कुमारसम्भवम्/नवमः सर्गः

विकिस्रोतः तः
← अष्ठमः सर्गः कुमारसम्भवम्
नवमः सर्गः
कालिदासः
दशमः सर्गः →

तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।
संभोगवेश्म प्रविशन्तमन्तर्ददर्श पारावतमेकमीशः ।। ९.१ ।।

सुकान्तकान्तामणितानुकारं कूजन्तमाधूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहुर्न्यञ्चितचारुपुच्छम् ।। ९.२ ।।

विशृङ्खलं पक्षतियुग्ममीषद्दधानमानन्दगतिं मदेन ।
शुभ्रांशुवर्ण जटिलाग्रपादमितस्ततो मण्डलकैश्चरन्तम् ।। ९.३ ।।

रतिद्वितीयेन मनोभवेन ह्रदयात्सुधाया प्रविगाह्यमानात् ।
तं वीक्ष्य फेनस्य चयं नवोत्थमिवाभ्यनन्दत्क्षणमिन्दुमौलिः ।। ९.४ ।।

तस्याकृतिं कामपि वीक्ष्य दिव्यामन्तर्भवश्छद्यविहंगमग्निम् ।
विचिन्तयन्संविविदे स देवो भ्रूभङ्गभीमश्च रुषा बभूव ।। ९.५ ।।

स्वरुपमास्थाय ततो हुताशस्त्रसन्वलत्कम्प कृताञ्जलिः सन् ।
प्रवेपमानो नितरां स्मरारिमिदं वचो व्यक्तमथाध्युवाच ।। ९.६ ।।

असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
ततः सुरेन्द्रप्रमुखाः प्रभो त्वामुपासते दैत्यवरैर्विधूताः ।। ९.७ ।।

त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये सुरतादृतूनाम् ।
रहः स्थितेन त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः ।। ९.८ ।।

त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
उपागतोऽन्वेष्टुमहं विहंगरुपेण विद्वन्समयोचितेन ।। ९.९ ।।

इति प्रभो चेतसि संप्रधार्य तन्नोऽपराधं भगवन् क्षमस्व ।
पराभिभूता वद किं क्षमन्ते कालातिपातं शरणार्थिनोऽमी ।। ९.१० ।।

प्रभो प्रसीदाशु सृजात्मपुत्रं यं प्राप्य सेनान्यमसौ सुरेन्द्रः ।
स्वर्लोकलक्ष्मीप्रभुतामवाप्य जगत्त्रयं पाति तव प्रसादात् ।। ९.११ ।।

स शंकरस्तामिति जातवेदोविज्ञापनामर्थवतीं निशम्य ।
अभूत्प्रसन्नः परितोषयन्ति गीर्भिर्गिरिशा रुचिराभिरीशम् ।। ९.१२ ।।

प्रसन्नचेता मदनान्तकारः स तारकारेर्जयिनो भवाय ।
शक्रस्य सेनाधिपतेर्जयाय व्यचिन्तयच्चेतसि भावि किंचित् ।। ९.१३ ।।

युगान्तकालाग्निमिवाविषह्यं परिच्युतं मन्मथरङ्गभङ्गात् ।
रतान्तरेतः स हिरण्यरेतस्यथोर्ध्वरेतास्तदमोघमाधात् ।। ९.१४ ।।

अथोष्णबाष्पानिलदूषितान्तं विशुद्धमादर्शमिवात्मदेहम् ।
बभार भूम्ना सहसा पुरारिरेतः परिक्षेपकुवर्णमग्निः ।। ९.१५ ।।

त्वं सर्वभक्षो भव भीमकर्मा कुष्ठाभिभूतोऽनल धूमगर्भः ।
इत्थं शशापाद्रिसुता हुताशं रुष्टा रतानन्दसुखस्य भङ्गात् ।। ९.१६ ।।

दक्षस्य शापेन शशी क्षयीव प्लुष्टो हिमेनेव सरोजकोशः ।
वहन्विरुपं वपुरुग्ररेतश्चयेन वह्निः किल निर्जगाम ।। ९.१७ ।।

स पावकालोकरुषा विलक्षां स्मरत्रपास्मेरविनम्रवक्त्राम् ।
विनोदयामास गिरीन्द्रपुत्रीं श्रृङ्गारगर्भैर्मधुरैर्वचोभिः ।। ९.१८ ।।

हरो विकीर्णं घनघर्मतोयैर्नेत्राञ्जनाङ्कं हृदयप्रियायाः ।
द्वितीयकौपीनचलाञ्चलेनाहरन्मुखेन्दोरकलङ्किनोऽस्याः ।। ९.१९ ।।

मन्देन खिन्नाङ्गुलिना करेण कम्प्रेण तस्या वदनारविन्दात् ।
परामृशन्घर्मजलं जहार हरः सहेलं व्यजनानिलेन ।। ९.२० ।।

रतिश्लथं तत्कबरीकलापमंसावसक्तं विगलत्प्रसूनम् ।
स पारिजातोद्भवपुष्पमय्या स्त्रजा बबन्धामृतमूर्तिमौलिः ।। ९.२१ ।।

कपोलपाल्यां मृगनाभिचित्रपत्ररावलीमिन्दुमुखः सुमुख्याः ।
स्मरस्य सिद्धस्य जगद्विमोहमन्त्राक्षरश्रेणिमिवोल्लिलेख ।। ९.२२ ।।

रथस्य कर्णावभि तन्मुखस्य ताटङ्कचक्रद्वितयं न्यधात्सः ।
जगज्जिगीषुर्विषमेषुरेष ध्रुवं यमारोहति पुष्पचापः ।। ९.२३ ।।

तस्याः स कण्ठे पिहितस्तनाग्रां न्यधत्त मुक्ताफलहारवल्लीम् ।
या प्राप मेरुद्वितयस्य मूर्ध्नि स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम् ।। ९.२४ ।।

नखव्रणश्रेणिवरे बबन्ध नितम्बबिम्बे रशनाकलापम् ।
चलस्वचेतोमृगबन्धनाय मनोभुवः पाशमिव स्मरारिः ।। ९.२५ ।।

भालेक्षणाग्नौ स्वयमञ्जनं स भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
नवोत्पलाक्ष्याः पुलकोपगूढे कण्ठे विनीलेऽङ्गुलिमुज्जघर्ष ।। ९.२६ ।।

अलक्तकं पादसरोरुहाग्रे सरोरुहाक्ष्याः किल संनिवेश्य ।
स्वमौलिगङ्गासलिलेन हस्तारुणत्वमक्षालयदिन्दुचूडः ।। ९.२७ ।।

भस्मानुलिप्ते वपुषि स्वकीये सहेलमादर्शतलं विमृज्य ।
नेपथ्यलक्ष्म्याः परिभावनार्थमदर्शयज्जीवितवल्लभां सः ।। ९.२८ ।।

प्रियेण दत्ते मणिदर्पणे सा संभोगचिह्नं स्ववपुर्विभाव्य ।
त्रपावती तत्र घनानुरागं रोमाञ्चदम्भेन बहिर्बभार ।। ९.२९ ।।

नेपथ्यलक्ष्मीं दयितोपक्लृप्तां सस्मेरमादर्शतले विलोक्य ।
अमंस्त सौभाग्यवतीषु धुर्यमात्मानमुद्धूतविलक्षभावा ।। ९.३० ।।

अन्तः प्रविश्यावसरेऽथ तत्र स्निग्धे वयस्ये विजया जया च ।
सुसंपदोपाचरतां कलानामङ्के स्थितां तां शशिखण्डमौलेः ।। ९.३१ ।।

व्यधुर्बहिर्मङ्गलगानमुच्चैर्वैतालिकाश्चित्रचरित्रचारु ।
जगुश्च गन्धर्वगणाः सशङ्खस्वनं प्रमोदाय पिनाकपाणेः ।। ९.३२ ।।

ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ।। ९.३३ ।।

महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः ।
संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ।। ९.३४ ।।

क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम् ।
प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते ।। ९.३५ ।।

यथागतं तान्विबुधान्विसृज्य प्रसाद्य मानक्रियया प्रतस्थे ।
स नन्दिना दत्तभुजोऽधिरुह्य वृषं वृषाङ्कः सह शैलपुत्र्या ।। ९.३६ ।।

मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो गगनाध्वनोऽन्तः ।
वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः ।। ९.३७ ।।

स्वर्वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी ।
तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरीजागिरीशौ ।। ९.३८ ।।

पिनाकिनापि स्फटिकाचलेन्द्रः कैलासनामा कलिताम्बरांशः ।
धृतार्धसोमोऽद्भुतभोगिभोगो विभूतिधारी स्व इव प्रपेदे ।। ९.३९ ।।

विलोक्य यत्र स्फटिकरय भित्तौ सिद्धाङ्गनाः स्वं प्रतिबिम्बमारात् ।
भ्रान्त्या परस्या विमुखीभवन्ति प्रियेषु मानग्रहिला नमत्सु ।। ९.४० ।।

सुबिम्बितस्य स्फटिकांशुगुप्तेश्चन्द्रस्य चिह्नप्रकरः करोति ।
गौर्यार्पितस्येव रसेन यत्र कस्तूरिकायाः शकलस्य लीलाम् ।। ९.४१ ।।

यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ।। ९.४२ ।।

निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
दृष्ट्वा रतान्तच्युततारहारयुक्ताभ्रमं बिभ्रति सिद्धवध्वः ।। ९.४३ ।।

नभश्चरीमण्डनर्दपणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
अनर्ध्यचूडामणितामुपैति शैलाधिनाथस्य शिवालयस्य ।। ९.४४ ।।

समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विताः स्वैः ।। ९.४५ ।।

देवोऽपि गौर्या सह चन्द्रमौलिर्यदृच्छया स्फाटिकशैलश्रृङ्गे ।
श्रृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ।। ९.४६ ।।

देवस्य तस्य स्मरसूदनस्य हस्तं समालिङ्ग्य सुविभ्रमश्रीः ।
सा नन्दिना वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ।। ९.४७ ।।

चलच्छिखाग्रो विकटाङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः ।
भ्रुवोपदिष्टः स तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ।। ९.४८ ।।

कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनृत्यत् ।
प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य ।। ९.४९ ।।

भयंकरौ तौ विकटं नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ।। ९.५० ।।

उत्तुङ्गपीनस्तनपिण्डपीडं ससंभ्रमं तत्परिरम्भमीशः ।
प्रपद्य सद्य पुलकोपगूढः स्मरेण रुढप्रमदो ममाद ।। ९.५१ ।।

इति गिरितनुजाविलासलीलाविविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे कृतवसतिर्वशिभिर्गणैर्ननन्द ।। ९.५२ ।।

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवश्री-
सीतारामकविविरचितया संजीविनीसमाख्यया व्याख्यया
समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
कैलासगमनो नाम नवमः सर्गः ।।