काशीपञ्चकम्

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च .
ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबोधरूपा .. १..

यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम् .
सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा .. २..

कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम्
साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाहं निजबोधरूपा .. ३..

काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका .
सा काशी विदिता येन तेन प्राप्ता हि काशिका .. ४..

काशीक्षेत्रं शरीरं त्रिभुवन-जननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निजगुरु-चरणध्यानयोगः प्रयागः .
विश्वेशोऽयं तुरीयः सकलजन-मनःसाक्षिभूतोऽन्तरात्मा देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति .. ५..

शङ्कराचार्य

"https://sa.wikisource.org/w/index.php?title=काशीपञ्चकम्&oldid=200562" इत्यस्माद् प्रतिप्राप्तम्