कुमारसम्भवम्/दशमः सर्गः

विकिस्रोतः तः
← नवमः सर्गः कुमारसम्भवम्
दशमः सर्गः
कालिदासः
एकादशः सर्गः →

आससाद सुनासीरं सदसि त्रिदशैः सह ।
एष त्रैयम्बकं तीव्रं वहन्वह्निमंहन्महः ।। १०.१ ।।

सहस्रेण दृशामीशो कुत्सिताङ्गं च सादरम् ।
दुर्दर्शनं ददर्शाग्निं धूम्रधूमितमण्डलम् ।। १०.२ ।।

दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा ।
व्यचिन्तयच्चिरं किंचित्कन्दर्पद्वेषिरोषजम् ।। १०.३ ।।

स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ।। १०.४ ।।

हव्यवाह ! त्वयासादि दुर्दशेयं दशा कुतः ।
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ।। १०.५ ।।

`अनतिक्रमणीयात्ते शासनात्सुरनायक !
पारावत वपुः प्राप्य वेपमानोऽतिसाध्वसात् ।। १०.६ ।।

अभिगौरि रतासक्तं जगामाहं महेश्वरम् ।
कालस्येव स्मरारातेः स्वं रुपमहमासदम् ।। १०.७ ।।'
दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् !
ज्वलद्भालानले होतुं कोपनो माममन्यत ।। १०.८ ।।

वचोभिर्मधुरैः सार्थैर्वनम्रेण मया स्तुतः ।
प्रीतिमानभवद्देवः `स्तोत्रं कस्य न तुष्टये' ।। १०.९ ।।

शरण्यः सकलत्राता मामत्रायत शंकरः ।
क्रोधाग्नेर्ज्वलतो ग्रासात्र्त्रासतो दुर्निवारतः ।। १०.१० ।।

परिहृत्य परीरम्भरभसं दुहितुर्गिरेः ।
कामकेलिरसोत्सेकाद् व्रीडया विरराम सः ।। १०.११ ।।

रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम् ।
त्रिजगद्दाहकं सद्यो मद्विग्रहमधि न्यधात् ।। १०.१२ ।।

दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः ।। १०.१३ ।।

रौद्रेण दह्यमानस्य महसातिमहीयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ! ।। १०.१४ ।।

इति श्रुत्वा वचो बह्नेः परितापोपशान्तये ।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः ।। १०.१५ ।।

तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
किंचित्कृपीटयोनिं तं दिवस्पतिरभाषत ।। १०.१६ ।।

प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ।। १०.१७ ।।

त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ।। १०.१८ ।।

हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
तपस्विनस्तपःसिद्धिं यान्ति, त्वं तपसां प्रभुः ।। १०.१९ ।।

निधत्से हुतमर्काय, स पर्जन्योऽभिवर्षति ।
ततोऽन्नानि, प्रजास्तेभ्यस्तेनासि जगतः पिता ।। १०.२० ।।

अन्तश्चरोऽसि भूतानां, तानि त्वत्तो भवन्ति च ।
ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ।। १०.२१ ।।

जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ।। १०.२२ ।।

अमीषां सुरसंघानां त्वमेकोऽर्थसमर्थने ।
विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ।। १०.२३ ।।

देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता ।
निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति ।। १०.२४ ।।

गङ्गां तद्गच्छ मा कार्षी विलम्बं हव्यवाहन ।
कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ।। १०.२५ ।।

शंभोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ।। १०.२६ ।।

इत्युदीर्य सुनासीरो विरराम, स चानलः ।
तद्विसृष्टस्तमापृच्छ्य प्रतस्थे स्वर्धुनीमभि ।। १०.२७ ।।

हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी ।
तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी ।। १०.२८ ।।

अथ त्रिभिस्तामेव विशिनष्टि-
स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता ।
उदारदुरितोद्गारहारिणी दुर्गतारिणी ।। १०.२९ ।।

महेश्वरजटाजूटवासिनी, पापनाशिनी ।
सरागान्वयनिर्वाणकारिणी, धर्मधारिणी ।। १०.३० ।।

विष्णुपादोदकोद्भूता, ब्रह्मलोकादुपागता ।
त्रिभिः स्त्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ।। १०.३१ ।।

जातवेदसमायान्तमूर्मिहस्तैः समुत्थितैः ।
आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ।। १०.३२ ।।

संमिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ।। १०.३३ ।।

कल्लोलैरुद्गतैरर्वाचीनं तटमभिद्रुतैः ।
प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ।। १०.३४ ।।

अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ।। १०.३५ ।।

गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि ।। १०.३६ ।।

तत्र माहेश्वरं धाम संचक्राम हविर्भुजः ।
गङ्गायामुत्तरङ्गायामन्तस्तापविपद्धृति ।। १०.३७ ।।

कृशानुरेतसो रेतस्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु ।। १०.३८ ।।

सुधासारैरिवाम्भोभिरभिषिक्तो हुताशनः ।
यथागतं जगामाथ परां निर्वृतिमादधत् ।। १०.३९ ।।

सा सुदुर्विषहं गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ।। १०.४० ।।

बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
हित्वोष्णानि जलान्यस्या निर्जग्मुर्जलजन्तवः ।। १०.४१ ।।

तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
समुदञ्चन्ति चण्डानि दुर्धराणि बभार सा ।। १०.४२ ।।

जगच्चक्षुषि चण्डांशौ किंचिदभ्युदयोन्मुखे ।
जग्मुः षट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ।। १०.४३ ।।

शुभ्रैरभ्रंकषैरूर्मिशतैः स्वर्गनिवासिनाम् ।
कथयन्तीमिवालोकावगाहा चमनादिकम् ।। १०.४४ ।।

सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ।। १०.४५ ।।

ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः ।
योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ।। १०.४६ ।।

पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसंबद्धदृष्टिभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ।। १०.४७ ।।

अथ दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ।। १०.४८ ।।

चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि ।
यस्या विलोकनं पुण्यं श्रद्दधूस्ता मुदा हृदि ।। १०.४९ ।।

दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम् ।
निर्धूतकल्मषां मूर्ध्ना सुप्रह्वास्ता ववन्दिरे ।। १०.५० ।।

सौभाग्यैः खलु सुप्रापां मोक्षप्रतिभुवं सतीम् ।
भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधाना दिवोधुनीम् ।। १०.५१ ।।

मुक्तिस्त्रीसङ्गदूत्यज्ञैस्तत्र ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ।। १०.५२ ।।

{१.दौत्यज्ञै.२.भाविमलैः.३.तापसान्विताः.}
स्नात्वा तत्र सुलभ्यायां भाग्यैः परिपचेलिमैः ।
चरितार्थं स्वमात्मानं बहु ता मेनिरे मुदा ।। १०.५३ ।।

कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ।। १०.५४ ।।

रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ।। १०.५५ ।।

अक्षमा दुर्वहं वोढुमम्बुनो बहिरातुराः ।
अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ।। १०.५६।।

अमोघं शांभवं बीजं सद्यो नद्योज्झितं महत् ।
तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् ।। १०.५७ ।।

सुज्ञा विज्ञाय ता गर्भभूतं तद्वोढुमक्षमाः ।
विषादमदधुः सद्यो गाढं भर्तृभिया ह्रिया ।। १०.५८ ।।

ततः शरवणे सार्धं भयेन व्रीडया च ताः ।
तद्गर्भजातमुत्सृज्य स्वान् गृहानभिनिर्ययुः ।। १०.५९ ।।

ताभिस्तत्रामृतकरकलाकोमलं भासमानं
तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युज्जिहानैः ।
स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै
र्वक्त्रैः षङ्भिः स्मरहरगुरुस्पर्धयेवाजनीव ।। १०.६० ।।

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभव-
श्रीसीतारामकविविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे
महाकाव्ये कुमारोत्पत्तिर्नाम दशमः सर्गः ।।