ता मुदा हृदि ।। १०.४९ ।।

{५.तस्य विलोकनम्,तस्यावलोकनम्.}
     अन्वयः- चन्द्रचूडामणिः देवो मूर्धनि याम् उद्वहति । यस्या विलोकनं पुण्यम् । (तां) ताः हृदि मुदा श्रद्दधुः ।
     सीo- चन्द्रेति । चन्द्रश्चूजामणिभूतो यस्य स देवो हरो मूर्धनि यामुद्वहति । यस्या विलोकनं पुण्यं पुण्यकारि तां गङ्गा ता हृदि मनसि मुदा प्रीत्या श्रद्दधुः । श्रद्धितां चक्रुरित्यर्थः । गुणवत्सु श्रद्धाया औचित्यादिति भावः ।। १०.४९ ।।


(१)दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम्(२) ।
(३)निर्धूतकल्मषां (४)मूर्ध्ना सुप्रह्वास्ता(५) ववन्दिरे ।। १०.५० ।।

{१.दिष्ट्या.२.दर्शिनीम्.३.निर्धूतकल्मषाः.४.भूत्वा.५.ताम्.}
     अन्वयः- निर्वाणपददेशिनीं निर्धूतकल्मषां दिव्यां विष्णुपदीं देवीं सुप्रह्वाः ता मूर्ध्ना ववन्दिरे ।
     सीo- दिव्यामिति । निर्वाणपदस्य मोक्षपदस्य देशिनीं दात्रीम् । तथा निर्धूतकल्मषां दूरीकृतजनकिल्बिषां दिव्यां स्वर्गीयाम् । `द्युप्रागपागुदक्प्रतीचो यत्' इति दिवो यत् । विष्णोः पदीं चरणसंबन्धिनीम् । `गङ्गाविष्णुपदी' इत्यमरः । देवीं गङ्गां ताः कृत्तिकाः सुतरां प्रह्वा नताः सत्यो मूर्ध्ना ववन्दिरे प्रणेमुः ।। १०.५० ।।


(६)सौभाग्यैः खलु (७)सुप्रापां मोक्षप्रतिभुवं (८)सतीम् ।
भक्त्यात्र(९) तुष्टुवुस्तां ताः(१०) श्रद्दधाना दिवोधुनीम् ।। १०.५१ ।।

{६.स्वभाग्यैः.७.संप्राप्ताम्.८.सताम्.९.प्रतुष्टुवुः.१०.तास्ताम्.}
     अन्वयः- अत्र ताः श्रद्दधानाः सौभाग्यैः सुप्रापां मोक्षप्रतिभुवं सतीं तां दिवो धुनीं भक्त्या तुष्टुवुः खलु ।
     सीo- सौभाग्यैरिति । अत्र ताः कृतिकाः श्रद्दधानाः सत्यः सौभाग्यैः शोभनभाग्यैः सुखेन प्राप्तुं शक्यां मोक्षस्य प्रतिभुवं लग्नकां सतीं पतिव्रतां तां दिवोधुनीं गङ्गां भक्त्या निमित्तेन तुष्टुवुः । भक्तिनिमित्तं स्तवनमित्यर्थः ।। १०.५१ ।।


मुक्तिस्त्रीसङ्ग(१)दूत्यज्ञैस्तत्र (२)ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः(३) ।। १०.५२ ।।

{१.दौत्यज्ञै.२.भाविमलैः.३.तापसान्विताः.}
     अन्वयः- तपसा अन्विताः ताः मुक्तिस्त्रीसङ्गदूत्यज्ञैः विमलै जलैः प्रक्षालितमलाः (सत्यः) तत्र सस्नुः, सुस्नाताः ।
     सीo- मुक्तिरिति । ताः कृतिकाः विमलैर्विगतमलैः तथा मुक्तिर्मोक्षः सैव स्त्री तस्याः सङ्गः संबन्धः, प्राप्तिरिति यावत्, तत्र यद्दूत्यं दूतीभावः कर्म वा तस्य ज्ञैः ज्ञातृभिरित्यर्थः । येषां स्पर्शमात्रेण मुक्तिर्भवतीति भावः । तथाभूतैर्जलैः कृत्वा प्रक्षालितमला निवर्तितकल्मषाः सत्यस्तत्र गङ्गायां सस्नुः स्नानं चक्रुरित्यर्थः । मलापकर्षस्नानानन्तरं शुद्धस्नानं क्रियत इति भावः । किंभूताः ? सुस्नाताः शोभनं विध्युक्तप्रकारकं स्नातं स्नानं यासां ताः । भावे निष्ठा । विध्युक्तप्रकारेण स्नानकर्त्र्य इत्यर्थः । पुनः किंभूताः ? तपसान्विताः तपस्विन्य इत्यर्थः । `ष्णा शौचे' कर्तरि लिट् ।। १०.५२ ।।


स्नात्वा तत्र (४)सुलभ्यायां भाग्यैः परिपचेलिमैः ।
चरितार्थं स्वमात्मानं (५)बहु ता मेनिरे मुदा ।। १०.५३ ।।

{४.सुरभ्यायाम्.५.बहुलाः.}
     अन्वयः- परिपचेलिमैः भाग्यैः सुलभ्यायां तत्र स्नात्वा ताः स्वं मुदा बहु चिरतार्थं मेनिरे ।
     सीo- स्नात्वेति । परिपचेलिमैः परिपक्वैः । `तव्यत्तव्यानीयरः' इत्यत्र केलिमर उपसंख्यानात् पचतेः केलिमर् । भाग्यैर्दिष्टैर्निमित्तभूतैः सुलभ्यायां सुखेन लब्धुं शक्यायाम् । `पोरदुपधात्' इति यत् । तथाभूतायां तत्र गङ्गायां स्नात्वा ताः कृत्तिकाः स्वं स्वकीयमात्मानं मुदा प्रीत्या बहु यथा तथा चरितार्थं पुरुषार्थकारिणं मेनिरेऽमन्यन्त । `मनु अवबोधने' कर्तरि लिट् ।। १०.५३ ।।


कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ।। १०.५४ ।।

     अन्वयः-- अथ गङ्गाऽवगाहनात् अमोघं कृशानुरेतसो रेतः सद्यः तासाम् अभिकलेवरं संचचार ।
     सीo- कृशानुरेतस इति । अथानन्तरं गङ्गावगाहनाद्धेतोरमोधं सफलं कृशानुरेतसो हरस्य रेतो वीर्यं सद्यस्तत्कालं तासां कृत्तिकानामभिकलेवरं कलेवरे शरीर इत्यभिकलेवरम् । शरीरमध्य इत्यर्थः । संचचार संचक्राम । लग्नमिति यावत् । अत्र तृतीयायोगाभावात् समः- परतोऽपि चरतेर्नात्मनेपदम् । `समस्तृतीयायुक्तात्' इति सौत्रनियमात् ।। १०.५४ ।।


रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ।। १०.५५ ।।

     अन्वयः- दहनात्मकं सुदुर्धरं रौद्रं धाम दधानाः ता विषाऽम्बुधौ मग्ना इव परितापम् अवापुः ।
     सीo- रौद्रमिति । दहनात्मकमग्निरुपमत एव सुतरां दुर्धरं दुःखेन धर्तुं शक्यं रौद्रं शैवं धाम तेजो दधानास्ताः कृत्तिका विषाम्बुधौ मग्ना इवेत्युत्प्रेक्षा । परितापमवापुः । विषाम्बुधिमग्नत्वे यादृशः परितापो भवति तादृशो रौद्रतेजोधारणे जात इति भावः ।। १०.५५ ।।


अक्षमा (१)दुर्वहं वोढुमम्बुनो बहिरातुराः ।
(२)अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ।। १०.५६।।

{१.दुर्धरम्.२.अग्निं ज्वलन्तमन्तःस्थं दधाना इव निर्ययुः, निर्ययुसहिताः शीघ्रं कृत्तिका विस्मयान्विताः.}
     अन्वयः- दुर्वहं (तद्धाम) वोढुम् अक्षमाः आतुराः ताः अन्तः ज्वलन्तम् अग्निम् इव दधानाः अम्बुनः बहिः निर्ययुः ।
     सीo-- अक्षमा इति । दुर्वहं दुर्धरं तद्धाम वोढुमक्षमा अत एवातुरा व्याकुलास्ताः कृत्तिकाः । अन्तर्मध्ये ज्वलन्तमग्निमिव दधानाः सत्योऽम्बुनो जलाद्वहिर्निर्ययुः । निर्जग्मुरित्यर्थः । अत्र धामन्यग्नित्वेनोत्प्रेक्षणादुत्प्रेक्षा ।। १०.५६ ।।


अमोघं शांभवं बीजं सद्यो (१)नद्योज्झितं महत् ।
तासामभ्युदरं (२)दीप्तं स्थितं गर्भत्वमागमत् ।। १०.५७ ।।

{१.नद्यांस्थितम्.२.तीव्रम्.}
     अन्वयः- नद्या सद्य उज्झितं तासाम् अभ्युदरं दीप्तं स्थितम् अमोघं महत् शाम्भवं बीजं गर्भत्वम् आगमत् ।
     सीo- अमोघमिति । नद्या गङ्गया सद्य उज्झितमत एव तासां कृत्तिकानामभ्युदरं दीप्तं सत्स्थितममोघं सफलं महच्छांभवं बीजं गर्भत्वमागमत् । गर्भीभूतमित्यर्थः ।। १०.५७ ।।


५८-५९ श्लोकयोर्मध्ये श्लोको दृश्यते-

अकाममरणं जात(१)मकाण्डं भाविनोऽर्थतः।

संभूयान्योन्यमात्मानं (२)शुशुचुस्तास्तदाविलम्।।
सुज्ञा विज्ञाय ता (३)गर्भभूतं तद्वोढुमक्षमाः ।

विषादमदधुः(४) सद्यो गाढं (५)भर्तृभिया ह्रिया ।। १०.५८ ।।

{१.अकाण्डे.२.शुश्रुवुः.}{३.गर्भीभूतम्.४.आगमन्.५.भर्तृर्भयात्.}
     अन्वयः- सुज्ञा गर्भभूतं तत् विज्ञाय वोढुम् अक्षमाः ताः भर्तृभिया ह्रिया सद्यो गाढं विषादम् अदधुः ।
     सीo- सुज्ञा इति । सुज्ञाश्चतुरा अत एव गर्भभूतं तद्वीर्यं विज्ञायापि वोढुमक्षमा असमर्थाः । तस्यातिशयप्रज्वलितत्वादिति भावः । ताः कृत्तिका भर्तुर्भिया भयेन । यदि न धरिष्यामस्तदानुचितं नो चेच्छरीरदाह इति भयेनेत्यर्थः । ह्रिया लज्जया एवंविधा इमाः । याभिर्भर्तृवीर्यमपि न धृतमिति लोकप्रवादजन्मनेत्यर्थः । सद्यो गाढं विषादं खेदमदधुर्धृतवत्यः ।। १०.५८ ।।


ततः शरवणे (६)सार्धं भयेन व्रीडया च(७) ताः ।
तद्गर्भजातमुत्सृज्य (८)स्वान् गृहानभिनिर्ययुः(९) ।। १०.५९ ।।

{६.शापभयेन.७.सह.८.ता.९.अभितो ययु; अभि ता ययुः.}
     अन्वयः- ततः ताः तद् गर्भजातं भयेन व्रीडया च सार्धं शरवणे उत्सृज्य स्वान् गृहान् अभिनिर्ययुः ।
     सीo- तत इति । ततोऽनन्तरं ताः कृत्तिकास्तद् गर्भजातं गर्भसामान्यम् । `जातिर्जातं च सामान्यम्' इत्यमरः । भयेन व्रीडया च सार्धं सह शरवणे । `प्रनिरन्तःशरेक्ष्वि--' त्यादिना शरशब्दात् परवननकारस्य णत्वम् । `शरः स्तुते जने बाणे' इति मेदिनी । उत्सृज्य परित्यज्य स्वान् गृहानभिनिर्ययुर्गतवत्यः । `गृहाः पुंसि च भूम्न्येव' इत्यमरः ।। १०.५९ ।।


ताभिस्तत्रामृतकरकलाकोमलं भासमानं

(१)तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युज्जिहानैः ।
(२)स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै(३)

(४)र्वक्त्रैः षङ्भिः (५)स्मरहरगुरुस्पर्धयेवाजनीव ।। १०.६० ।।

{१.निक्षिप्तम्.२.तै.३.दिनकर.४.वक्त्रम्.५.स्मरहरशिरःस्पर्धयेव प्रपेदे.}
     अन्वयः- ताभिः तत्र विक्षिप्तम् अमृतकरकलाकोमलं क्षणं भासमानं तत् अभिनवभोगर्भम् अम्युज्जिहानैः दिवपतिशतस्पर्धमानैः अमानैः स्वैः तेजोभिः षङ्भिः वक्त्रैः स्मरहरगुरुस्पर्धया इव अजनि ।
     सीo- ताभिरिति । ताभिः कृतिकाभिस्तत्र शरवणे विक्षिप्तं त्यक्तम् । तथामृतकरकलावच्चन्द्रकलेव कोमलं मृदु यथा तथा क्षणं भासमानं तद्गर्भजातं कर्तृ । अभिनभोगर्भं नभोगर्भं आकाशमध्य इत्यभिनभोगर्भम् । `गर्भोभ्रूणेऽभेके कुक्षौ इति मेदिनी । अभ्युज्जिहानैरभ्युज्जिहते संमुखमुदयन्ते तानि तैः । `ओ हाङ् गतौ' इत्यतः शानच् । तथा दिनपतिशतं सूर्यशतं स्पर्धन्ते तानि तैः ।ततोऽप्यधिकैरित्यर्थः । तथामानैरसंख्यैः स्वैस्तेजोभिः तथा षड्भिर्वक्त्रैश्च युक्तं स्मरहरगुरोर्ब्रह्मणः । स्वर्धयेर्ष्ययेव । तव चत्वारि मम षडित्यतस्त्वत्तोऽप्यहमधिकोऽस्मीत्येवंभूतवाग्वादावसरफलकयेत्यर्थः । अजनि परिप्राप्तमभूदित्यर्थः । `दीपजने-' त्यादिना च्लेश्चिण् । `जनिवध्योश्च' इति वृद्धिनिषेधः । अत्र तेजसां षण्णां वक्त्राणां चोत्पादने ब्रह्मस्पर्धाया अहेतुत्वेऽपि तद्धेतुत्वेन कल्पनाद्धेतूत्प्रेक्षालंकारः । मन्दाक्रान्ता वृत्तम्- `मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद् गुरू चेत्' इति लक्षणात् ।। १०.६० ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-

श्रीसीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ

कुमारसंभवे महाकाव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः ।।