काव्यालङ्कारसारसङ्ग्रहः/षष्ठः वर्गः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

अथ षष्ठो वर्गः।

अनन्वयं ससंदेहं संसृÏष्ट भाविकं तथा।

काव्यदृष्टान्तहेतू चेत्यलङ्कारान्परे विदुः।।

अत्र इतिशब्दस्य वक्ष्यमाणं यदनन्वयादिलक्षणं तदुपक्षेपार्थत्वेन प्रयोगान्नानन्वयादिस्वरूपपरामर्शार्थत्वम्। इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः। इत्येवं वक्ष्यमाणलक्षणकत्वेनानन्वयादीनलङ्कारान्विदुरित्यर्थः। अतो वेदनक्रियाकर्मत्वादनन्वयमित्यादौ द्वितीया। काव्यदृष्टान्तहेतू चेत्यत्र दृष्टान्तहेतुशब्दाभ्यां काव्यशब्दः प्रत्येकमभिसंबध्यते। दृष्टान्तशब्दस्य चात्र पूर्वनिपातोऽभ्यर्हितत्वात्। अभ्यर्हितत्वं दृष्टान्तस्य दृष्टान्तप्रतिबिम्बितव्याप्तिमुखेन हेतोः प्रायेण गमकता संप्रत्ययात्।

ससंदेहः---

उपमानेन तत्त्वं च भेदं च वदतः पुनः।

ससंदेहं वचः स्तुत्यै ससंदेहं वदुर्बुधाः।।

उपमानभेदपूर्वं भेदमभिदधतः कवेः कविनिबद्धस्य वा वक्तुर्वच इति संबन्धः। संदेहोपेतवचनव्याजेन उपमानेन तत्त्वं तद्भावमभेदमुपमेयस्याभिधायोत्तरकालं यदा तस्मादुपमानात्तस्योपमेयस्य भेदोऽभिधीयते तदा ससंदेहोऽलङ्कारः। ननु उपमानेन सह पूर्वमभेदेऽभिहिते सति पुनर्यदि तस्माद्धेदस्याभिधानं क्रियते। एवं सति गजस्नानं प्राप्नोतीत्याशङ्क्योक्तम्----स्तुत्यै इति। स्तुत्यर्थत्वेन एवंविधा अभिधा समाश्रीयत इत्यर्थः। तस्योदाहरणम्----

हस्ते किमस्य निःशेषदेत्यहृद्दलनोद्भवम्।

यशःसंचय एष स्यात्पिण्डीभावोऽस्य किंकृतः।।

नाभिपद्मस्पृहायातः किं हंसो नैष चञ्चलः।

इति यस्याभितः शङ्खमशङ्किष्टार्जवो जनः।।

आर्जवो मूर्खः। ऋजुत्वयोगात्। अत्र शङ्ख उपमेयः। यशःसंचयो हृंसश्चोपमानम्। तयोश्च पूर्वमभेदसंदेहव्याजेनाभिहितः किमेष यशःसंचयः स्यादिति, तथा किं हंस इति पुनश्चात्रोपमानादुपमेयस्य भेदो वर्णितः। यशःसंचयात्तावद्भेदोपवर्णनं पिण्डीभावोऽस्य किंकृत इत। यशःसंचयः खलु प्रसरणशीलः। अस्य तु तद्विरुद्धः पिण्डीभावो दृश्यते। तेन नायं यशःसंचय इति। हंसात्तु भेदाभिधानं नैव चञ्चल इति। हंसस्य ह चञ्चलत्वं नाम धर्मः। इहच तन्नोपलभ्यते, तस्मान्नैव हंस इति। एवं विधस्य चात्राभिधानस्य फलं स्तुतिः, यशःसंचयो भगवता स्वहस्तवर्ती कृत इति, तथासंभाव्यमानहंसागमनं त्रिभुवनोत्पत्तिनिबन्धनं यत्तन्नाभिनलिनं तद्वान् भगवानिति।।

ससंदेहस्य भेदान्तरमाह----

अलङ्कारान्तरच्छायां यत्कृत्वा धीषु बन्धनम्।

असंदेहेऽपि संदेहरूपं संदेहनाम तत्।।

छाया शोभा। यत्र संदेहाभावेऽपि संदेहस्योपनिबन्धे सति न पूर्ववदुपमानादुपमेयस्य भेद उपनिबध्यते किंतह्र्यभेद एव संशयच्छायया। तथाविधस्य चोपनिबन्धस्य फलमलङ्कारान्तरोपजनिता सौन्दर्यप्रतिपत्तिः। यदाह---धीष्वलङ्कारान्तरच्छायां कृत्वा इति। तत्रापि संदेहालङ्कारः।

तस्योदाहरणम्----

नीलाब्दः किमयं मेरौ धूमोऽथ प्रलयानले।

इति यः शङ्क्यते श्यामः पक्षीन्द्रेर्कत्विषि स्थितः।।

अत्र मेरोरुपरिवर्ती नीलो बलाहकः कल्पान्तवह्न्याश्चयश्च धूमः इत्येतदुभयमुपमानम्। गरुडारूढस्तु भगवान् कृष्णवपुरुपमेयः। तेन च उपमानद्वयेन संदेहव्याजेन भगवानापादिताभेद उपनिबद्धः किमयमेवंविधः अथैवंविधः इति। ताभ्यां चोपमानाभ्यामुपमेयस्य पूर्ववद्भेदनिबन्धनं नात्र किंचिदभिहितम्। फलं चैवमभिधानस्योपमालङ्कारध्वननम्। एवंविधोपमानद्वितयसदृशो भगवान्वैनतेयारूढ इति।

अनन्वयः---

यत्र तनैव तस्य स्यादुपमानोपमेयता।

असादृश्यविवक्षातस्तमित्याहुरनन्वयम्।।

यत्र तेनैव न तु वस्त्वन्तरेण तस्यैव वस्त्वन्तरस्योपमानोपमेयभावो भवेत्तत्र वस्त्वन्तरानुगमाभावादनन्वयाख्योऽलङ्कारः। ननु च सादृश्यसंबन्धे सति प्राकरणिकमुपमेयमप्राकरणिकं तूपमानमित्युपमानोपमेययोर्लक्षितत्वात्कथमेकस्यैवोपमितिक्रियायां कर्मत्वं करणत्वं च संभवतीत्याशङ्क्योक्तम्---असादृश्यविवक्षात इति। नात्रोमपानोपमेयभावे तात्पर्यं किन्तूपमेयोपमावदुपमानान्तरव्यावृत्तावित्यर्थः। इतिशब्देऽत्र वक्ष्यमाणोदाहरणोपक्षेपार्थत्वादनन्वयशब्देन नाभिसंबध्यते। तेन अनन्वयमिति द्वितीया।

तस्योदाहरणम्----

यस्य वाणी स्ववाणीव स्वक्रियेव क्रियामला।

रूपं स्वमिव रूपं च लोकलोचनलोभनम्।।

अत्र वाणीक्रियारूपाणां त्रयाणामनुपमतया लोकोत्तरत्वं प्रतिपादयितुमात्मनैवोपमानोपमेयभावो निबद्धः।

संसृष्टिः----

अलङ्कृतीनां बह्वीनां द्वयोर्वापि समाश्रयः।

एकत्र निरपेक्षाणां मिथः संसृष्टिरुच्यते।।

बहूनामलङ्काराणां परस्परनिरपेक्षाणां द्वयोर्वा तथाविधयोरेकत्र शब्द एव अर्थ एव वा उपनिबन्धे सति संसृष्टिरलङ्कारः। यत्र तु परस्परसापेक्षत्वं तत्र सन्देहैकशब्दाभिधानानुग्राह्यानुग्राहकसङ्करास्त्रयः पूर्वमभिहिताः। यत्र च शब्दार्थलक्षणाश्रयद्वितयनिष्ठतया अनेकालङ्कारोपनिबन्धस्तत्रापि शब्दार्थवत्र्यनेकालङ्कारसंकर उक्तः। एतद्वैलक्षण्येन तु संसृष्टिः। तस्या उदाहरणम्-----

त्वत्कृते सोऽप वैकुण्ठः शशीवोषसि चन्द्रकाम्।

अप्यधारां सुधावृÐष्ट मन्ये त्यजति तां श्रियम्।।

तदुत्तिष्ठातिधन्येन केनापि कमलेक्षणे।

वरेण सह तारुण्यं निर्विशन्ती गृहे वस।।

निर्विशन्ती उपभुञ्जाना। अत्र शशी उषसि चन्द्रिकामिव वैकुण्ठः त्वत्कृते श्रियं त्यजति इत्युपमा। अधारां सुधावृष्टिमिति रूपकम्। तथा ह्यत्र लक्ष्म्याः सर्वे पीयूषवृष्टेः संबन्धिनो धर्मा विद्यन्ते केवलं धारासंबन्धो नास्तीत्युपमानगतैकगुणनिवृत्तिद्वारिका शिष्टोपमानगतसकलगुणाभ्यनुज्ञारूपारोपणावगम्यते, यथा अयं पुरुषः अकरो हस्तीति। तदेतस्मिन् श्लोके उपमाया रूपकस्य च द्वयोरलङ्कारयोः संसृष्टिः। तयोः केवलाभिधेयाश्रयत्वात्परस्परनिरपेक्षत्वाच्च। "तदुत्तिष्ठ"इत्येतच्छ्लोकापेक्षया तु "कमलेक्षणे"इति समासोपमात्मकमुपमाभेदमाश्रित्य पूर्वोक्तालङ्कारद्वयसंकलनया बहूना मलङ्काराणां संसृष्ट्युदाहरणदिक्प्रदर्शनं द्रष्टव्यम्।।

भाविकम्-----

प्रत्यक्षा इव यत्रार्था दृश्यन्ते भूतभाविनः।

अत्यद्भुताः स्यात्तद्वाचामनाकुल्येन भाविकम्।।

सांप्रतिकेन प्रध्वंसाभावेनोपलक्ष्यमाणाः पदार्थाः भूताः, यथा इदानीं युधिष्ठिरादयः। ये तु साप्रतिकेन प्रागभावेन उपलक्ष्यन्ते ते भाविनः, यथा इदानीं भगवदवतारः कल्की भविष्णुयशाः। एवमनन्तरोपलक्षिताः भूता भाविनश्च येऽर्थास्ते सांप्रतिकप्रध्वंसाभावप्रागभावविविक्ततया वर्तमानायमानाः प्रत्यक्षा इव यत्र दृश्यन्ते तद्भाविकं नामालङ्कारो भवेत्। अत्र हेतुर्वाचामनाकुलता अर्थानां चात्यद्भुतत्वम्। तदुक्तम्---वाचामनाकुल्येनेति। अत्यद्भुता इति च। तत्र वाचामनाकुलता व्यस्तसंबन्धरहितलोकप्रसिद्धशब्दोपनिबन्धाज्झगित्यर्थप्रतीतिकारिता। तस्यां हि सत्यां कवेः संबन्धी यो भावः

आश्रयः शृङ्गारादिरससंवलितचतुर्वर्गोपायभूतविशिष्टार्थोल्लेखी स कविनैव सहृदयैः श्रोतृभिः स्वाभिप्रायेऽभेदेन तत्तत्काव्यप्रतिबिम्बितरूपतया साक्षात्क्रियते। श्रोतृणामपि हि तथाविधस्वच्छशब्दानुभवद्रावितान्तरात्मनां सहृदयानां स्वाभिप्रायप्रतिमुद्रा तत्र संक्रामति। अतः कवेर्योऽसावभिप्रायस्तद्गोचरीकृता भूता भाविनोऽपि पदार्थस्तत्र सहृदयैः श्रोतृभिः स्वाभिप्रायाभेदेन प्रत्यक्षा इव दृश्यन्ते। यथा चात्र शब्दगतमनाकुलत्वमनन्तरोक्तेन प्रकारेण हेतुस्तथार्थगतमपि चित्रोदात्तार्थोपनिबन्धहेतुकमत्यद्भुतत्वं द्रष्टव्यम्। तदुक्तं भाविकमुपक्रम्य भामहेन---"चित्रोदात्ताद्भुतार्थत्वं कथायां स्वभिनीतता। शब्दानाकुलता चेति तस्य हेतून् प्रचक्षते"इति।। स्वभिनीततेत्यभिनयादिद्वारेण शृङ्गारादिरससंवलितत्वं चतुर्वर्गोपायस्योक्तम्। तदेवमेवंविधहेतुनिबन्धनं कविश्रोतृभावद्वितयसंमीलनात्मकं भाविकं द्रष्टव्यम्।

अत एव चात्र कविसंबन्धिनो भावस्य श्रोतृभावाभेदाध्यवसितस्य पुरः--स्फुरद्रूपस्य विद्यमानत्वाद्भाविकव्यपदेशः भावोऽस्मिन् विद्यते इति भाविकम्। तदाहुः---"रसोल्लासी कवेरात्मा स्वच्छे शब्दार्थदर्पणो। माधुर्यौजोयुतप्रौढे प्रतिविन्द्य प्रकाशते। संपीतस्वच्छशब्दार्थद्राविताभ्यन्तरस्ततः। श्रोता तत्साम्यतः पुÏष्ट चतुर्वर्गे परां व्रजेत्"इति। स्वच्छ इति प्रसादगुणोऽभिहितः। प्रौढ चतुर्वर्गे परां व्रजेत्"इति। स्वच्छ इति प्रसादगुणोऽभिहितः। प्रौढ इति तु सालङ्कारता। संपीतौ सम्यगास्वादितौ। तत्साम्यत इति स्वभिप्रायाभेदेन कविगतस्याभिप्रायस्याध्यवसानादित्यर्थः। तस्योदाहरणम्----

करोषि पीडां प्रीतिं च निरञ्जनविलोचना।

मूत्र्यानया समुद्वीक्ष्य नानाभरणशोभया।।

अत्राभरणोचितमूर्तित्वेऽपि निरञ्जनविलोचनत्वोपलक्षितादाभरणत्यागात्पीडा। सहजसौन्दर्यनिर्भरत्वेन तु आभरणसंपाद्यायाः शोभायाः परिदृश्यमानत्वात्प्रीतिः। तेनात्र सांप्रतिकप्रध्वंसाभावोपलक्षितत्वाद्भूषणसंबन्धो व्यतितोऽप्यद्भुतो योऽसौ वपुःप्रकर्षस्तद्वशेन प्रत्यत्र इव कविनोपनिबद्धः। तथैव चासौ सहृदयानां चमत्कारमावहति। संततमुत्कृष्टतया वैचित्र्येण ईक्षणीया आभरणशोभा यस्यामिति बहुव्रीहिः।

काव्येहेतुः----

श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा।

हेतुतां प्रतिपद्ये काव्यलिङ्गं तदुच्यते।।

यत्र एकं वस्तु श्रुतं सद्वस्त्वन्तरं स्मारयति अनुभावयति वा तत्र काव्यलिङ्गं नामालङ्कारः। पक्षधर्मत्वान्वयव्यतिरेकानुसरणगर्भतया यथा तार्किकप्रसिद्धा हेतवो लोकप्रसिद्धवस्तुविषयत्वेनोपनिबध्यमाना वैरस्यमावहन्ति न तथा काव्येहेतुः अतिशयेन सर्वेषां जनानां योसौ हृदयसंवादीसरसः पदार्थस्तन्निष्ठतया उपनिबध्यमानत्वात्। अतः काव्यलिङ्गमिति काव्यग्रहणमुपात्तम्। न खलु तच्छास्त्रलिङ्गं किं तर्हि काव्यलिङ्गमिति काव्यग्रहणेन प्रतिपाद्यते।

ननु काव्यग्रहणेन कथं काव्यस्य सरसपदार्थनिष्ठतोपदश्र्यते। काव्यस्य सरसत्वात्। काव्यं खलु गुणसंस्कृतशब्दार्थशरीरत्वात् सरसमेव भवति, न तु नीरसम्। तथाहि---गुणाः काव्यस्य माधुर्यौजःप्रसादलक्षणाः। तत्र माधुर्यमाह्लादकत्वम्, ओजो गाढता, प्रसादस्त्वव्यवधानेन

रसाभिव्यक्त्यनुगुणता। तदेतेषां त्रयाणां गुणानां मध्यात्प्रसादस्य प्राधान्यम्। माधुर्यौजसोस्तु तत्तद्रसाभिव्यक्त्यानुगुण्येन तारतम्येनावस्थितयोः प्रसाद एव सोपयोगता। एवं च तत्र तद्रसानुगुण्येन माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यां उपकृतो योऽसौ प्रसादात्मा रसानामव्यवधानेन प्रतीतिहेतुर्गुणस्तदुपेतशब्दार्थशरीरत्वेन काव्यस्यावस्थानात्सरसतैव भवति, न तु नीरसता। यद्येवमिदानीं गुणैरेव कृतकृत्यत्वात्काव्यस्यालङ्काराणां तत्र निरुपयोगता प्राप्नोति। नैवं गुणाहितशोभे काव्ये अलङ्काराणां शोभातशयविधायित्वाल्लौकिकालङ्कारवत्। यथाहि लौकिकानामलङ्काराणां गुणसंस्कृते युवतिवपुषि निबध्यमानानामलङ्कारता एवं काव्यालङ्काराणामपि द्रष्टव्यम्।

ननु निर्गुणेऽपि काव्ये अलङ्काराणां गुणवच्छोभाविधायित्वं कस्मान्नेष्यते। अपरदृष्टत्वात्। न खलु निर्गुणे काव्ये निबध्यमानानामलङ्काराणां जरद्योषिदलङ्कारवच्छोभाविधायित्वं दृश्यते।

तथाहि----जरद्योषित्यलङ्कारां निबध्यमाना न तस्याः शोभां हीयते। तथाहि---जरद्योषित्यलङ्कारा निबध्यमाना न तस्याः शोभां कुर्वन्ति, प्रत्युत तस्यां निबध्यमानानां तेषामात्मीयमेव सौभाग्यं हीयते। तथा काव्यालङ्काराणामपि निर्गुणे काव्ये निबध्यमानानां काव्यशोभाहेतुत्वाभावः स्वशोभाहानिश्च भवति। यदवोचद्भट्टवामनः---"युवतेरिव रूपमङ्ग काव्यं स्वदते शुद्धगुणं तदप्यतीव। विहितप्रणयं निरन्तराभिः सदलङ्कारविकल्पकल्पनाभिः।। यदि भवति वचश्च्युतं गुणेभ्यो वपुरिव यौवनवन्ध्यमङ्गनायाः। अपि जनदयतानि दुर्भगत्वं नियतमलङ्करणानि संश्रयन्ते।।"इति। अङ्गशब्द इष्टामन्त्रणे। शुद्धगुणत्वात्स्वदमानं सदलङ्कारविकल्पकल्पनाभिर्विहितपरिचयमतिशयेन स्वदते इति संबन्धः। अत एवालङ्काराणआमनित्यता। गुणरहितं हि काव्यमकाव्यमेव भवति, न त्वलङ्काररहितम्। अलङ्काराणां गुणोरहितं हि काव्यमकाव्यमेव भवति, न तवलङ्काररहितम्। अलङ्काराणां गुणोपजनितशोभे काव्ये शोभातिशयविधायित्वात्। तदुक्तम्----"काव्यशोभायाः कर्तारो धर्मा गुणाः। तदतिशयहेतवस्त्वलङ्काराः। पूर्वे नित्याः।"इति। पूर्वे इति गुणा इत्यर्थः। लक्ष्ये च अलङ्काररहितमपि केवलगुणसंस्क्रियमाणशब्दार्थशरीरं काव्यं दृश्यते, यथा अमरुकस्य कवेरनिबद्धशृङ्गाररसस्यन्दी श्लोकः---"कथमपि कृतप्रत्यापत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा व्याजप्रकल्पतमश्रुतम्। असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं विवलितदृशा शून्ये गेहे समुच्छ्वसितं ततः।।"इति। न खल्वत्रार्थलङ्कारः कश्चित्परिदृश्यते। अथ माधुर्यौजोभ्यां परिबृंहतस्य प्रसादस्य विद्यमानत्वात्काव्यरूपता।

ननु चात्रापि ईष्र्याविप्रलम्भविरहविप्रलम्भशृङ्गाराभ्यां स्वतिरोधानेनोपकृतः संभोगशृङ्गारो नायिकानिष्ठो निबद्धस्तद्योगाच्च रसवत्त्वमलं भविष्यति। तथाहि "कथमपि कृतप्रत्यापत्तौ प्रिये"इत्यत्र भागे विरहविप्रलम्भपूर्वकः प्रियतमचित्तसांमुख्यात्मा संभोगशृङ्गारः सूचितः। स्स्वलितोत्तर इति तु संजातगोत्रस्खलितत्वात्प्रेयसो नायिकाया ईष्र्याविप्रलम्भशृंगारो निबद्धः। पुनश्च विरहकृशयेत्यादिभिस्त्रिभिः पादैरवहित्थेन भावेन नायिकाधारमीष्र्या विप्रलम्भशृङ्गारं प्रच्छाद्य संभोगशृङ्गारेण चित्तोल्लाससूचितेन वाक्यार्थसमाप्तिः कृता। तथा हि---विरहकृशेत्यादिना पादेन नायिकागतो मन्युरवच्छाद्योपदर्शितः। असहनसखीत्यादिना तु गोत्रस्खलितस्य सखीश्रोत्रप्राÏप्त विरहविप्रलम्भकारणत्वेनाशङ्क्य दृष्टिपरावृत्त्या सखीजनशून्ये गृहे परिदृष्टे यत्तन्नयकया समुल्लसितं तदुपनिबन्धात्संभोगशृङ्गारेण वाक्यार्थो निर्वाहितः। तदेवमत्र संभोगस्य वप्रलम्भवाधेन लब्धपदबन्धस्योपनिबन्धाद्रसवत्त्वमलङ्कारः। तत्कथमत्र निरलङ्कारतोक्ता। उच्यते। न खलु काव्यस्य रसानां वालङ्कार्यालङ्कारभावः, किन्तु आत्मशरीरभावः। रसा हि कावयस्यात्मत्वेन अवस्थिताः, शब्दार्थौ च शरीररूपतया। यथा ह्यात्माधिष्ठितं शरीरं जीवतीति व्यपदिश्यते तथा रसाधिष्ठितस्य काव्यस्य जीवद्रूपतया व्यपदेशः क्रियते। तस्माद्रसानां काव्यशरीरभूतशब्दार्थविषयतयात्मत्वेनावस्थानं, नत्वलङ्कारतया। रसाभिव्यक्तिश्च यथायोगं माधुर्यौजोभ्यां तारतम्येनावस्थिताभ्यामुपबृंहितो योऽसौ प्रसादात्मा गुणस्तेन क्रियते। अतोऽत्र विप्रलम्भशृङ्गारोपकृतस्य संभोगशृङ्गारस्य सगुणकाव्यात्मत्वेनावस्थानं, न तु काव्यं प्रति अलङ्कारतयेति युक्तमिदमुक्तं निरलङ्कारमपि काव्यं सगुणं दृश्यते इति। एवं रसान्तरेषु भावेषु रसभावाभासेषु तत्प्रशमेषु च वाच्यम्। तदाहुः---"रसाद्यधिष्ठितं काव्यं जीवद्रूपतया यतः। कथ्यते तद्रसादीनां काव्यात्मत्वं व्यवस्थितम्।।"इति।

यत्तु रसादीनां पूर्वमलङ्कारत्वमुक्तं तदेवंविधभेदाविवक्षया। तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्सरसमेव काव्यम्। यद्येवं गुणशून्यत्वान्नीरसे

व्याकरणादौ भरतादौ च काव्यव्यपदेशो न प्राप्तः। ततश्च "वृत्तदेवादिचरितशंसि चोत्पीद्यवस्तु च। कलाशास्त्राश्रयं चेति चतुर्धा भिद्यते पुनः।।"इति भामहोदितं विरुध्यते, अत्र हि कलाश्रयशब्देन भरताद्यभिहितम्। शास्त्राश्रयशब्देन च व्याकरणादि। अतो वक्तव्यमेतत्कथं तत्र काव्यव्यपदेशः इति। उच्यते। मुख्यया तावद्वृत्त्या गुणसंस्कृतशब्दार्थशरीरमेव काव्यम्। गुणरहितशब्दार्थशरीरे तु क्वायमात्रे काव्यशब्दस्य काव्यसादृश्यादुपचारात्प्रयोगो भविष्यति। उक्तं च---"काव्यशब्दोऽयं गुणालङ्कारसंस्कृतयोः शब्दार्थयोर्वर्ते, भक्त्या तु शब्दार्थमात्रवचनोऽत्र गृह्ते"इति। भक्त्येति उपचारेणेत्यर्थः। तदेवं गुणसंस्कृतशब्दार्थशरीरत्वात्काव्यस्य सरसत्वमिति। तद्विशिष्टं काव्यलिङ्गं

सरसपदार्थनिष्ठमेव भवतिष न तु नीरसवस्तुमात्रनिष्ठं शास्त्रलिङ्गवदित्युपपन्नम्। तार्किकाणां च हेतुव्यापारे द्वैविध्यम्। केचित्खलु तार्कका व्याप्तिग्रहणकाले यदनुभूतं व्यापकं वह्न्यादिवस्तु धूमादेव्र्याप्यस्य तत्स्मरणमात्रे धूमादिहेतुदर्शनप्रबुद्धसंस्काराणां पुरुषाणां हेतुव्यापारं मन्यन्ते। अपरे तु वह्न्यादीनां पर्वतादिधर्मविशेषसंबन्धस्य पूर्वमगृहीतस्य धूमादिहेतुव्यापारसामथ्र्येन इदानीमेव अवसेयत्वाल्लिङ्गसामथ्र्याल्लिङ्ग्यनुभवस्यैव उत्पत्तिमाहुः। तदिदमुक्तं स्मृतेरनुभवस्य वेति। तस्योदाहरणम्----

छायेयं तव शोषाङ्गकान्तेः किञ्चिदनुज्ज्वला।

विभूषाघटनोद्देशान्दर्शयन्ती दुनोति माम्।।

अत्र विभूषणविन्यासास्पदभूता ये कण्ठादयस्तदवशिष्टानामङ्गानां यासौ कान्तिः दीप्तिः तस्या अनुज्ज्वला मलिना यासौ छाया शोभा सा लिङ्गं, तत्सामथ्र्याच्च भूषाविन्यासप्रदेशानां भूषणसंबन्धोऽतीतोऽनुमीयते। तेन तत्काव्यलिङ्गम्।।

काव्यदृष्टान्तः---

इष्टस्यार्थस्य विस्पष्टप्रतिबिम्बनिदर्शनम्।

यथेवादिपदैः सून्यं बुधैर्दृष्टान्त उच्यते।।

इष्टस्य प्राकरणिकतया प्रतिपादयितुमभिमतस्यार्थस्य यत्र विस्पष्टतया प्रतिबिम्बं सदृश वस्तु निदश्र्यते तत्र काव्यदृष्टान्तो नामालङ्कारः।

ननु "कोपादेकतराघातनिपतन्मत्तदन्तिनः। हरेर्हरिणयुद्धेषु कियान्व्याक्षेपविस्तरः"इत्येवमादावपि अप्रस्तुतप्रशंसायामिष्टार्थप्रतिबिम्बनिदर्शनं विद्यते। तथाहि---अत्र रामदेवस्य मारीचवधे व्यापारो निरायासो हरिणहननोद्योगिकसरिकिशोरप्रतिबिम्बितत्वेन निदर्शितः। अतोऽत्रापि दृष्टान्तताप्रसङ्गः। नैतत्। यत एतदर्थमेव विस्पष्टग्रहणमुपात्तम्। अत्र हि प्रतिबम्बादेव बिम्बस्योन्नयनाद्विस्पष्टरूपतया इष्टस्यार्थस्य प्रतिबिम्बनिदर्शनं नास्ति। यत्र तु इष्टमर्थं स्वकण्ठेनोपादाय तस्य प्रतिबिम्बमुपदश्र्यते तत्र दृष्टान्तत्वम्। अतो नातव्याप्तिः। उपमादावप्येत्वंविधस्य रूपस्य संभव इति तन्निराकरणार्थमुक्तम्---यथेवादिपदैः शून्यमिति। आदिग्रहणेनात्र साधारणधर्मस्यापि परिग्रहः। तस्योदाहरणम्----

किञ्चात्र बहुनोक्तेन व्रज भर्तारमाप्नुहि।

उदन्वन्तमनासाद्य महानद्यः किमासते।।

अत्र भगवतीकर्तृकाया वरप्राप्तेर्महानदीकर्तृका उदन्वत्प्रार्विस्पष्टतया प्रतिबिम्बत्वेनोपनिबद्धा। अतो दृष्टान्तः।

एवमेतेऽष्टकषट्कत्रिकसप्तकैकादशकषट्कैः षङ्भिर्वर्गैरेकचत्वारिंशदलङ्काराः प्रतिपादिताः।

ननु यत्र काव्ये सहृदयहृदयाह्लादिनः प्रधानभूतस्य स्वशब्व्यापारास्पृष्टत्वेन प्रतीयमानैकरूपस्यार्थस्य सद्भवस्तत्र तथाविधार्थाभिव्यक्तिहेतुः काव्यजीवतभूतः कैश्चत्सहृदयैध्र्वनिर्नाम व्यञ्जकत्वभेदात्मा काव्यधर्मोऽभिहितः। स कस्मादिह नोपदिष्टः। उच्यते। एष्वेवालङ्कारेष्वन्तर्भावात्। तथाहि---प्रतीयमानैकरूपस्य वस्तुत्रैविध्यं तैरुक्तं वस्तुमात्रालङ्काररसादिभेदेन। तत्र वस्तुमात्रं तावत्प्रतीयते यथा---

चक्राभिघातप्रसभाज्ञयैव चकार यो राहुवधूजनस्य।

आलिङ्गनोद्दामविलासवन्ध्यं रतोत्सवं चुम्बनमात्रशेषम्।। इति।

अत्र हि राहुवधूरतोत्सवस्य या चुम्बनमात्रेशेषता तत्कर्मका चक्राभिघातप्रसभाज्ञाकरणिका चकारेति करणलक्षणा क्रियाभिधीयते। सा

चैवंविधा कार्यभूतत्वात्कारणमन्तरेणानुपपद्यमाना तथाविधवैरस्यकारि राहुशिरश्छेदलक्षणं कारणं नालङ्काररूपं, नापि रसादिरूपं, अपि तु वस्तुमात्ररूपं कल्पयति। अतोऽत्र वस्तुमात्रस्यैवंविधस्य शब्दव्यापारास्पृष्टस्य प्रतीयमानता, तद्विषयस्य च काव्यधर्मस्य ध्वननाभिधानस्य वाच्यवाचकव्यापारशून्यावगमनस्वभावत्वात्पर्यायोक्तालङ्कारस्पर्शित्वं, तदुक्तम्----"पर्यायोक्तं यदन्येन"इत्यादि।

ननु पर्यायोक्तशब्देन प्रकारान्तरेण उच्यमान्त्वात्प्रतीयमानं वस्तु अभिधीयते। तच्चेह प्रतीयमानं

प्रधानत्वादलङ्कार्यतया वक्तुं युक्तम्, न त्वलङ्कृतिकारणतया। अतः कथं तस्यालङ्कारव्यपदेशः। उच्यते। प्रधानमपि गुणानां सौन्दर्यहेतुत्वादलङ्कृतौ साधनत्वं भजति। दृश्यते हि लोके व्यपदेशः स्वाम्यलङ्करणका भृत्या इति। अतोऽत्रापि प्रतीयमानस्य सत्यपि प्रधानत्वे स्वगुणभूतवाच्यसौन्दर्यसाधकतमत्वादलङ्कारव्यपदेशो न विरुध्यते। यदि वा भगवद्वासुदेववर्तितया योऽसौ वीररसोऽवगम्यते तदपेक्षया तस्य मुख्ययैव वृत्त्या गुणभूतत्वादलङ्कारता। एवमुत्तरत्रापि यथासंभवं योज्यम्।

"स्निग्धस्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना

वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः।

कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे

वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव।।"

इत्येवमादावपि रामादीनां शब्दानामसाधारणरूपतया राज्यभ्रंशवनवाससीताहरणपितृमरणादयो दुःखैकहेतवः स्वार्थसहचारिणो वस्तुमात्ररूपा व्यङ्ग्यधर्मास्तत्परिणतरूपतया स्वार्थस्य प्रतीतिस्तद्वेतुभूतत्वात्पर्यायोक्तालङ्कारसंस्पर्शितैव। न खलु पदे पर्यायोक्तेन भवितव्यमितीयं राज्ञामाज्ञा सूत्रकारवचनं वा। लक्षणयोगाद्वि विभक्तरूपतावस्थाप्यते। अत्र च पर्यायोक्तलक्षणं विद्यते। वाच्यवाचकव्यापारशून्यस्यावगमनात्मनः प्रकारस्य सद्भावात्। तेन कथं पर्यायोक्तता न स्यात्। एवमन्यत्रापि वस्तुमात्रे प्रतीयमाने पर्यायोक्तता वाच्या। तस्मान्न वस्तुमात्रे प्रतीयमाने तदभिव्यक्तिहेतुः काव्यधर्मो ध्वनिर्नामार्थान्तरम्।। अलङ्काराणां तु यद्यपि---

"लावण्यकान्तिपरिपूरितदिङ्भुखेऽस्मिन्

स्मेरेऽधुना तव मुखे तरलायताक्षि।

क्षोभं यदेति न मनागपि तेन मन्ये

सुव्यक्तमेव जलराशिरयं पयोधिः"।।

इत्यादौ प्रतीयमानैकरूपता, तथाप्यनन्तरोक्तलक्षणेष्वलङ्कारेषु अनुप्रवेशो भविष्यति पर्यायोक्ते वा। तथा ह्यत्र श्लोके मुख्यस्य लावण्यकान्तिपरिपूरितदिङ्भुखस्य विकसितहासज्योत्स्नस्य संबोधनसामथ्र्यावसिततरलायताक्षित्वस्य च संनिधानाज्जलनिधेः क्षोभमुपपत्तिमत्त्वेन संभाव्य तद्भावो जाड्यसमूहावच्छादितस्वभावत्वादभिहितः। तथाविधार्थपर्यालोचनया चात्र मुखस्य चन्द्रेण रूपणा प्रतीयते। चन्द्रसंनिधानाज्जलनिधेः क्षोभस्योत्पाददर्शनात्। न च यस्यालङ्कारस्य प्रतीयमानरूपता तस्येहालङ्कारत्वं केनचिन्निवारितमिति प्रतीयमानरूपतया रूपकाख्योऽलङ्कारो भविष्यति। अथवा पर्यायोक्त्या रूपकस्यात्रावसतत्वात्पर्ययोक्तमलङ्कारः।

"सुवर्णपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः।

शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम्।।"

इत्यादौ तु शूरादिभिः सह सुवर्णपुष्पपृथिवीकर्मकस्य चयनस्यानुपपद्यमानान्वयत्वात्सादृश्यस्यान्वयेनोपमेयभूतस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तद्द्वारेण गर्भीकृतोपमानोपमेयभावा असंभवद्वाच्यार्था निदर्शना द्रष्टव्या। यदुक्तम्---"अभवन्वस्तुसंबन्ध"इत्यादि। भट्टवामनेन चात्र वक्तोक्तिव्यवहारः प्रवर्तितः। यदवोचत्---"सादृश्याल्लक्षणा वक्तोक्तिरि"ति।

"सर्वैकशरणमक्षयमधीशमीशं धियां हरिं कृष्णम्।

चतुरात्मानं निष्क्रियमरिमथनं नमत चक्रधरम्।।"

इत्यादावपि श्लेषः। तथा ह्यत्र सर्वैकशरणमक्षयमित्यादीनां शब्दानामर्थभेदेन भिन्नत्वे सति यथायोगमेकप्रयत्नोच्चार्याणामेकप्रतयत्नोच्चार्यशब्दसदृशानां वोच्चारणम्। अतो विरोधालङ्कारप्रतिभोत्पत्तिहेतुरत्र श्लेषः। यदुक्तम्---"एकप्रयत्नोच्चार्याणाम्"इत्यादि।

एवमलङ्कारान्तरेष्वपि प्रतीयमानेषु वाच्यम्। तेनालङ्कारनिष्ठस्यापि अभिव्यञ्जकत्वस्योक्तेष्वलङ्कारेष्वन्तर्भावादव्याप्त्यभावः। रसभावतदाभासतत्प्रशमानां तु

प्रतीयमानतायामुदाहरणम्----

"याते गोत्रविपर्यये श्रुतिपथं शय्यामनुप्राप्तया

निध्र्यातं परिवर्तनं पुनरपि प्रारब्धुमङ्गीकृतम्।

भूयस्ततप्रकृतं कृतं च शिथिलक्षिप्तैकदोर्लेखया

तन्वङ्ग्या न तु पारितः स्तनभरः ऋष्टुं प्रियस्योरसः।।"इति।

तथा हि--अत्र गोत्रस्खलितस्य श्रुतिपथप्राप्तेरीष्र्याविप्रलम्भशृङ्गारो नायिकायाः संमुखीभूतोऽपि संभोगशृङ्गारेण स्वहेतुसामग्र्यप्रतिलब्धप्रकर्षेण तिरोधाय प्रदर्शितः। निध्र्यातं परिवर्तनमित्यादिना हि यथाक्रममीष्र्याविप्रलम्भशृङ्गारानुभावस्य परिवर्तनस्य दर्शनप्रार्थनाध्यवसायानुष्ठानात्मिकाश्चतस्रोऽवस्थाः संभोगशृङ्गारमन्थरीकृतस्वस्वभावत्वेनोपवर्णिताः। पुनश्च संभोगशृङ्गारेण वाक्यार्थो निर्वाहितो "न तु पारितः"इत्यादिना। अतोऽत्र संभोगशृङ्गारस्येष्र्याविप्रलम्भशृङ्गारतिरोधानहेतोः प्रतीयमानता। तत्र च पूर्वं रसवत्त्वलक्षणोऽलङ्कारः प्रतिपादितो "रसवद्दर्शित"इत्यादिना। एवं रसान्तरेष्वपि वाच्यम्।

यत्रापि भावस्तथा रसभावाभासा रसभावतदाभासप्रशमाश्च प्रतीयमानास्तत्रापि यथाक्रमं प्रेयस्वदूर्जस्वित्समाहितलक्षणालङ्कारयोगो वाच्यः। एवमेतत्प्रधानभूतेषु रसादिषूक्तम्। गुणभूतेष्वपि च रसेषूदात्तालङ्कारः प्रतिपादितः "चरितं च महात्मनाम्"इत्यादिना। अतश्च रसादिष्वभिव्यञ्जकत्वस्य नार्थान्तरता। एवं च त्रिविधेऽपि प्रतीयमानेऽर्थे यच्छष्ठानां व्यञ्जकत्वमनन्तरोपवर्णितेषूदाहरणेषु षटूप्रकारतयोपदर्शितं तस्योक्तेष्वेवालङ्कारेष्वन्तर्भावाद्य्वाप्तिः।

षट्प्रकारता चात्र त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यामुक्त। तथा हि---द्विविधं व्यञ्जकत्वं, वाचकशक्त्याश्रयं वाच्यशक्त्याश्रयं च। तत्र वाचकशक्त्याश्रयमलङ्काराणामेव व्यङ्ग्यत्वादेकप्रकारम्। तत्र ह्यलङ्कारा एव व्यज्यन्ते, न तु वस्तुमात्रं नापरसादयः, यदुक्तम्----"आक्षिप्त एवालङ्कारः शब्दशक्त्या प्रकाशते। यस्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः।।"इति। वाच्यशक्त्याश्रयं तु रसादिवस्तुमात्रालङ्काराभिव्यक्तिहेतुत्वात्र्रिविधम्। तत्र यत्तावद्वाचकशक्त्या श्रयं व्यङ्ग्यभूतालङ्कारैकनियतं शब्दशक्तिमूलानुरणनरूपव्यङ्गयतया सहृदयैव्र्यञ्जकत्वामुक्तं "सर्वैकशरणमक्षयम्"इत्यादौ, तत्र शब्दशक्त्या ये प्रतीयन्ते विरोधादयोऽलङ्कारास्तत्संस्कृतस्वभावं वाच्यमवगम्येते। अतश्चत्र वाच्यस्य विवक्षैव।

यत्तु वाच्यशक्त्याश्रयं "याते गोत्रविपर्यये श्रुतिपथम्"इत्यादावसंलक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठं व्यञ्जकत्वमुक्तं तत्रापि वाच्यस्य विवक्षितत्वमेव। वाच्यभूतानुभावादिविवक्षयैव व्यङ्ग्यरसादिप्रतीतेरुत्पादात्। तदेवं वाचकशक्त्याश्रयव्यङ्ग्यभूतालङकारैकनियते वाच्यशक्त्याश्रये चासंलक्ष्यक्रमरसादिव्यङ्ग्यनिष्ठे व्यञ्जकत्वे वाच्यस्य विवक्षितत्वमेव। वस्तुमात्रालङ्कारविषयस्य तु वाच्यशक्त्याश्रयस्य व्यञ्जकत्वस्य प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम्। तथाहि "चक्राभिघातप्रसभाज्ञये"त्यादौ वस्तुविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वं कार्यविवक्षापूर्वकत्वेन कारणप्रतीतिप्रसवात्। "स्निग्धश्यामलकान्ती"त्यादौ तु रामादिशब्दानामर्थान्तरसंक्रमितवाच्यानां वाच्यमविवक्षितम्। व्यङ्ग्यधर्मान्तरपरिणतत्वात्। एव वस्तुमात्रविषये व्यञ्जकत्वे वाच्यस्य विवक्षाविवक्षे,ऽलङ्कारविषयेऽपि वाच्यशक्त्याश्रये व्यञ्जकत्वे।

"लावण्यकान्ती"त्यादौ एकस्मिन्मन्ये इत्येतस्मिन्शब्दे यो विशेषोक्त्युत्प्रेक्षयोरनुप्रवेशस्तद्वशेन समासादितस्वभावो योऽसावेकशब्दाभिधानसंकरस्तत्प्रतभोत्पत्तिहेतुश्लेषप्रौढीकृतं वाच्यं विवक्षितम्। तन्मूलकत्वेन रूपकप्रतीतेरुत्पादात्।

"सुवर्णपुष्पां पृथिवी"मित्यादौ तु वाच्यस्याविवक्षा। उपमेयस्य बहुलाभत्वस्य तत्सदृशस्य या लक्षणा तस्या अत्यन्ततिरस्कृतवाच्यमूलत्वात्। यदि त्वत्र न तिडन्तेनोपमानमस्तीति दृष्ट्यात तद्भावाध्यवसानात्सुवर्णपुष्पपृथिवीचयनलक्षणोपमानावच्छादितरूपत्वेन शूरादिविषयस्य बहूलाभत्वस्योपमेयस्य प्रौढोक्त्या प्रतिपत्तिः, ततोऽत्र प्रौढोक्तिमात्रनिष्पन्नशरीरस्य वाच्यस्यार्थस्य प्राधान्या "द्भेदेऽनन्यत्वमि"त्येवमात्मकतयोपवर्णितमतिशयोक्तिभेदत्वं वाच्यम्। व्यङ्ग्या ह्युपमा तदानीमत्र गुणीभवति।

एवमलङ्कारनिष्ठस्यापि व्यञ्जकत्वस्य वाच्यविवक्षितत्वाविवक्षितत्वाभ्यां द्वैविध्यम्। यत्र चाविवक्षा वाच्यस्य वस्तुनिष्ठेऽलङ्कारनिष्ठे वा व्यञ्जकत्वे तत्र व्यङ्ग्यरसादेर्झगित्यवगम्यमानत्वादसंलक्ष्यक्रमता द्रष्टव्या। यदुक्तं भट्टवामनेन---"लक्षणायां हि झगित्यर्थप्रतिपत्तक्षमत्वं रहस्यमाचक्षते"इति। अत एव च सहृदयैर्यत्र वाच्यस्य विवक्षितत्वं तत्रैव वस्त्वलङ्कारयोः प्रतीयमानयोर्वाच्येन सह क्रमव्यवहारः प्रवर्तितोऽर्थशक्तिमूलानुरणनरूपव्यङ्ग्यो ध्वनिरित्युक्तं, न तु वाच्यविवक्षायामपि। यत्र च वाच्यस्याववक्षा पूर्वमुक्ता "रामोऽस्मी"ति "सुवर्णपुष्पा"मिति च तत्र वयमधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धादप्रस्तुतप्रशंसाभेदत्वमेव न्याय्यं मन्यामहे। यदुक्तं "अधिकारादपेतस्ये"त्यादि।

यत्तु पूर्वपर्यायोक्तभेदत्वं "स्निग्धश्यामलकान्ती"त्यादौ रामादीनां शब्दानामभिहितं तदुपक्रममात्ररूपतया द्रष्टव्यम्। विवक्षितवाच्यस्य पर्यायोक्तभेदत्वात्। यत्र खलु वाच्यविवक्षापूर्वकत्वेन अर्थान्तरं प्रतीयते "चक्राभिघाते"त्यादावुदाहरणचतुष्टये तत्र पर्यायोक्तभेदता। पर्यायोक्तलक्षणस्याप्रस्तुतप्रशंसालक्षणविचारवशेन तद्य्वतिरिक्तविषयावगाहित्वात्। यत्र त्वविवक्षिते वाच्येऽर्थान्तरसय प्रतीतिस्तत्राप्रस्तुतप्रशंसा। अतश्च पर्यायोक्ताप्रस्तुतप्रशंसयोरेव यथाक्रमं विवक्षिताविवक्षितवाच्ययोः सर्वध्वनिभेदसामान्यभूतयोध्र्वनिभेदयोरन्तर्गतिर्वाच्या। "सुवर्णपुष्पां पृथिवीम्"इत्यादौ तु विदर्शनाभेदत्वं यत्पूर्वमुक्तं तदधिकारोपेतप्रस्तुतार्थानुबन्धिवस्तूपनिबन्धात्मत्वेनासंभवद्वाच्याया विदर्शनाया अप्रस्तुतप्रशंसाभेदत्वादुपपद्यत एव। एतच्च विद्वद्भिर्विचार्य गृहीतव्यं न त्ववमृश्यैवासूयितव्यमित्यलमतिवचालतया।

तदेवं वाचकशक्तमूलेऽलङ्कारैकनियते वाच्यशक्तिमूले च रसादिविषये व्यञ्जकत्वे वाच्यस्य विवक्षितत्वैकरूपत्वम्। वस्त्वलङ्कारविषये तु वाच्यशक्तिमूले व्यञ्जकत्वे प्रत्येकं वाच्यस्य विवक्षितत्वाविवक्षितत्वाभ्यां द्विभेदता। अतस्तत्समाश्रयणेन त्रिविधप्रतीयमानार्थनिष्ठस्यापि व्यञ्जकत्वस्य षट्प्रकारता भवति। एतेषां च षण्णां भेदानां मध्याद्द्वयोर्भेदयोर्वाच्यस्याविवक्षोक्ता। चतुर्षु विवक्षितत्वम्। यत्र च विवक्षितत्वं तत्र वाच्यस्य स्वतःसंभवित्वात्प्रौढोक्तिमात्रनिष्पादितशरीरत्वाच्च द्वैविध्यम्। अतस्तत्र तस्याष्टौ भेदा भवन्ति। एते चाष्टौ भेदा वाच्यस्य यत्राविवक्षा तद्विषयाभ्यां पूर्वोदिताभ्यां द्वाभ्यां भे दाभ्यां संकलिताः सन्तो दश संपद्यन्ते। एत एव तु पदवाक्यप्रकाश्यतया द्वैगुण्यं भजमाना विंशतिर्भव्ति। वर्णसंघटनाप्रबन्धाधारस्य व्यञ्जकत्वस्य कृत्तद्धितादिगतसय च पदवाक्यानुप्रवेशेनैवाविर्भावात्। पदप्रकाश्यत्वे यथा "रामोऽस्मीति"। "चक्राभिधाते"त्यादौ तु वाक्यप्रकाश्यता। यथा च प्रधानभूते व्यङ्ग्ये एषा व्यञ्जकता र्विशतिविधा भवति, तथा गुणीभूतेऽपि यथासंभवं योज्येति। तदाहुः-----

विवक्ष्यमविवक्ष्यं च वस्त्वलङ्कारगोचरे।

वाच्यं ध्वनौ विवक्ष्यं तु शब्दशक्तिरसास्यदे।।श

भेदषट्के चतुर्धा यद्वाच्यमुक्तं विवक्षितम्।

स्वतःसंभवि वा तत्स्यादथ वा प्रौढिनिर्मितम्।।

दश भेदा ध्वनेरेते विंशतिः पदवाक्यतः।

प्रधानबद्भुणीभूते व्यङ्ग्ये प्रायेण ते तथा।। इति।

वस्त्वलङ्कारवाच्ये ध्वनौ प्रत्येकं वाच्यं विवक्ष्यमविवक्ष्यं चेति संबन्धः। विवक्ष्यमिति विवक्षार्हमित्यर्थः। शब्दशक्तिरसास्पद इति वाच्यकशक्तसमाश्रयं रसादिव्यङ्ग्यनिष्ठं च व्यञ्जकत्वमुक्तम्। तद्विशिष्टशकिं्त व्यञ्जकभूतां रसादींश्च व्यङ्ग्यभूतानास्पदीकरोति। एवमेतद्य्वञ्जकत्वं

पर्यायोक्तादिष्वन्तर्भावितम्। एतच्चेह बहुवक्तव्यत्वान्न वैतत्येन प्रपञ्चितम्। कुशाग्रीयबुद्धीनां हि दिङ्भात्र एवोपदर्शिते सति बुद्धिवल्ली प्रतानशतैर्नानादिग्वयापित्वेन विस्तारमासादयतीति।।

मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात्

साहित्यश्रीमुरारेर्बुधकुसुममधोः शौरिपादाब्जभृङ्गात्।

श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलत्कीर्तिवल्ल्यालवालात्

काव्यालङ्कारसारे लघुविवृतिमधात्कौङ्कणः श्रीन्दुराजः।।


इति महाश्रीप्रतीहारेन्दुराजविरचितयामुद्भटालङ्कारसारसंग्रहलघुवृत्तौ षष्टो वर्गः।।