कालिकापुराणम्/अध्यायः ८३

विकिस्रोतः तः

।। त्र्यशीतितमोऽध्यायः ।।
।।और्व्व उवाच।।
अथ काले व्यतीते तु जमदग्निर्महातपाः।
विदर्भराजस्य सुतां प्रयत्नेन जितां स्वयम्।। ८३.१ ।।

भार्यार्थं प्रतिजग्राह रेणुकां लक्षणान्विताम्।
सा तस्मात् सुषुवे षत्रांश्चतुरो वेदसम्मितान्।। ८३.२ ।।

रुषण्वन्तं सुषेणां च वसुं विश्वावसुं तथा।
पश्चात् तस्यां स्वयं जज्ञे भगवान् मधुसूदनः।। ८३.३ ।।

कार्तवीर्यवधायाशु शक्राद्यैः सकलैः सुरैः।
याचितः पंचमः सोऽभूत् रामाह्वयस्तु सः।। ८३.४ ।।

भारावतरणार्थाय जातः परशुना सह।
सहजं परशुं तस्य न जहाति कदाचन।। ८३.५ ।।

अयं निजपितामह्याश्चरुभुक्तिविपर्ययात्।
ब्राह्मणः क्षत्रियाचारो रामोऽभूत क्रूरकर्मकृत्।। ८३.६ ।।

स वेदानखिलान् ज्ञात्वा धनुर्वेदं च सर्वशः।
सततं कृतकृत्योऽभूद् वेदविद्याविशारदः।। ८३.७ ।।

एकदा तस्य जननी स्नानार्थं रेणुका गता।
गङ्गातोये ह्यथापश्यन्नाम्ना चित्ररथं नृपम्।। ८३.८ ।।

भार्याभिः सदृशीभिश्च तलक्रीडारतं शुभम्।
सुमालिनं सुवस्त्रं तं तरुणं चन्द्रमालिनम्।। ८३.९ ।।

तथाविधं नृपं दृष्ट्वा सञ्जातमदना भृशम्।
रेणुका स्पृहयामास तस्मै राज्ञे सुवर्चसे।। ८३.१० ।।

स्पृहायुतायास्तस्यास्तु संक्लेदः समजायत।
विचेतनाम्भसा क्लिन्ना त्रस्ता सा स्वाश्रमं ययौ।। ८३.११ ।।

अबोधि जमदग्निस्तां रेणुकां विकृतां तथा।
धिग् धिक्काररतेत्येवं निनिन्द च समन्ततः।। ८३.१२ ।।

ततः स तनयान् प्राह चतुरः प्रथमं मुनिः।
रुषण्वत्प्रमुखान् सर्वानेकैकं क्रमतो द्रुतम्।। ८३.१३ ।।

छिन्धीमां पापनिरतां रेणुकां व्यभिचारिणीम्।
ते तद्वचो नैव चक्रुर्मूकाश्चासन् जडा इव।। ८३.१४ ।।

कुपितो जमदग्निस्ताञ्छशापेति विचेतसः।
गाधिं नृपतिशार्दूलं स चोवाच नृपो मुनिम्।। ८३.१५ ।।

भवध्वं यूयमाचिराज्जडा गोबुद्धिगर्धिताः।
अथाजगाम चरमो जामदग्न्येऽतिवीर्यवान्।। ८३.१६ ।।

तं च रामं पिता प्राह पापिष्ठां छिन्धि मातरम्।
स भ्रातृंश्च तथाभूतान् दृष्ट्वा ज्ञानविवर्जितान्।। ८३.१७ ।।

पित्रा शप्तान् महातेजाः प्रसूं परशुनाच्छिनत्।
रामेण रेणुकां छिन्नां दृष्ट्वा विक्रोधनोऽभवत्।। ८३.१८ ।।

जमदग्निः प्रसन्नः सन्निति वाचमुवाच ह।
प्रीतोऽस्मि पुत्र भद्र ते यत् त्वया मद्वचः कृतम्।। ८३.१९ ।।

तस्मादिष्टान् वरान् कामांस्त्वं वै वरय साम्प्रतम्।
स तु रामो वरान् वव्रे मातुरुत्थानमादितः।। ८३.२० ।।

वधस्यास्मरणं तस्या भ्रातृणां शपमोचनम्।
मातृहत्याव्यपनयं युद्धे सर्वत्र वै जयम्।। ८३.२१ ।।

आयुः कल्पान्तपर्यन्तं क्रमाद् वै नृपसत्तम।
सर्वान् वरान् स प्रददौ जमदग्निर्महातपाः।। ८३.२२ ।।

सुप्तोत्यितेव जननी रेणुका च तदाभवत्।
वधं न चापि सस्मार सहजा प्रकृतिस्थिता।। ८३.२३ ।।

युद्धे जयं चिरायुष्यं लेभे रामस्तदैव हि।
मातृहत्याव्यपोहाय पिता तं वाक्यमव्रवीत्।। ८३.२४ ।।

न पुत्र वरदानेन मातृहत्यापगच्छति।
तस्मात् त्वं ब्रह्मकुण्डाय गच्छ स्नातुं च तज्जले।। ८३.२५ ।।

तत्र स्नात्वा मुक्तपापो नचिरात् पुनरेष्यसि।
जगद्धिताय पुत्र त्वं ब्रह्मकुण्डं व्रज द्रुतम्।। ८३.२६ ।।

स तस्य वचन श्रुत्वा रामः परशुधृक् तदा।
उपदेशात् पितुर्घातो ब्रह्मकुण्डं वृषोदकम्।। ८३.२७ ।।

तत्र स्नानं च विधिवत् कृत्वा धौतपरश्वधः।
शरीरान्निःसृतां मातृहत्यां सम्यग् व्यलोकयत्।। ८३.२८ ।।

जातसंप्रत्ययः सोऽथ तीर्थमासाद्य तद्वरम्।
वीथीं परशुना कृत्वा ब्रह्मपुत्रमवाहयत्।। ८३.२९ ।।

ब्रह्मकुण्डात् सृतः सोऽथ कासारे लोहिताह्वये।
कैलासोपत्यकायां तु न्यपतद् ब्रह्मणः सुतः।। ८३.३० ।।

तस्यापि सरसस्तीरे समुत्थाय महाबलः।
कुठारेण दिशं पूर्वामनयद् ब्रह्मणः सुतम्।। ८३.३१ ।।

ततः परत्रापि गिरिं हेमशृङ्गं विभिद्य च।
कामरूपान्तरं पीठमावहद्यदमुं हरिः।। ८३.३२ ।।

तस्य नाम स्वयं चक्रे विधिर्लोहितगङ्गकम्।
लोहितात् सरसो जातो लोहिताख्यस्ततोऽभवत्।। ८३.३३ ।।

स कामरूपमखिलं पीठमाप्लाव्य वारिणा।
गोपयन् सर्वतीर्थानि दक्षिणं याति सागरम्।। ८३.३४ ।।

प्रागेव दिव्ययमुनां स त्यक्त्वा ब्रह्मणः सुतः।
पुनः पतति लौहित्ये गत्वा द्वादशयोजनम्।। ८३.३५ ।।

चैत्रे मासि सिताष्टम्यां यो नरो नियतेन्द्रियः।
चैत्रं तु सकलं मासं शुचिः प्रयतमानसः।। ८३.३६ ।।

स्नाति लौहित्यतोये तु स याति ब्रह्मणः पदम्।
लौहित्यतोये यः स्नाति स कैवल्यमवाप्नुयात्।। ८३.३७ ।।

इति ते कथितं राजन् यदर्थं मातरं पुरा।
अहन् वीरो जामदग्न्यो यस्माद् वा क्रूरकर्मकृत्।। ८३.३८ ।।

इदं तु महदाख्यानं यः शृणोति दिने दिने।
स दीर्घायुः प्रमुदितो बलवानभिजायते।। ८३.३९ ।।

इति ते कथितं राजञ्छरीरार्धं यथाद्रिजा।
शम्भोर्जहार वेतालभैरवौ च यथाह्वयौ।। ८३.४० ।।

यस्य वा तनयौ जातौ यथा यातौ गणेशताम्।
किमन्यत् कथये तुभ्यं तद्वदस्व नृपोत्तम।। ८३.४१ ।।

।।मार्कण्डेय उवाच।।
इत्यौर्व्वस्य च संवादः सगरेम महात्मना।
योऽसौ कायार्धहरणं शम्भोर्गिरिजया कृतः।। ८३.४२ ।।

सर्वोऽद्य कथितो विप्राः पृष्टं यच्चान्यदुत्तमम्।
सिद्धस्य भैरवाख्यस्य पीठानां च विनिर्णयम्।। ८३.४३ ।।

भृङ्गिणश्च यथोत्पत्तिर्महाकालस्य चैव हि।
उक्तं हि वः किमन्यत् तु पृच्छन्तु द्विजसत्तमाः।। ८३.४४ ।।

इति सकलसुतन्त्रं तन्त्रमन्त्रावदातं बहुतरफलकारि प्राज्ञविश्रामकल्पम्।
उपनिषदमवेत्य ज्ञानमार्गेकतानं स्रवति स इह नित्यं यः पठेत् तन्त्रमेतत्।। ८३.४५ ।।

।। इति श्रीकालिकापुराणे त्र्यशीतितमोऽध्यायः।। ८३ ।।