कुमारसम्भवम् - मल्लिनाथः/त्रयोदशः सर्गः

विकिस्रोतः तः
← द्वादशः सर्गः कुमारसम्भवम् - मल्लिनाथः
त्रयोदशः सर्गः
कालिदासः
चतुर्दशः सर्गः →
त्रयोदशः सर्गः

प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।

ततः कुमारः शिरसा नतेन (१)त्रैलोक्यभर्तुः प्रणनाम पादौ ।। १३.१ ।।

{१.त्रिलोक.}
     अन्वयः-- ततः स कुमारः प्रस्थानकालोचितचारुवेषः स्वर्गिवर्गैः अनुगम्यमानः (सन्) नतेन शिरसा त्रैलोक्यभर्तुः पादौ प्रणनाम ।
     सीo- प्रस्थानेति । ततोऽनन्तरं स कुमारः कार्तिकेयः प्रस्थानकाल उचितो योग्यश्चारुश्व वेषो यस्य । तथा स्वर्गिवर्गैरिन्द्रादिदेवगणैरनुगम्यमानः सन् । नतेन शिरसा त्रैलोक्यभर्तुः शिवस्य पादौ प्रणनाम नमश्चक्रे । `उपसर्गादसमासेऽपि' इति णत्वम् ।। १३.१ ।।


जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स ।
इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ।। १३.२ ।।

     अन्वयः- प्रणमन्तं तम् ईशो मुदा मूर्ध्नि उपाघ्राय `हे वीर ! हे वत्स ! समरे इन्द्रशत्रुं जहि, अमरेशपदं स्थिरत्वं नय' इति आशिषा अभ्यनन्दत् ।
     सीo-- जहीति । प्रणमन्तं नमस्कुर्वन्तं तं कुमारमीशो हरो मुदा प्रीत्या मूर्धन्युपाघ्राय गन्धमुपादाय `हे वीर, हे वत्स, समरे युधीन्द्रशत्रुंतारकं जहि मारय । अथामरेशपदमिन्द्रपदं स्वर्गं स्थिरत्वं स्थैर्यं नय प्रापय' । उभयत्राप्याशिषि लोट् । इत्येवंभूतयाशिषाशीर्वादेनाभ्यनन्ददस्तौषीत् ।। १३.२ ।।


प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं(२) स्वमातुः ।
तस्याः प्रमोदाश्रुपयः (३)प्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ।। १३.३ ।।

{२.युगं सः,युगाय.३.प्रपूरः,प्रवर्षः.}
     अन्वयः- (सः) प्रह्वीभवन् नम्रतरेण मूर्ध्ना स्वमातुः अङ्घ्रियुगं नमश्चकार । तस्याः प्रमोदाऽश्रुपयः प्रवृष्टिः तस्य वीरवराऽभिषेकः अभवत् ।
     सीo- प्रह्वीति । स कुमारः प्रह्वीभवन्नम्रीभवन्सन्नम्रतरेण मूर्ध्ना । अत्र प्रह्वीभवन्नित्यनेनैव मूर्ध्नो नम्रत्वे सिद्धे पुनर्विशेषणोपादानं सामान्यतोऽन्येषामङ्गानां नम्रत्वोक्त्यपेक्षया मूर्ध्नि क्रियातिशयद्योतनार्थम् । पुनरुपादानेन तरब्ग्रहणलिङ्गाच्च । स्वमातुरङ्घ्रियुगं चरणद्वन्द्वं नमश्चकार । तस्याः पार्वत्याः सम्बन्धीनि यानि प्रमोदाश्रुपयांसि तेषां प्रवृष्टिर्वर्षणं तस्य कुमारस्य वीरेषु वरस्य श्रेयसः । सेनापतेरित्यर्थः । तस्याभिषेक इव योऽभिषेकः सोऽभवत् । तस्य यादृगभिषेको भवति स मात्रश्रुपयोवृष्टिराशिश्चरणनखपर्यन्तं प्लावयन्त्यभूदिति भावः ।। १३.३ ।।


तमङ्कमारोप्य सुता (१)हिमाद्रेराश्लिष्य(२) गाढं सुतवत्सला सा ।
शिरस्युपाघ्राय जगाद शत्रुं जित्वा (३)कृतार्थीकुरु वीरसूं माम् ।। १३.४ ।।

{१.महाद्रेः.२.आश्लिष्टगात्रम्.३.कृतार्थां कुरु.}
     अन्वयः- सुतवत्सला सा तम् अङ्कम् आरोप्य गाढम् आश्लिष्य शिरसि उपाघ्राय `(हे वत्स ! त्वम्) शत्रुं जित्वा वीरसूं मां कृतार्थीकुरु' (इति) जगाद ।
     सीo- तमिति । सुते पुत्रे वत्सला कृपावती सा हिमाद्रेः सुता पार्वती तं पुत्रम् । अस्य ल्यबन्तत्रयेण सम्बन्धो विधेयः । अङ्कमुत्सङ्गम् । `अङ्को रुपकभेदाङ्गचिह्ने रेखाजिभूषणे । रुपकाण्डान्तिकोत्सङ्गस्थानेऽङ्कं पापदुःखयोः' इति मेदिनी । आरोप्य संस्थाप्य । तथा गाढं दृढं यथा तथा । `प्रगाढः कृच्छ्रदृढयोः' इति मेदिनी । प्रेति त्रित्वसंघातनिवेशनायैव । एवं विना तदलाभात् । आश्लिष्यालिङ्ग्य । तथा शिरस्युपाघ्राय च । `हे वत्स, त्वं शत्रुं तारकं जित्वा वीरं सूते सा वीरसूस्तथोक्तां मां कृतार्थीकुरु' इति जगाद । एवंविधे महति कार्ये भवता प्रतिपादिते सति त्रैलोक्यप्रसृतिशीलेन यशसा धवलीकृतं सत् `एष यदीयः पुत्रः सा कृतार्थैव' इति वर्णयिष्यतीत्यतो मत्कृतार्थत्वं सिद्धमेवेति भावः ।। १३.४ ।।


उद्दाम (४)दैत्येशविपत्तिहेतुः श्रद्धालुचेताः (५)समरोत्सवस्य ।
आपृच्छ्य भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः ।। १३.५ ।।

{४.दैतेय.५.समरोद्धुरः सः.}
     अन्वयः-ततः उद्दामदैत्येशविपत्तिहेतुः समरोस्सवस्य श्रद्धालुचेताः कुमारे भक्त्या गिरिजागिरीशौ आपृच्छ्य दिवम् अभिप्रतस्थे ।
     सीo- उद्दामेति । ततोऽनन्तरमुद्दाम उद्भटो यो दैत्येशस्तारकस्तस्य विपत्तिर्मृत्युस्तस्याः हेतुः कारणम् । तत्कर्तेत्यर्थः । तथा समरोत्सवस्य संग्रामरूपस्योत्सवस्य `मह उद्धव उत्सवः' इत्यमरः । इयं कर्मणि षष्ठी । सम्बन्धमात्रविवक्षितत्वात् इह षष्ठ्यन्तस्य वृत्तिगतेनापि श्रद्धाशब्देन नित्यसम्बन्धवशात्सम्बन्धं कृत्वा कृद्योगलक्षणा षठी समर्थनीया । केचित्तु `समरोत्सवे सः' इति विषयलक्षणसप्तम्यन्तत्वमङ्गीकृत्य पठन्ति । तत्रापि समासवृतिगतस्य श्रद्धालुशब्दस्य सम्बन्धो दुर्घट इत्यलम् । श्रद्धालु भक्तिशीलं चेतो यस्य । सङ्ग्रामश्रद्धाधायक इत्यर्थः । एवंभूतः कुमारो भक्त्या भक्तिपूर्वकं गिरिजागिरीशौ पितरावापृच्छ्य । मया गम्यत इत्युक्त्वेत्यर्थः । दिवमभि प्रतस्थे चचाल । `समवप्रे'- त्यात्मनेपदम् ।। १३.५ ।।


देवं महेशं गिरीजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणीकृत्य (१)च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः(२) ।। १३.६ ।।

{१.सुरेशमुख्याः सुराः.२.अभिजग्मुः.}
     अन्वयः-- ततो नाकनाथपूर्वाः समस्ताः त्रिदिवौकसोऽपि महेशं देवं गिरिजां देवीं च प्रणम्य अथ प्रदक्षिणीकृत्य तम् अनुययुः ।
     सीo- देवमिति । ततोऽनन्तरम् । नाकनाथपूर्वा इन्द्रप्रमुखाः समस्तास्त्रिदिवौकसो देवा अपि पूर्वोक्तकुमारप्रस्थानसमुच्चायकोऽपिशब्दः `अपि सम्भावनाप्रश्नाशङ्कागर्हासमुच्चये' इति विश्वः । महेशं देवं गिरीजां देवीं च प्रणम्य । अथ प्रदक्षिणौ परिक्रमणवशात्सव्यभागस्थौ कृत्वेत्यर्थः । `ऊर्यादिच्विडाचश्च' इति गतिसंज्ञकतया `कुगतिप्रादयः' इति समासत्वात् `समासेऽनञ्पूर्वे-' इति क्त्वो ल्यबादेशः । कुमारमनु पश्चाज्जग्मुरित्यर्थः ।। १३.६ ।।


अथ व्रजद्भिस्त्रिदशै (१)रशेषैः स्फुरत्प्रभा(२) भासुरमण्डलैस्तैः ।
(३)नभो बभासे (४)परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः ।। १३.७ ।।

{१.सरोषैः.२.मण्डलभासुरैः.३.ततः.४.हरितोऽवकाशः.}
     अन्वयः- अथ व्रजद्भिः स्फुरत्प्रभाभासुरमण्डलैः तैः अशेषैः त्रिदशैः विकीर्णं नभो दिवा अपि उग्रैः नक्षत्रगणैः विकीर्णम् इव परितो बभासे ।
     सीo- अथेति । अथानन्तरं व्रजद्भिर्गच्छद्भिरत एव स्फुरत्प्रसरत्प्रभायाः कान्त्याः सम्बन्धि भासुरं दीप्यमानं मण्डलं चक्रवालं येषाम् । `चक्रवालं तु मण्डलम्' इत्यमरः । तैरशेषेः संपूर्वणैस्त्रिदशैर्देवैर्विकीर्णं व्याप्तं नभोऽन्तरिक्षं दिवापि दिनेऽपि । उग्रैर्भासुरैर्नक्षत्रगणैर्विकीर्णमिव । बभासे भासुरत्वरुपसाधारणधर्मेण त्रिदशविकिरणविशिष्टे नभसि नक्षत्रविकिरणविशिष्टत्वोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । ननु `उग्रः शूद्रासुते क्षत्राद्रुदे पुंसि त्रिषूत्कटे' इति कोशोक्त्योत्कटवाचिनोऽप्युग्रशब्दस्य कथं भासुरवाचकतेति चेत्, सत्यम् । अत्रोत्कट्यम् केनचिद्वर्मेण विवक्षितं न तु तेजसैव । कान्त्या तापेन वा सौन्दर्यादिना वोत्कटोऽधिक इत्यर्थप्रणयनात्प्रकृते समाधेयम् ।। १३.७ ।।


रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः(५) ।
नक्षत्रताराग्रहमण्डलानामिव (६)त्रियामारमणो नभोन्ते(७) ।। १३.८ ।।

{५.अधिककान्तकान्तः.६.दयितः.७.अन्तः.}
     अन्वयः- नभोऽन्ते व्रजतां सुराणां मध्ये कुमारः नक्षत्रताराग्रहमण्डलानां मध्ये त्रियामारमण इव रराज ।
     सीo- रराजेति । नभोऽन्तेऽन्तरिक्षमध्ये व्रजतां तेषां सुराणां मध्ये कुमारः कार्त्तिकेयः । अग्रेऽपि नभोन्त इत्यस्य सम्बन्धः कार्यः । नक्षत्राण्यश्विन्यादीनि, ताराः सप्तविंशतिव्यतिरिक्ताः ग्रहाः सूर्यादयो नव तेषां मण्डलानां गोलानां मध्ये त्रियामारमणश्चन्द्र इव रराज । यतोऽधिककान्त्या कान्तो मनोहरः । नक्षत्राणां मध्ये यथा चन्द्र एव शोभते तथा देवानां मध्ये कुमार एव शुशुभ इत्यर्थः । पूर्णोपमालंकारः ।। १३.८ ।।


गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
उत्तीर्य नक्षत्रपथं (१)मुहूर्तात्प्रपेदिरे लोक(२) मथात्मनीनम् ।। १३.९ ।।

{१.मुहूर्तम्.२.अथो मुनीनाम्.}
     अन्वयः- अथ पुलोमपुत्रीदयितादयः ते गिरीशगौरीतनयेन सार्धं मुहूर्तात् नक्षत्रपथम् उत्तीर्य आत्मनीनं लोकं प्रपेदिरे ।
     सीo- गिरीशेति । अथ पुलोमपुत्री शची तस्या दयित इन्द्रः स आदिर्येषां तथाभूतास्ते देवा गिरीशगौरीतनयेन ननु गिरीशगौर्योरेकतरेम सिद्धिरिति चेत्, सत्यम् । उभयगतवीर्याश्रयीभूतत्वेन कुमारवीर्याधिक्यस्य द्योतनार्थमुभयोर्ग्रहणमिति समाधातव्यम् । सार्धं मुहूर्तात्क्षणमात्रेणैव नक्षत्रपथमाकाशमुत्तीर्योल्लङ्ध्यात्मनीनमात्मने हितम् । `तस्मै हितम्' इत्यधिकारस्थेन `आत्मन्विश्वजने-' त्यादिना खः । तथाभूतं लोकं स्वर्गं प्रपेदिरे प्रापुः । `लोकस्तु भुवने जने' इत्यमरः ।। १३.९ ।।


ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
सद्यः प्रवेष्टुं न विषेहिरे (३)तं क्षणं व्यलम्बन्त सुराः (४)समग्राः ।। १३.१० ।।

{३.तत्.४.समस्ताः.}
     अन्वयः- ते समग्राः सुरा महासुरत्रासवशंवदत्वात् चिरकालदृष्टं तं स्वर्गलोकं सद्यः प्रवेष्टुं न विषेहिरे, तत् व्यलम्बन्त !
     सीo- ते इति । समग्राः सुरा महासुरात्तारकाद्यस्त्रासो भयं तस्य वशंवदत्वादधीनत्वाद्धेतोः चिरकालेन बहुसमयेन दृष्टं तं स्वर्गलोकं सद्यः सहसा प्रवेष्टुं न विषेहिरे न शेकुः । किंतु क्षणं व्यलम्बन्त । कालं चिक्षिपुरित्यर्थः । अन्योऽपि समये स्वगृहेऽपि सद्यः प्रवेष्टुं न शक्नोति किंतु विलम्बते तद्वदिति भावः ।। १३.१० ।।


(१)पुरो भव त्वं, न पुरो भवामि, (२)नाहं पुरोगोऽस्मि, (३)पुरः सरस्त्वम् ।
इत्थं (४)सुरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः ।। १३.११ ।।

{१.पुरोडतत्तत्वम्.२.नव.३.पुरःसरत्वम्.४.द्विषा तेन कृते स्ववश्ये स्वर्गे,द्विषा तेन हता मिथस्ते स्वर्गे.}
     अन्वयः- तत्क्षणम् एव भीताः स्वर्गं प्रवेष्टुं त्वं पुरो भव, अहं पुरो न भवामि, अहं पुरोगो न अस्मि, त्वं पुरःसरः (भव), इत्थं कलहं वितेनुः ।
     सीo- पुर इति । तत्क्षणम् । `कालाध्वनोः-' इति द्वितीया । प्रवेशसमय इत्यर्थः । भीता अतस्तारकावस्थानशङ्क्या सभयाः सुराः स्वर्गं प्रवेष्टुम् `त्वं पुरोऽग्रे भव । अहं पुरो न भवामि, किं तु त्वमेव भव । अहं पुरोगो नास्मि न भवामि । त्वं पुरः सरो भव' इत्थमेवंभूतं कलहं विग्रहं वितेनुः । चक्रुरित्यर्थः । अस्मीत्यहमर्थकमव्ययम् । सर्वेषां त्रिधाभूततया न कोऽप्यन्तः प्रवेष्टुं शशाक । किंतु तत्रैव कलहायमानास्तस्थुरिति भावः ।। १३.११ ।।


(५)सुरालयालोकनकौतुकेन मुदा (६)शुचिस्मेरविलोचनास्ते ।
दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वस (७)कातरान्ताम् ।। १३.१२ ।।

{५.सुरत्वरा.६.सुविस्मरेविलोचनस्य,सुविस्मरेविलोचनान्तः.७.कामरास्ते,कामरान्ते.}
     अन्वयः- सुरालयालोकनकौतुकेन शुचिस्मेरबिलोचनाः ते द्विषत्साध्वसकातराऽन्तां दृष्टिं मुदा कुमारस्य मुखाऽरविन्दे दधुः ।
     सीo- सुरालयेति । सुरालयस्य स्वर्गस्य यदालोकनं तेन यत्कौतुकमानन्दस्तेन निमित्तेन शुचीनि शुद्धानि स्मेराणि समन्दहासानि च विलोचनानि येषां तथाभूतास्ते देवा द्विषत्साध्वसेन तारकशत्रुभयेन कातरान्तां भीतप्रान्ताम् । भयचिह्नतरलत्वादियुतामित्यर्थः । तथाभूतां दृष्टिं नेत्रं मुदा प्रीत्या । प्रसादेनेति यावत् । उपलक्षिते कुमारस्य मुखारविन्दे वदनकमले दधुः । दुर्धटप्रवेशोपायोपदेशापेक्षयेति भावः । कुमारो बालोऽपि सन् न भीत इति मुदेति विशेषणेन व्यज्यते ।। १३.१२ ।।


सहेलहास(१)च्छुरिताननेन्दुस्ततः कुमारः पुरतो (२)भविष्णुः ।
स तारकापात(३)मपेक्षमाणो रणप्रवीरो (४)हि सुरानवोचत् ।। १३.१३ ।।

{१.उश्चरित;उच्छुरित.२.निविष्टः.३.अवेक्षणः.४.अभि.}
     अन्वयः- ततो रणप्रवीरः तारकापातम् अपेक्षमाणः पुरतो भविष्णुः स कुमारः सहेलहासच्छुरिताननेन्दुः हि सुरान् अवोचत् ।
     सीo-- सहेलेति । ततो दृष्टिपातानन्तरं रणे प्रकृष्टं वीरोऽत एव तारकस्यापातं युद्धार्थमागमनमपेक्षते सोऽपेक्षमाणः । प्रतीच्छन्नित्यर्थः । अत एव पुरतोऽग्रतो भविष्णुः स कुमारः कार्त्तिकेयः सहेलः सक्रीडो यो हासस्तेन छुरिताननेन्दुर्मिश्रितमुखचन्द्रः सन् । किंचिद्विहस्येत्यर्थः । हि निश्चितम् । सुरानवोचज्जगाद ।। १३.१३ ।।


भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्गं भवन्तः प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो (५)वः खलु (६)दृष्टपूर्वः ।। १३.१४ ।।

{५.यः.६.कालदृष्टः.}
     अन्वयः-- `हे स्त्रिदिवौकसः !' अद्य भीत्या अलं (किन्तु) अमी भवन्तः सद्यः स्वर्गं प्रविशन्तु । सद्यः दृष्टपूर्वः वः शत्रुः महामुरः अत्र एव मे दृक्पथम् एतु ।
     सीo-- भीत्येति । भो त्रिदिवौकसो देवाः, अद्य संप्रति भीत्या भयेनालम् । न भेतव्यमित्यर्थः । किं त्वमी भवन्त सद्यः सहसैव स्वर्गं प्रविशन्तु । स्वर्गप्रवेशे भयहेतुको विलम्बो न विधेय इति तात्पर्यम् । सद्यः सपदि । तत्क्षणमित्यर्थः । अथ रोषादाह-पूर्वं दृष्टो दृष्टपूर्वः । `राजदन्तादिषु' इति प्राक्प्रयोगार्हस्य पूर्वशब्दस्य परः प्रयोगः । संभवानुरोधाद्भवद्भिरिति लभ्यते । ननु व इत्यनेनैव सिद्धिरिति चेन्न । `नलोके-'ति षष्ठीनिषेधात् । तथा वो युष्माकं शत्रुर्द्वेष्टा महासुरस्तारकोऽत्रैव स्वर्गं एव मे मम दृक्पथं दृग्गोचरत्वमेतु प्राप्नोतु । दृक्पथमिति । `ऋक्पूरब्धूः-' इति समासान्तोऽप्रत्ययः ।। १३.१४ ।।


(१)स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं (२)वल्गति यस्य चण्डम् ।
इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ।। १३.१५ ।।

{१.स्वर्गैकलक्ष्मी.२.यस्य बलातिचण्डम्.}
     अन्वयः-- स्वर्लोकलक्ष्मीकचकर्षणाय चण्डं यस्य दोर्मण्डलं वल्गति । तच्छोणितपानकेलिम् एते मम शराः अह्नाय इह एव कुर्वन्तु ।
     सीo- स्वर्लोकेति । स्वर्लोकस्य लक्ष्म्याः कचाः केशास्तेषां कर्षणाय । लक्ष्मीकेशानां हरणं कर्तुमित्यर्थः । `तुमर्थात्' इति चतुर्थी । चण्डं प्रचण्डं यस्य तारकस्य दोर्मण्डलं वल्गति चलति । तस्य तारकस्य यच्छोणितं रुधिरं तस्य पानं तदेव केलिः क्रीडा तां कर्मभूतामेते मम शरा अह्नाय झटिति । `द्राग्झटित्यञ्जसाह्नाय' इत्यमरः । इहैव कुर्वन्तु । तं विनाशयन्त्वित्यर्थः ।। १३.१५ ।।


शक्तिर्ममासावहतप्रचारा प्रभावसारा (३)सुमहःप्रसारा ।
(४)स्वर्लोकलक्ष्म्या विपदावहारेः (५)शिरो हरन्ती दिशन्तान्मुदं(६) वः ।। १३.१६ ।।

{३.सुमहाप्रसारा.४.लक्ष्मीः.५.सहारिशिरः,सहारेः शिरः.६.दिशतां मुखम्.}
     अन्वयः- अहतप्रचारा प्रभावसारा सुमहःप्रसारा स्वर्लोकलक्ष्म्या विपदावहा (तथा) अरेः शिरो हरन्ती असौ मम शक्तिः वो मुदं दिशतात् ।
     सीo-- शक्तिरिति । अहतप्रचाराविध्नितगतिः । तथा प्रभावः सामर्थ्यं स एव सारो यस्याः । सुतरां महसस्तेजसः प्रसारो मण्डलं यस्याः । अति तेजस्विनीत्यर्थः । स्वर्लोकलक्ष्म्या या विपदा तस्या अवहा । सुखदेत्यर्थः । तथारेः प्रतिकूलस्य शिरः शिर्षं हरन्ती । असौ मम शक्तिरायुधं वो युष्माकं मुदं प्रीतिं दिशताद्दत्तात् । आशिषि लोट् ।। १३.१६ ।।


इत्यन्धकारातिसुतस्य दैत्यवधाय (७)युद्धोत्सुकमानसस्य ।
सर्वं (८)शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं (९)वचसा ननन्द ।। १३.१७ ।।

{७.बद्धोत्सवमानसस्य.८.सविस्मेर.९.ननन्द.}
     अन्वयः- दैत्यवधाय यद्धोत्सुकमानसस्य अन्धकाऽरातिसुतस्य इति वचसा सर्वं गीर्वाणवृन्दं शुचिस्मेरमुखाऽरविन्दं (सत्) ननन्द ।
     सीo- इतीति । देत्यवधाय दैत्यवधं कर्तुं युद्ध उत्सुकमानसस्योत्कण्ठितचेतसोऽन्धकारातिसुतस्य शिवपुत्रस्य कुमारस्य सम्बन्धिना । इति पूर्वोक्तेन वचसा सर्वं गीर्वाणवृन्दं देवसमूहः शुचि शुद्धं स्मेरं समन्दहासं मुखारबिन्दं मुखकमलं यस्य तथाभूतं सन् ननन्द जहर्ष ।। १३.१७ ।।


(१)सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्ग(२)संफुल्लसहस्त्रनेत्रः ।
तस्योत्तरीयेण निजाम्बरेण (३)निरुञ्छनचारु चकार शक्रः ।। १३.१८ ।।

{१.सान्द्रप्रमोदः.२.संलग्न.३.निर्मञ्छनम्,निरूहणम्,निरुञ्छनम्.}
     अन्वयः- सान्द्रप्रमोदात् पुलकोपगूढः सर्वाऽङ्गसंफुल्लसहस्रनेत्रः शक्रः तस्य उत्तरीयेण निजाऽम्बरेण निरुञ्छनं चारु चकार ।
     सीo- सान्द्रेति । सान्द्रप्रमोदाद्धनानन्दाद्धेतोः पुलकै रोमाञ्चैरुपगूढ आश्लिष्टः । `पुलकः कृमिभेदेऽश्मभेदे च मणिदोषके । रोमाञ्चे हरिताले गजात्तपिण्डे च गन्धके । इति मेदिनी । तथा सर्वेष्वङ्गेषु संफुल्लानि सहस्रनेत्राणि यस्य । यतः । सहस्राक्षस्तथाभूतः शक्र इन्द्रस्तस्य कुमारस्योत्तरीयेण संव्यानेन । संव्यानमुत्तरीयं स्यात्' इत्यमरः । तथा निजाम्बरेण निरुञ्छनं परिवर्तनं चारु चकार । भ्रातृभावायान्योन्यवस्त्रग्रहणं चक्रतुरित्यर्थः । तदुक्तं मेदिन्याम्- `निरुञ्छनं बन्धुतायै वाससः परिवर्तनम्' इति । लोकेऽपि भ्रातृतायै परस्योष्णिग्बन्धनव्यवहारस्तद्वदत्रापीति अनुशासने सामान्यतो वासोग्रहणेन प्रकृत उत्तरीयग्रहणं सङ्गच्छते । लोकव्यवहारस्तु संप्रदायसिद्धः । उष्णिहि विशेषश्रैष्ठ्योपलम्भ एव व्यवहारमूलमिति मन्तव्यम् ।। १३.१८ ।।


घनप्रमोदाश्रुत(४)रङ्गिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः(५) ।
(६)अथो अचुम्बद्विधिरादिवृद्धः षडाननं षट्सु (७)शिरःसु (८)चित्रम् ।। १३.१९ ।।

{४.परिप्लवाक्षैः.५.प्रमोदः.६.क्रमाच्चुचुम्बे.७.मुखेषु.८.हर्षात्.}
     अन्वयः- अथो आदिवृद्धः विधिः घनप्रमोदाऽश्रुतरङ्गिताक्षैः प्रचुरप्रसादैः चतुर्भिः मुखैः षट्सु शिरःसु षडाननं अचुम्बत् चित्रम् ।
     सीo- घनेति । अथो अनन्तरमाद्ययोर्हरिहरयोर्वृद्धो महान्विधिर्ब्रह्मा । घनः सान्द्रः । `घनं स्यात्कांस्यतालादिवाद्यमध्यमवृत्ययोः । ना मुस्तादौ घनाद्येषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे च दृष्टार्थ' इति मेदिनी । यः प्रमोदो हर्षस्तेन निमित्तेन यदश्रु नेत्रपयस्तेन तरङ्गितानि संजाततरङ्गाणि तारकादिभ्य इतच् । अक्षीणि नेत्राणि येषां तैः । हर्षवशादुद्गताश्रुभिरित्यर्थः । तथा प्रचुरप्रसादैरधिकप्रपन्नतायुक्तैश्चतुर्भिर्मुखैः षट्षु शिरःसु षडाननं कुमारम् अचुम्बदस्पृशत् । इति चित्रं विस्मयः । चतुर्भिर्मुखैः षण्णां मुखानां यौगपद्येन स्पर्शासम्भवात् । परिहारस्तु प्रत्येकं षट्सु चतुर्भिश्चुम्बनेन सन्धेयः ।। १३.१९ ।।


(१)तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसङ्घाः ।। १३.२० ।।

{१.सुसाधुः.}
     अन्वयः- गन्धर्वविधाघरसिद्धसङ्घाः तं त्रिपुराऽसुराऽरेः कुमारं मुदा `साधु साधु' इति अभितः प्रशस्य `हे वीर ! (त्वम्) जय' इति वाचा आनन्दयन् ।
     सीo- तमिति । गन्धर्वा देवगायकाः, विद्याधराः, सिद्धाश्च देवविशेषाः, एषां सङ्घाः समुदायाः कर्तारः तं त्रिपुरासुरस्यारेः शिवस्य कुमारं पुत्रं मुदा प्रीत्या निमित्तेन साधुसाध्वित्यभितः संमुखत्वेन प्रशस्य स्तुत्वा `हे वीर, त्वं जय शत्रोः सकाशाज्जयं प्राप्नुहि' इत्येवंभूतया वाचानन्दयन्नानन्दितमकुर्वन् ।। १३.२० ।।


दिव्यर्षयः (२)शत्रुविजेष्यमाणं (३)तमभ्यनन्दन्किल नारदाद्याः ।
(४)निरुञ्छनं (५)चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ।। १३.२१ ।।

{२.तस्य वचो वरार्थम्.३.समभ्यनन्दन्,तदध्यनन्दन्.४.निर्मञ्छनम्,निमञ्छनम्.५.नववल्कः.}
     अन्वयः-- नारदाद्या दिव्यर्षयः शत्रुविजेष्यमाणं तम् अभ्यनन्दन्, अथ चामीकरीयैः उत्तरीयैः निजवल्कलैश्च निरुञ्छनं चक्रुः ।
     सीo- दिव्यर्षय इति । नारदाद्या नारदप्रमुखा दिव्या दिवि भवा ऋषयः । `द्युप्रागपागुदक्-' इति यत् । शत्रुं तांरकं विजेष्यमाणं जेष्यन्तं तं कुमारमभ्यनन्दंस्तुष्टुवुः किल । अथानन्तरं चामीकरीयैः सौवर्णेरुत्तरोयैर्वस्त्रैः । तथा निजवल्कलैश्च निरुञ्छनं बन्धुतायै वासः परिवर्तनं चक्रुः निरुञ्छनं पूर्वमेव निर्णीतम् ।। १३.२१ ।।


ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः(१) ।
उत्सेहिरे स्वर्गमनन्तशक्ते(२) र्गन्तुं वनं यूथपतेरिवेभाः ।। १३.२२ ।।

{१.उत्यजन्तः.२.अनन्तशक्यै.}
     अन्वयः-- ततः अनन्तशक्तेः शक्तिधरस्य तस्य अवष्टम्भतः साध्वसम् उत्सृजन्तः सुराः अनन्तशक्तेः यूथपतेः (अवष्टम्भतः) इभा वनम् इव स्वर्गं गन्तुम् उत्सेहिरे ।
     सीo- तत इति । ततोऽनन्तरं शक्तिरायुधविशेषस्तां धरतीति तथोक्तस्य तस्य कुमारस्य । `शक्तिरस्त्रान्तरे शौर्ये उत्साहादौ बले स्त्रियाम्' इति मेदिनी । अवष्टम्भत आश्रयतः । `अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि' इति मेदिनी । अत्र स्तम्भशब्देनाश्रयो लक्षितः । स्तम्भस्याश्रयमिति तत्त्वात् । साध्वसं भयम् । `भीतिर्भीः साध्वसं भयम्' इत्यमरः । उत्सृजन्तः सुरा देवाः । अनन्तशक्तेरपारशौर्यस्य यूथपतेर्गजराजस्यावष्टम्भत इभा गजा वनमिव । स्वर्गं गन्तुं प्रवेष्टुमुत्सेहिर उत्साहं चक्रुः । अनन्तशक्तेरिति विशेषणं कुमारेऽपि योजनीयम् ।। १३.२२ ।।


(३)अथाभिपृष्ठं गिरिजासुतस्य पुरंदरारातिवधं(४) चिकीर्षोः ।
सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात् ।। १३.२३ ।।

{३.अभिपृष्ठे.४.जयम्.}
     अन्वयः- अथ सुराः पुरन्दराऽरातिवधं चिकीर्षोः गिरिजासुतस्य अभिपृष्ठं त्रिपुरं दिधक्षोः स्मराऽरेः (अभिपृष्ठम्) प्रमथा इव समन्तात् निरीयुः ।
     सीo- अथेति । अथोत्साहानान्तरं सुराः पुरंदरस्योन्द्रस्यारातेस्तारकस्य वधं मृत्युं चिकीर्षोः कर्तुमिच्छोर्गिरिजासुतस्य कुमारस्याभिपृष्ठं पृष्ठसंमुखं त्रिपुरं दैत्यं दिधक्षोर्दग्धुमिच्छोः `दह भस्मकरणे' इति धातोरिच्छार्थे सनि `सन्यङोः' इति द्वित्वे `सनाशंसभिक्ष उः' इत्युप्रत्ययः । स्मरारेः शिवस्याभिपृष्ठं प्रमथा इव स्थिताः समन्तान्निरीयुर्निर्जग्मुः । अन्तर्विविशुरित्यर्थः ।। १३.२३ ।।


(१)सुराङ्गनानां जलकेलिभाजां प्रक्षालितैः संततमङ्गरागैः ।
प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात् ।। १३.२४ ।।

{१.सुराङ्गणानाम्.}
     अन्वयः- स्वर्गौकसः पुरस्तात् जलकेलिभाजां सुराऽङ्गनानां संततं प्रक्षालितैः अङ्गरागैः पिञ्जरवारिपूरां स्वर्गधुनीं प्रपेदिरे ।
     सीo-- सुराङ्गनानामिति । स्वर्गैकसो देवाः पुरस्तादग्रे जलकेलिभाजां जलक्रीडासक्तानां सुराङ्गनानामप्सरसां सन्ततं निरन्तरं प्रक्षलितैरङ्गरागैः कुङ्कुमादिरचितैः पिञ्जरवारिपूरां पीतजलप्रवाहां स्वर्गधुनीं मन्दाकिनीं प्रपेदिरे प्रापुः । सुराङ्गणानामिति `कुमति च' इति णत्वम् ।। १३.२४ ।।


दिग्दन्तिनां वारिविहारभाजां(२) कराहतै(३)र्भीमतरैस्तरङ्गैः ।
आप्लावयन्तीं मुहुरालबालश्रेणिं(४) तरूणां (५)निजतीरजानाम् ।। १३.२५ ।।

{२.विहारलीलाम्.३.भीमवराहयूथैः.४.श्रेणीः श्रेणीम्.५.गुरुतीरजानाम्.}
     अन्वयः- (स्वर्गौकसः) वारिविहारभाजां दिग्दन्तिकां कराहतैः भीमतरैः तरङ्गैः निजतीरभाजां तरूणाम् आलवालश्रेणीं मुहुः आप्लावयन्तीम् (स्वर्गधुनींप्रपेदिरे) ।
     सीo- दिग्दन्तीनामिति । किंभूतां स्वर्गधुनीम् । वारिणि विहारभाजां क्रीडतां दिग्दन्तिनामैरावतादीनां करैः शुण्डादण्डैः । `करो वर्षोपले पाणौ रश्मौ प्रत्ययशुण्डयोः' इति मेदिनी । आहतैस्ताडितैरत एव भीमतरैरतिशयभयानकैस्तरङ्गैः कल्लोलैः कृत्वा निजतीरजानामात्मीयतटोत्पन्नानां तरूणां वृक्षाणां सम्बन्धिनीमालवालानां मूलस्थलीनां श्रेणिम् । `श्रेणिः स्त्रीपुंसयोः पङ्क्तौ समाने शिल्पिसंहतौ' । इति मेदिनी । मुहुर्वारंवारम् । `मुहुः पुनः पुनः शश्वत्' इत्यमरः । आप्लावयन्तीं सेचयन्तीम् ।। १३.२५ ।।


(१)लीलारसाभिः सुरकन्यकाभि(२) र्हिरण्मयीभिः सिकताभिरुच्चैः ।
माणिक्यगर्भाभि(३)रुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः ।। १३.२६ ।।

{१.लालालसामिः.२.हिरण्यहसाभिरुतीभिः,हिरण्यजाभिः,सिकताभिः.३.उपोहिताभिः.}
     अन्वयः- (स्वर्गौकसः) लीलारसाभिः सुरकन्यकाभिः हिरण्मयोभिः सिकतार्भिः माणिक्यगर्भाभिः उपाहिताभिः उच्चैः वरवेदिकाभिः प्रकीर्णतीराम् (स्वर्गधुनीं प्रपेदिरे) ।
     सीo- लीलेति । पुनः किंभूताम् । लीलायां क्रीडायां रसः प्रीतिर्यासां ताभिः सुराणां कन्यकाभिः पुत्रीभिः । तथा हिरण्मयीभिः सौवर्णीभिः सिकताभिवार्लुकाभिः तथा माणिक्यगर्भाभिर्मणिखचितमध्याभिः तथोपाहिताभिर्निर्मिताभिः न त्वकृत्रिमाभिः । तथोच्चैर्महतीभिर्वराः श्रेयस्यो या वेदिकास्ताभिश्च प्रकीर्णतीरां व्याप्तसैकताम् ।। १३.२६ ।।


सौरभ्यलुब्धभ्रमरोप(४)गीतैर्हिरण्यहंसावलिकेलिलोलैः ।
चामीकरीयैः कमलैर्विनिद्रैश्च्युतैः परागैः (५)परिपिङ्गतोयाम् ।। १३.२७ ।।

{४.अवकीर्णेः.५.परिपिञ्जतोयाम्.}
     अन्वयः- (स्वर्गौकसः) सौरभ्यलुब्धभ्रमरोपगीतैः हिरण्यहंसावलिकेलिलोलैः चामीकरीयैः विनिद्रैः कमलैः च्युतैः परागैः परिपिङ्गतोयाम् (स्वर्गधुनीं प्रपेदिरे) ।
     सीo- सौरभ्येति । पुनः किंभूताम् । सौरभ्ये सौगन्ध्ये लुब्धा लम्पटा ये भ्रमरा द्विरेफास्तैरुपगीतैः मुखरितैरित्यर्थः । हिरण्यस्य सुवर्णस्य ये हंसा मरालास्तेषामावलयः पङ्क्तयस्तासां केलिः क्रीडा तया निमित्तेन लोलैश्चञ्चलैश्चामीकरीयैः सौवर्णैर्विनिद्रैर्विदलितैः कमलैरुपलक्षिताम् । अत एव च्युतैः कमलेभ्यो भ्रष्टैः परागैः सुमनोरजोभिः । `परागः सुमनोरजः' इत्यमरः । परिपिङ्गं परितः पीतं तोयं जलं यस्यास्तथोक्ताम् ।। १३.२७ ।।


कुतूहलात्प्रष्टुमुपागताभि (१)स्तीरस्थिताभिः (२)सुरसुन्दरीभिः ।
(३)अभ्यूर्मिराजिप्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम् ।। १३.२८ ।।

{१.तीरे स्थिताभिः.२.पुरकन्यकाभिः.३.अभ्यूर्मिराजी,अत्यूर्मिराजि.}
     अन्वयः- (स्वर्गौकसः) द्रष्टुं कुतूहलात् उपागताभिः तीरस्थितभिः (अत एव) अभ्यूर्मिराजिप्रतिबिम्बिताभिः सुरसुन्दरीभिः व्रजतां जनानां मुदं दिशन्तीम् (स्वर्गधुनीं प्रपेदिरे) ।
     सीo-- कुतूहलादिति । द्रष्टुं कुतूहलात्कौतुकात् । आनन्दादिति यवत् । उपागताभिरागताभिः अत एव तीरस्थिताभिः । अत एवाभ्यूर्मिराजि । ऊर्मिराजावित्यभ्यूर्मिराजि तरङ्गमध्ये प्रतिबिम्बिताभिः सुरसुन्दरीभिर्देवाङ्गनाभिर्निमित्तेन व्रजतां गच्छतामपि जनानां मुदं दिशन्तीं ददतीम् । एकासामप्यप्सरसां प्रतिबिम्बवशादनेकधादृश्यमानत्वाद्युक्ता प्रीतिजनकतेति भावः ।। १३.२८ ।।


ननन्द (४)सद्यश्चिरकालदृष्टां विलोक्य (५)शक्रः सुरदीर्घिकां ताम् ।
(६)अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय (७)ततः पुरोगः ।। १२.२९ ।।

{४.शक्रः.५.सद्यः.६.आशंसयन्सादरमद्रिपुत्रीमहेशपुत्राय पुरः पुरोगाः.७.पुरः.}
     अन्वयः- शक्रः चिरकालदृष्टां तां सुरदीर्घिकां विलोक्य सद्यो ननन्द, ततः अद्रिपुत्रीमहेशपुत्राय सादरं पुरोगः (सन्) अदर्शयत् ।
     सीo- ननन्देति । शक्र इन्द्रश्चिरकालेन बहुकालेन दृष्टां तां सुरदीर्घिकां मन्दाकिनीं विलोक्य सद्यो झटिति ननन्द जहर्ष । अतिरमणीयं वस्तु चिरकालदृष्टं सद्बहुप्रीतिजनकं भवतीति भावः । ततोऽनन्तरमद्रिपुत्रीमहेशयोः पुत्राय कुमाराय सादरं यथा तथा पुरोगः सन्नदर्शयत् ।। १३.२९ ।।


स (१)कार्त्तिकेयः पुरतः (२)परीतः सुरै समस्तैः सुरनिम्नगां ताम् ।
अपूर्वदृष्टा(३)मवलोकमानः (४)सविस्मयः स्मेरविलोचनोऽभूत् ।। १३.३० ।।

{१.स कार्त्तिकेयः पुरतः परीतो वियच्चरैर्लोलतरैस्तरंगैः.२.पुरोजः.३.इव लोकमानः.४.सविस्मय.}
     अन्वयः- समस्तैः सुरैः परीतः कार्त्तिकेयः अदृष्टपूर्वां तां सुरनिम्नगां पुरतः अवलोकमानः (सन्) सविस्मयः स्मेरविलोचनः अभूत् ।
     सीo- स इति । समस्तैः सुरैः परीतो व्याप्तः स कार्त्तिकेयः कुमारः । अपूर्वदृष्टाम् । अधुनैव दृष्टामित्यर्थः । तां सुरनिम्नगां पुरतोऽग्रेऽवलोकमानः सन्सविस्मयः साश्चर्यः स्मेरविलोचनः समन्दहासनेत्रचाभूत् ।। १३.३० ।।


उपेत्य तां (५)तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः ।
गीर्वाणवृन्दैः (६)प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना (७)मुदितो ववन्दे ।। १३.३१ ।।

{५.रत्नकिरीट.६.प्रणताम्.७.नमितः,प्रणतः.}
     अन्वयः-- भक्तिपरः कुमारः गीर्वाणवृन्दैः प्रणुतां तत्र उपेत्य किरीटकोटिन्यस्ताऽञ्जलिः (सन्) प्रणुत्य मुदुतः नम्रण मूर्ध्ना ववन्दे ।
     सीo-- उपेत्येति । भक्तिपरो भक्तिप्रवणः कुमारः कार्त्तिकेयो गीर्वाणवृन्दैर्देवसमूहैः प्रणुतां प्रकर्षेण स्तुताम् । `णु स्तुतौ' इति धातोः कर्मणि क्तः । तां मन्दाकिनीं तत्रोपेत्य । तत्समीपं गत्वेत्यर्थः । किरीटकोटौ मुकुटाग्रे । `कोटिः स्त्री धनुषोऽग्रेऽस्त्रौ' इति मेदिनी । अत्राग्रशब्दस्य धनुःशब्दोपलक्षिततया सर्वेषामग्रवाचकत्वं बोध्यम् । न्यस्तोऽञ्जलिर्येन तथाभूतः सन् । प्रणुत्येडयित्वा मुदितो मुमुदे । इदं कृदन्तरुपं क्रियापदम् । तथा नम्रेण मूर्ध्ना शिरसा ववन्दे नमश्चक्रे ।। १३.३१ ।।


(१)प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
कपोलपालिश्रमवारिहारी भेजे गुहं (२)तं सरितः समीरः ।। १३.३२ ।।

{१.प्रपाटित.२.सरितः.}
     अन्वयः- प्रणर्तितस्मेरसरोजराजिः परीरम्भमिलन्महोर्मिः कपोलपालिश्रमवारिहारी सरितः समीरः तं पुरः गुहं भेजे ।
     सीo- प्रणर्तितेति । प्रणर्तिता कम्पिता स्मेरसरोजानां विकसितकमलानां राजिर्माला येन । अनेन सौगन्ध्योक्तिः । तथा परीरम्भेणाश्लेषेण मिलन्ति आत्मनि मिश्रीभवन्तो महोर्मयो यस्य । अनेन शैत्योक्तिः । कपोलपाल्याः । कपोलरूपलताग्रस्येत्यर्थः । `पालिः कर्णे लताग्रेऽश्रौ' इति विश्वः । श्रमेण यद्वारि स्वेदस्तस्य हारी । अनेन मान्द्योक्तिः । अन्यथा श्रमहृतेरसम्भवः । एवंभूतः सरितो मन्दाकिन्याः समीरः पवनः पुरोऽग्रे स्थितं तं गुहं स्वामिकार्त्तिकेयम् । यद्वा । पुरोऽग्रे भेजे सिषेवे ।। १३.३२ ।।


ततो (३)व्रजन्नन्दननामधेयं लीलावनं (४)जम्भजितः पुरस्तात् ।
विभिन्नभग्नोद्(५)धृतशालसङ्घं प्रेक्षांचकार स्मरशत्रुसूनुः ।। १३.३३ ।।

{३.जपात्.४.वज्रभूतः.५.उन्नतशाखि.}
     अन्वयः- ततो व्रजन् स्मरशत्रुसूनुः पुरस्तात् विभिन्नभानोद्धृतशालसङ्घं नन्दननामधेयं जम्भजितो लीलावनं प्रेक्षाञ्चकार ।
     सीo- तत इति । ततो गङ्गावलोकनानन्तरं व्रजंश्चलन्स्मरशत्रुसूनुः कुमारः पुरस्तादग्रे विभिन्नो विदारितः । बाणैः शतरन्ध्रीकृत इति तात्पर्यार्थः । तथा भग्न आमर्दितो मूलं विनोपर्येव शतशकलीकृत उद्धृत उत्पाटितश्च शालसङ्घो यस्य तत् । `शालो हाले मत्स्यभेदे शालौकस्तत्प्रभेदयोः । शालद्रुस्कन्धशाखायां शालेति परिकीर्तिता ।।' इति मेदिनी । नन्दननामधेयं नन्दनसंज्ञकम् । `नन्दनं वनम् ।' इत्यमरः जम्भजित इन्द्रस्य लीलावनमुपवनं प्रेक्षांचकार ददर्श । इजादेश्चेत्याम्'।। १३.३३ ।।


सुरद्विषोपप्लुतमेवमे(१)तद्वनं बलस्य द्विषतो गतश्रि ।
इत्थं विचिन्त्यारुणलोचनोऽभूद् भ्रुभङ्गदुष्प्रेक्ष्यमुखः(२) (३)स कोपात् ।। १३.३४ ।।

{१.एव.२.दुष्प्रेक्षमुखः.३.च.}
     अन्वयः- स एतत् बलस्य द्विषतो वनं सुरद्विषा एवम् उपप्लुतम् (अत एव) गतश्रि इत्यं विचित्त्य कोपात् अरुणलोचनः भ्रूभङ्गदुष्प्रेक्ष्यमुखः अभूत् ।
     सीo- सुरद्विषेति । स कुमारः । एतत्पुरोवर्ति बलस्य द्विषत इन्द्रस्य । अत्र `नलोके-' त्यादिना षष्ठीनिषेधेऽपि `द्विषः शतुर्वा' इति विकल्पात्षष्ठी । वनमुपवनं सुरद्विषा तारकेणैव न केनापि । यथा तारकेणोपद्रुतं तथा न केनापीत्यवधारणार्थमेवकारेण ध्वन्यते । `एवः प्रकारोपमयोरङ्गीकाराऽवधारणे' । इति विश्वः । अभितः सर्वतः । उपप्लुतमुपद्रुतमत एव गतिश्रि नष्टशोभमित्थं विचिन्त्य कोपादरुणे लोचने यस्य तथा भ्रूभङ्गेन दुष्प्रेक्ष्यं दुर्दशं मुखं यस्य तथोक्तश्चाभूत, महतां सति स्वस्मिन्परदुःखं महादुःखावहं भवतीति भावः ।। १३.३४ ।।


निर्लूनलीलोपवनामपश्यद्(४)दुःसञ्चरीभूतविमानमार्गाम् ।
विध्वस्त(५)सौधप्रचयां (६)कुमारो विश्वैकसाराममरावतीं सः ।। १३.३५ ।।

{४.असंचरी.५.सौख्यप्रचयाम्.६.प्रमृष्टविश्वौकसाराम्,प्रमृष्टवस्त्वेकसाराम्.}
     अन्वयः- स कुमारः निर्लूनलीलोपवनां दुःसञ्चरीभूतविमानमार्गां विध्वस्तसौधप्रचयां विश्वैकसाराम् अमरावतीम् अपश्यत् ।
     सीo- निर्लूनेति । स कुमारः कार्त्तिकेयः निर्लूनानि कर्तितानि लीलायाः क्रीडाया उपवनानि यस्याम् । तथा दुःखेन संचरः संवारो येषु तथाभूता विमानमार्गा विमानसंचारपथा यस्याम् । तथा विध्वस्ताः खण्डिताः । स्फोटिता इति यावत् । सौधप्रचया राजसदनसमूहा यस्याम् । `सौधोऽस्त्री राजसदनम्' इत्यमरः । तथा विश्वस्मिन्नेकैव सारां तत्त्वभूतां ताममरावतीमिन्द्रपुरीमपश्यत् । `नगरी त्वमरावती' इत्यमरः ।।१३.३५ ।।


(१)गतश्रियं (२)वैरिवराभिभूतां दशां सुदीनामभितो दधानाम् ।
नारीमवीरामिव तामवेक्ष्य (३)स वाढमन्तः करुणापरोऽभूत् ।। १३.३६ ।।

{१.गर्भश्रियम्,२.वैरिपराभिभूताम्.३.सगाढम्,सवाष्पम्.}
     अन्वयः- स वैरिवराऽभिभूतां गतश्रियं सुदीनां दशाम् अभितो दधानाम् अवीरा नारीम् इव ताम् अवेक्ष्य बाढम् अन्तःकरुणापरः अभूत् ।
     सीo- गतश्रियमिति । स कुमारः वैरिवरेण तारकेणाभिभूतां पूर्वोक्तविधिना पराभूताम् । पराभवोऽत्र विध्वंसनक्रियानुकूलो व्यापारो ग्राह्यः । अत एव गतश्रितं भ्रष्टशोभाम् । अत एव सुतरां दीनानां कृपणाम् । अनुकम्प्यामिति यावत् । दशामवस्थामभितो दधानाम् । अथ एवावीरां नपुंसकभर्तृकां नारीमिव स्थितां ताममरावतीमवेक्ष्यान्तर्मनसि बाढं बहु यथातथा करुणायां पर आसक्तोऽभूत् ।। १३.३६ ।।


दुश्चेष्टिते देवरिपौ सरोषस्तस्या(४)विषण्णः समराय चोत्कः ।
तथाविधां तां (५)स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ।। १३.३७ ।।

{४.तस्यां विषष्णः.५.च.}
     अन्वयः-- दुश्चेष्टिते देवरिपौ सरोषः (तथा) तस्य समराय उत्कः अविषण्णः स तथाविधां तां सुराऽधीश्वरराजधानीं पश्यन् (सन्) सुरैः (सह) विवेश ।
     सीo- दुश्चेष्टित इति । दुश्चेष्टिते दुष्कर्मणि देवरिपौ तारके विषये सरोषः । सक्रोधः । तथा तस्य तत्कर्तृकाय समराय समरं युद्धं कर्तुमुत्कश्च तथाविषण्णोऽनलसः स कुमारः तथाविधां पूर्वोक्तप्रकारां तां सुराधीश्वरस्येन्द्रस्य राजधानीं पुरीं पश्यन्सन् विवेश । तदन्तरिति शेषः ।। १३.३७ ।।


(६)दैतेयदन्त्यावलिदन्तघातैः (७)क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
महाहिनिर्मोकपिनद्धजालाः (८)स वीक्ष्य तस्यां विषसाद सद्यः ।। १३.३८ ।।

{६.दैत्येन्द्रदन्तावलः,दैतेयदन्तावल.७.क्षुण्णान्तर.८.संवीक्ष्य.}
     अन्वयः-- दैतेयदन्त्यावलिदन्तघातैः क्षुण्णाऽन्तराः महाहिनिर्मोकिपिनद्धजालाः स्फाटिकहर्म्यपङ्क्ती वीक्ष्य स तस्यां विषसाद ।
     सीo- दैतेयेति । दैतेयानां दैत्यानां दन्त्याबलिर्गजावलिस्तस्यास्तत्कर्तृका ये दन्तघाता रदनताडितानि तैः क्षुण्णान्तराः क्षोदितमध्या अत एव महाहीनां महासर्पाणां निर्मोकाः कञ्चुकाः । `समौ कञ्चुकनिर्मोकौ' इत्यमरः । तैः पिनद्धानि जालानि सौधजालानि यासु ताः स्फाटिकहर्म्यपङ्क्तीः स्फटिकनिर्मितसौधनिचयान्वीक्ष्य स सद्यस्तस्यां विषसाद । खिद्यति स्मेत्यर्थः `सद्यः सपदि तत्क्षणे' इत्यमरः ।। १३.३८ ।।


अथ युग्मेनाह-

उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानाम् ।

हिरण्यहंसव्रजवर्जितानां (१)विदीर्णवैढूर्यमहाशिलानाम् ।। १३.३९ ।।
आविर्भवद्वालतृणाञ्चितानां(२) तदीयलीलागृहदीर्घिकाणाम् ।

(३)स दुर्दशां वीक्ष्य (४)विरोधिजातां विषादवैलक्ष्यभरं बभार ।। १३.४० ।।

{१.तदीय.२.तृणावृतानाम्.३.सुदुर्दशाम्.४.विरोधिजां ताम्.}
अथ युग्मेनाह-
     अन्वयः- स उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानां हिरण्यहंसव्रजवर्जितानां विदीर्णवैदूर्यमहाशिलानाम् ।। १३.३९ ।। आविर्भवद्वालतृराणाऽञ्चितानां तदीयलीलागृहदीर्घिकाणां विरोधिजातां दुर्दशां वीक्ष्य विषादवैलक्ष्यभरं बभार ।
     सीo- उत्कीर्णेति । आविर्भवदिति च । स कुमारः । उत्कीर्णान्युत्खनितानि चामीकरस्य सुवर्णस्य पङ्कजानि कमलानि यासाम् । उत्खनितसुवर्णकमलानामित्यर्थः । तथा दिग्दन्तिनामैरावतादीनां दानाः खण्डनाः तज्जेतारस्तारकगजाः । कर्तरि ल्युट् । तेषां द्रवो मदजलं तेन दूषितानां म्लानीकृतानाम् । तारककुम्भीन्द्रमदकलुषीकृतजलानामित्यर्थः । हिरण्यप्रचुरा ये हंसास्तेषां व्रजेन वर्जितानां रहितानाम् । दैत्योपद्रवादिति भावः । तथा विदीर्णाः स्फोटिता वैढूर्याणां रत्नविशेषाणां महत्यः शिला यासाम् । तथाविर्भवन्त्युदयमानानि कानि बालतृणानि शष्पाणि तैरञ्चितानां व्याप्तानाम् । तदीया ऐन्द्र्यो या लीलार्थं गृहदीर्घिका गृहवापिकास्तासां सम्बन्धिनीम् । विरोधिभ्योऽरिभ्यो जातां दुर्दशां दुष्टावस्थां वीक्ष्य विषादवैलक्ष्ययोः खेदलज्जयोर्भरम् । वह्व्यौ विषादलज्जा इत्यर्थः । बभार दुर्दशादर्शनजनितकरुणाबीजं दुःखं मयि सत्यपि सुदुर्दशेति लज्जाहेतुरित्यर्थः ।। १३.३९-१३.४० ।।


तद्दन्तिदन्तक्षतहेमभित्ति(१) सुतन्तुजालाकुलरत्नजालाम् ।
निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ।। १३.४१ ।।

{१.हेमभित्तिम्,गेहभित्ति.}
     अन्वयः-- स सुरेन्द्रेण पुरोगतेन (सता) तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालं वैजयन्ताऽभिधम् आत्मसौधं निन्ये ।
     सीo- तद्दन्तीति । स कुमारः । सुरेन्द्रेणेन्द्रेण पुरोगतेनाग्रण्या सता तस्य तारकस्य दन्तिनां गजानां दन्तैः क्षुण्णा हैम्यो भित्तयः कुड्यानि यस्मिन्यस्य वा । सुतन्तवो लूतानां शोभनानि सूत्राणि तेषां जालेनाकुलं व्याकुलं रत्नजालं रत्नसमूहो यस्मिन् तथा वैजयन्ताभिधं वैजयन्तसंज्ञकम् । `स्यात्प्रसादो वैजयन्तः' इत्यमरः । आत्मसौधं स्वराजसदनं निन्ये प्रापितः । कर्मणि लिट् ।। १३.४१ ।।


निर्दिष्टवर्त्मा बिवुधेश्वरेण सुरैः समग्रैरनुगम्यमानः ।
स (२)प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ।। १३.४२ ।।

{२.तद्विविधात्मरश्मिच्छन्नेन,तं विविधेन रत्नाच्छन्नेन.}
     अन्वयः- स विबुधेश्वरेण निर्दिष्टवर्त्मा, समग्रैः सुरैः अनुगम्यमानः (सन्) विविधाऽश्मरश्मिच्छिन्नेन सोपानपथेन तं सौधं प्राविशत् ।
     सीo- निर्दिष्टेति । स कुमारः । विवुधेश्वरेणेन्द्रण कर्त्रा । निर्दिष्टवर्त्मेतो गमनं विधेयमित्युक्तिपूर्वकप्रदर्शितमार्गः तथा समग्रैः सुरैर्देवैरनुगम्यमानोऽऽनुस्त्रियमाणः सन् । विविधा अनेकवर्णा येऽश्मानो रत्नानि तेषां रश्मिभिः किरणैश्छिन्नेन भिन्नेन रहितेनेति यावत् । तारककृतसोपानखचितरत्नोत्पाटनादिति भावः । सोपानपथेनारोहणमार्गेण । `आरोहणं स्यात्सोपानम्' इत्यमरः । तं सौधं प्राविशत् ।। १३.४२ ।।


निसर्गकल्पद्रुमतोरणं(१) तं (२)स पारिजातप्रसवस्रगाढ्यम्(३) ।
दिव्यैः (४)कृतस्वस्त्ययनं मुनीन्द्रैरन्तः(५)प्रविष्टप्रमदं प्रपेदे ।। १३.४३ ।।

{१.तोरणान्तम्,तोरणाङ्कम्.२.सुपारिजात.३.स्रजाढ्यम्.४.कृतस्वस्त्ययनः.५.कुमारः,प्रविश्य.}
     अन्वयः-- सः निसर्गकल्पद्रुमतोरणं परिजातप्रसवस्रगाढ्यं दिव्यैः मुनीन्द्रैः कृतस्वस्त्ययनम् अन्तःप्रविष्टप्रमदं तं प्रपेदे ।
     सीo- निसर्गेति । स कुमारः । निसर्गेण स्वभावेन । अनायासेनेति यावत् । `निसर्गः शीलसर्गयोः' इति विश्वः । कल्पद्रुमा एव तोरणानि यत्र । तथा पारिजातस्य देववृक्षविशेषस्य प्रसवानां पत्रपुष्पाणां स्त्रजा मालयाढ्यम् युक्तम् । पूजनार्थंमनेकपत्रपुष्पसहितमित्त्यर्थः । तथा दिव्यैः स्वर्गीयमुनीन्द्रैः कश्यपादिभिः कृतस्वस्त्ययनं विहितस्वस्तिवाचनम् । तथान्तःप्रविष्टा मध्यं प्रविश्य स्थिताः प्रमदाः स्त्रियो यत्र तं सौधं प्रपेदे प्राप ।। १३.४३ ।।


पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
प्रदक्षिणीकृत्य कृताञ्जलिः (६)सन्षङ्भिः शिरोभिः (७)स नतैर्ववन्दे ।। १३.४४ ।।

{६.सः.७.विनतैः.}
     अन्वयः-- स सुराऽसुराणां कुलादिवृद्धस्य कश्यपस्य महर्षेः पादौ प्रदक्षिणीकृत्य कृताऽञ्जलिः (सन्) नतैः षङ्भिः शिरोभिः ववन्दे किल ।
     सीo- पादाविति । स कुमारः । सुरासुराणां देवदैत्यानां कुल आदि वृद्धस्य कश्यपस्य महर्षेः पादौ चरणौ कर्मभूतौ । प्रदक्षिणीकृत्य कृताञ्जलिः सन् । नतैः षङ्भिः शिरोभिर्ववन्दे नमश्चक्रे । किलेत्यैतिह्ये ।। १३.४४ ।।


स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवञ्शैलसुतातनूजः ।। १३.४५ ।।

     अन्वयः- स शैलसुतातनूजः भक्त्या प्रह्वीभवन्, तस्य मुनेः कलत्रस्य देवमातुः जगदेकवन्द्यौ पादौ तथैव कामं प्रणनाम ।
     सीo- स इति । स शैलसुतातनूजः पार्वतीनन्दनो भक्त्या निमित्तेन प्रह्वीभवन्नम्रीभवन्सन् । मुनेश्च तस्य कलत्रस्य पत्न्याश्च देवानां मातुर्जनन्या अदितेः । जगत एकवन्द्यौ केवलनमस्करणीयौ पादौ तथैव मुनिनमस्कारप्रकारेणैव कामं यथायोग्यं प्रणनाम नमश्चक्रे ।। १३.४५ ।।


स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा (१)द्वौ ।
(२)तया (३)यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम्(४) ।। १३.४६ ।।

{१.द्वे.२.यथा तथा.३.अनया,यथा.४.उग्रवीर्यः.}
     अन्वयः- स कश्यपः सा सुराणां जननी (च) द्वौ तं तया आशिषा एधयामासतुः यया उग्रवीर्यं नैकजगज्जिगीषुं तारकं मृधे जेता ।
     सीo- स इति । स कश्यपो मुनिः सा सुराणां जनन्यदितिः, एतौ द्वौ तं कुमारं तयाशिषाशीर्वादेनैधयामासतुर्वर्धयतः स्म । ययाऽऽशिषा निमित्तेनोग्रवीर्यमत एव नैकजगन्त्यनेकजगन्ति । त्रीणि जगन्तीत्यर्थः । जिगीषुं जेतुमिच्छुम् । `न लोके'- ति षष्ठीनिषेधः । तारकं दैत्यं मृधे सङ्गरे जेता । जेष्यतीत्यर्थः । कर्तरि लुट् ।। १३.४६ ।।


(५)स्वदर्शनार्थं समुपेयुषीणां (६)सुदेवताना(७)मदितिश्रितानाम् ।
पादौ ववन्दे (८)पतिदेवतास्तमाशीर्वचोभिः (९)पुनरभ्यनन्दन् ।। १३.४७ ।।

{५.तद्दर्शनार्थम्.६.स देवतानाम्.७.अदितेः सुतानाम्.८.विनयेन ताः.९.गुहम्.}
     अन्वयः-- (सः) स्वदर्शनाऽर्थम् समुपेयुषीणांम्, अदितिश्रितानां सुदेवतानां पादौ ववन्दे (अथ च) पतिदेवताः, (ताः) आशीर्ववोभिः पुनः तम् अभ्यनन्दन् ।
     सीo- स्वेति । स कुमारः स्वदर्शनार्थं स्वावलोकनार्थं समुपेयुषीणां प्राप्नुवतीनाम् । तथादिति देवमातरं श्रितानाम् । देवमातुराश्रयेण जीवन्तीनामित्यर्थः । शभनाः सौभाग्यवत्यो देवतास्तासां पादौ चरणौ ववन्दे प्रणनाम । अथ च पतिरेव देवता यासां ताः पतिव्रतास्ता देवता आशीर्वचोभिः `त्वं जय' इत्यादिभिः । पुनस्तं कुमारमभ्यनन्दन् । अस्तुवतेत्यर्थः ।। १३.४७ ।।


पुलोमपुत्रीं विबुधाधिभर्तुस्ततः (१)शचीं नाम (२)कलत्रमेषः ।
नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा (३)समुपाचरच्च ।। १३.४८ ।।

{१.शची.२.अत्र.३.समुपाचचार.}
     अन्वयः- ततो नाम एषः स्मरशत्रुसूनुः विबुधाऽधिभर्तुः कलत्रं पुलोमपुत्रीं शचीं नमश्चकार । सा आशिषा तं समुपाचरत् च ।
     सीo- पुलोमपुत्रीमिति । ततोऽनन्तरम् । नामेति योग्यताप्रतिपादकमव्ययम् । अव्ययानामनेकार्थत्वात् । ततश्च प्रणामकर्तृत्वयोग्य इत्यर्थः । न च पुलोमपुत्र्या एव प्रणामार्हत्वविवक्षाया विशेषणता स्यादिति वाच्यम् । विबुधाधिभर्तृसम्बन्धोद्घाटनेनैव ध्वनितत्वात् । एष स्मरशत्रुसूनुः कुमारो विबुधानां देवानामधिभर्तुरिन्द्रस्य कलत्रं स्त्रीभूतां शचीं शचीसंज्ञिकां पुलोमपुत्रीं नमश्चकार । अथ च सेन्द्राण्याशिषाशोर्वादेन तं कुमारं समुपाचरत् । अवर्धयदित्यर्थः ।। १३.४८ ।।


(४)अथादितीन्द्रप्रमदाः समेतास्ता(५) (६)मातरः सप्त घनप्रमोदाः ।
उपेत्य भक्त्या (७)नमते महेशपुत्राय(८) तस्मै ददुराशिषः (९)प्राक् ।। १३.४९ ।।

{४.अदितिप्राग्रमुखाः समेताः,अदितीन्द्रप्रमदासमेताः,अदितीन्द्रप्रमुखाः समेताः.५.सः,तम्.६.मातृकाः.७.नमति.८.स्म शर्वपुत्राय.९.ताः.}
     अन्वयः-- अथ घनप्रमोदाः समेताः ता अदितीन्द्रप्रमदाः सप्त मातरः भक्त्या उपेत्य नमते तस्मै महेशपुत्राय अशिषः प्राक् ददुः ।
     सीo-- अथेति । अथानन्तरं घनप्रमोदाः कुमारावलोकनादिति भावः । अत एव समेता एकत्रभूतास्ता अदितीन्द्रस्य कश्यपस्य प्रमदाः स्त्रियः सप्तमातरो ब्राह्मीप्रभृतयो भक्त्या निमित्तेनोपेत्य समीपमागत्य नमते नमस्कुर्वते तस्मै महेशपुत्राय कुमाराय तारकविजयसाधनाय आशिष आशीर्बादान्प्रङ्नमस्कारात्पूर्वमेव ददुः ।। १३.४९ ।।


समेत्य सर्वेऽपि (१)मुदं दधाना (२)महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
आनन्दकल्लोलितमानसं (३)तं (४)समभ्यषिञ्चन्पृतनाधिपत्ये ।। १३.५० ।।

{१.मुदमादधानाः.२.अत्र.३.ते.४.तमभ्यषिञ्चन्.}
     अन्वयः- अथ मुदं दधानाः महेन्द्रमुख्याः सर्वेऽपि त्रिदिवौकसः आनन्दकल्लोलितमानसं तं पृतनाऽऽधिपत्ये समभ्यषिञ्चन् ।
     सीo- समिति । अथानन्तरं मुदं दधानाः महेन्द्रमुख्या इन्द्रप्रभृतयः सर्वेऽपि त्रिदिवौकसो देवा आनन्देन भावितारकयुद्धकर्तृत्वजन्मना कल्लोलितं तरङ्गितं मानसं सर एव मानसं चेतो यस्य तम् । महानन्दमित्यर्थः । तं कुमारं पृतनाधिपत्ये सैनापत्ये समभ्यषिञ्चन्नभिषिक्तमकुर्वन् ।। १३.५० ।।


सकलविबुधलोकः स्रस्तनिःशेषशोकः

कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
अजनि हरसुतेनानन्तवीर्येण तेना-

खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ।। १३.५१ ।।

     अन्वयः- अनन्तवीर्येण अनूनाम् अखिलविबुधचमूनां लक्ष्मीं प्राप्य तेन हरसुतेन सकलविबुधलोकः स्त्रस्तनिःशेषशोकः कृतरिपुविजयाशः प्राप्तयुद्धाऽवकाशः अजनि ।
     सीo- सकलेति । अनन्तवीर्येणापारपराक्रमेणात एवानूनां महतीमखिला या विबुधचम्वो देवसेनास्तासां लक्ष्मीं वैभवं प्राप्य स्थितेन तेन हरसुतेन । हरसुतसाहाय्येनेत्यर्थः । सकलविबुधलोकः समस्तवृन्दारकनिचयः । स्रस्ता ध्वस्ताः । नष्टा इति यावत् । निःशेषाः समग्राः शोका यस्य तथा कृता रिपोस्तारकस्य विजय आशा येन तथा प्राप्तो युद्धायावकाशोऽऽवसरो येन । तथाभूतश्चाजनि जातः । कुण्ठितवीर्याणां सवीर्यंसाहाय्यकमेव कार्यसिद्धिहेतुर्भवतीति भावः । मालिनीवृत्तमेतत् । लक्षणं तु पूर्वमेवोक्तम् ।। १३.५१ ।।


इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-

सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः श्रीकालिदासकृतौ

कुमारसंभवे महाकाव्ये कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः ।