कालिकापुराणम्/अध्यायः ८

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कालिकापुराणम् अष्टमोऽध्यायः सती-उत्पत्तिः
अथ कालिका पुराण अध्याय ८
।। मार्कण्डेय उवाच ।।
ततो ब्रह्मापि मदनमुवाचेदं वचः पुनः ।
निश्चित्य योगनिद्रायाः स्मृत्वा वाक्यं तपोधनाः ।। १ ।।
।। ब्रह्मोवाच ।।
अवश्यं शम्भुपत्नी सा योगनिद्रा भविष्यति ।
यथाशक्ति भवांस्तत्र करोत्वस्याः सहायताम् ॥२॥
गच्छ त्वं स्वगणैः सद्धिं यत्र तिष्ठति शङ्करः ।
द्रुतं मनोभव त्वं च तत् स्थानं मधुना सह ।। ३ ।।
रात्रिन्दिवस्य तुर्याशं जगन्मोहय नित्यशः ।
भागत्रयं शम्भुपार्श्वे तिष्ठ सार्द्धं गणैः सदा ॥४॥
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा सर्वलोकेशस्तत्रैवान्तरधीयत ।
शम्भोः सकाशं मदनो गतवान् सगणस्तदा ॥५॥
एतस्मिन्नन्तरे दक्षश्चिरं कालं तपोरतः ।
नियमैर्बहुभिर्देवीमाराधयत सुव्रतः ।।६।।
ततो नियमयुक्तस्य दक्षस्य मुनिसत्तमाः ।
योगनिद्रां पूजयत: प्रत्यक्षमभवच्छिवा ।।७।।
ततः प्रत्यक्षतो दृष्ट्वा विष्णुमायां जगन्मयीम् ।
कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ॥८॥
सिंहस्थां कालिकां कृष्णां पीनोत्तुंगपयोधराम् ।
चतुर्भुजां चारुवक्त्रां नीलोत्पलधरां शुभाम् ।।९।।
वरदाभयदां खड्गहस्तां सर्वगुणान्विताम् ।
आरक्तनयनां चारुमुक्तकेशीं मनोहराम् ।।१०।।
दृष्ट्वा दक्षोऽथ तुष्टाव महामायां प्रजापतिः ।
प्रीत्या परमया युक्तो विनयानतकन्धरः ।। ११ ।।
।। दक्ष उवाच ।।
आनन्दरूपिणीं देवीं जगदानन्दकारिणीम् ।
सृष्टिस्थित्यन्तरूपां तां स्तौमि लक्ष्मीं हरेः शुभाम् ।।१२।।
सत्त्वोद्रेकप्रकाशेन यज्ज्योतिस्तत्त्वमुत्तमम् ।
स्वप्रकाशं जगद्धाम तत्तवांश महेश्वरि ।।१३।।
रजोगुणातिरेकेण यत् कामस्य प्रकाशनम् ।
रागस्वरूपं मध्यस्थं तत्तेऽशांशं जगन्मयि।।१४।।
तमोगुणातिरेकेण यद्यन्मोहप्रकाशनम् ।
आच्छादनं चेतनानां तत्ते चांशांशगोचरम् ।।१५।।
परा परात्मिका शुद्धा निर्मला लोकमोहिनी ।
त्वं त्रिरूपा त्रयी कीर्तिर्वार्त्तास्य जगतो गतिः ।। १६ ।।
बिभर्ति माधवो धात्रीं यया मूर्त्या निजोत्थया ।
सा मूर्तिस्तव सर्वेषां जगतामुपकारिणी ।। १७ ।।
महानुभावा त्वं विश्वशक्ति: सूक्ष्मापराजिता ।
यदूर्द्धाधोनिरोधेन व्यज्यते पवनैः परम् ।।१८।।
तज्ज्योतिस्तव मात्रार्थे सात्विकं भावसन्मतम् ।
यद्योगिनो निरालम्बं निष्कलं निर्मलं परम् ।।१९।।
आलम्बयन्ति तत्तत्त्वं त्वदन्तर्गोचरन्तु तत् ।
या प्रसिद्धा च कूटस्था सुप्रसिद्धाति निर्मला ।
सा ज्ञाप्तिस्त्वन्निष्प्रपञ्चा प्रपञ्चापि प्रकाशिका ।।२० ॥
त्वं विद्या त्वमविद्या च त्वमालम्बा निराश्रया ।
प्रपञ्चरूपा जगतामादिशक्तिस्त्वमीश्वरी ।। २१ ।।
ब्रह्मकण्ठालया शुद्धा वाग्वाणी या प्रगीयते ।
वेदप्रकाशनपरा सा त्वं विश्वप्रकाशिनी ।। २२ ।।
त्वमग्निस्त्वं तथा स्वाहा त्वं स्वधा पितृभिः सह ।
त्वं नभस्त्वं कालरूपा त्वं काष्ठा त्वं बहिः स्थिता ।। २३ ।।
त्वमचिन्त्या त्वमव्यक्ता तथानिर्देश्यरूपिणी ।
त्वं कालरात्रिस्त्वं शान्ता त्वमेव प्रकृतिः परा ।। २४ ।।
यस्या: संसारलोकानां परित्राणाय यद्बहिः ।
रूपं जानन्ति धात्राद्यास्तत्त्वां ज्ञास्यन्ति के पराम् ।।२५।।
प्रसीद भगवत्यम्बे प्रसीद योगरूपिणी ।
प्रसीद घोररूपे त्वं जगन्मयि नमोऽस्तु ते ।। २६ ।।
।। मार्कण्डेय उवाच ।।
इति स्तुता महामाया दक्षेण प्रयतात्मना ।
उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं द्विजाः ।। २७ ।।
।। भगवत्युवाच ।।
तुष्टाहं दक्ष भवतो मद्भक्त्या ह्यनया भृशम् ।
वरं वृणीष्व चाभीष्टं तत्ते दास्यामि तत् स्वयम् ।।२८।।
नियमेन तपोभिश्च स्तुतिभिस्ते प्रजापते ।
अतीव तुष्टा दास्येऽहं वरं वरय वाञ्छितम् ।। २९ ।।
।। दक्ष उवाच ॥
जगन्मयि महामाये यदि त्वं वरदा मम ।
तदा मम सुता भूत्वा हरजाया भवाधुना ।। ३० ।।
ममैष न वरो देवि केवलं जगतामपि ।
लोकेशस्य तथा विष्णोः शिवस्यापि प्रजेश्वरि ।। ३१ ।।
।। देव्युवाच ।।
अहं तव सुता भूत्वा त्वज्जायायां समुद्भवा ।
हरजाया भविष्यामि न चिरात्तु प्रजापते ।। ३२।।
यदा भवान्मयि पुनर्भवेन्मन्दादरस्तदा ।
देहं त्यक्ष्यामि सपदि सुखिन्यप्यथवेतरा ॥३३॥
एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ।
अहं तव सुता भूत्वा भविष्यामि हरप्रिया ॥३४।।
तथा सन्मोहयिष्यामि महादेवं प्रजापते ।
प्रतिसंर्ग तथा मोहं सम्प्राप्स्यति निराकुलम् ॥३५ ।।
।। मार्कण्डेय उवाच ।।
एवमुक्त्वा महामाया दक्षं मुख्यं प्रजापतिम् ।
अन्तर्दधे ततो देवी सम्यग् दक्षस्य पश्यतः ॥ ३६ ॥
अन्तर्हितायां मायायां दक्षोऽपि निजमाश्रमम् ।
जगाम लेभे च मुदं भविष्यति सुतेति सा ॥३७॥
अथ चक्रे प्रजोत्पादं विना स्त्रीसङ्गमेन च ।
सङ्कल्पाविर्भवाश्यान्तु मनसा चिन्तनेन च ।। ३८ ।।
तत्र ये तनया जाता बहुशो द्विजसत्तमाः ।
ते नारदोपदेशेन भ्रमन्ति पृथिवीमिमाम् ।। ३९ ।।
पुनः पुनः सुता ये ये तस्य जाता सहस्रशः ।
ते सर्वे भ्रातृपदवीं ययुर्नारदवाक्यतः ।। ४० ।।
पृथिव्यां सृष्टिकर्तारः सर्वे यूयं द्विजोत्तमाः ।
पश्यध्वं पृथिवीं कृत्स्नामुपान्तप्रान्तमायताम् ।।४१।।
इति नारदवाक्येन नोदिता दक्षपुत्रकाः ।
अद्यापि न निवर्तन्ते भ्रमन्तः पृथिवीमिमाम् ।।४२।।
ततः समुत्पादयितुं प्रजा: मैथुनसम्भवाः ।
उपयेमे वीरणस्य तनयां दक्ष ईप्सिताम् ।
वीरिणी नाम तस्यास्तु असक्नीत्यपि सत्तमाः ।।४३।।
तस्यां प्रथम सङ्कल्पो यदा भूतः प्रजापतेः ।
सद्योजाता महामाया तदा तस्यां द्विजोत्तमाः ।। ४४ ।।
तस्यां तु जातमात्रायां सुप्रीतोऽभूत् प्रजापतिः ।
सैवैषेति तदा मेने तां दृष्ट्वा तेजसोज्ज्वलाम् ।।४५ ।।
बभूव पुष्प्रवृष्टिश्च मेघाश्च ववृषुर्ज्जलम् ।
दिशः शान्तास्तदा तस्यां जातायाञ्च समुद्गताः ।।४६।।
अवादयन्तस्त्रिदशाः शुभवाद्यं वियद्गताः ।
जज्वलुश्चाग्नयः शान्तास्तस्यां सत्यां नरोत्तमाः ।।४७ ।।
वीरिण्या लक्षितो दक्षस्तां दृष्ट्वा जगदीश्वरीम् ।
विष्णुमायां महामायां तोषयामास भक्तितः ।। ४८ ।।
।। दक्ष उवाच ॥
शिवा शान्ता महामाया योगनिद्रा जगन्मयी ।
या प्रोच्यते विष्णुमाया तां नमामि सनातनीम् ।।४९ ।।
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ।
स्थितिञ्च विष्णुरकरोद्यन्नियोगाज्जगत्पत्तिः ।
शम्भुरन्तं ततो देवीं त्वां नमामि महीयसीम् ॥५०॥
विकाररहितां शुद्धामप्रमेयां प्रभावतीम् ।
प्रमाणमानमेयाख्यां प्रणमामि सुखात्मिकाम् ।। ५१ ।।
यस्त्वां विचिन्तयेद्देवीं विद्याविद्यात्मिकां पराम् ।
तस्य भोग्यञ्च मुक्तिश्च सदा करतले स्थिता ।। ५२ ।।.
यस्त्वां प्रत्यक्षतो देवीं सकृत् पश्यति पावनीम् ।
तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिकाम् ।।५३।
योगनिद्रे महामाये विष्णुमाये जगन्मयि ।
या प्रमाणार्थसम्पन्ना चेतना सा तवात्मिका ।।५४।।
ये स्तुवन्ति जगन्मातर्भवतीमम्बिकेति च ।
जगन्मयीति मायेति सर्वं तेषां भविष्यति ।। ५५ ।।
।। मार्कण्डेय उवाच ।।
इति स्तुता जगन्माता दक्षेण सुमहात्मना ।
तथोवाच तदा दक्षं यथा माता शृणोति न ।। ५६ ।।
सम्मोह्य सर्वं तत्रस्थं यथा दक्षः शृणोति तत् ।
नान्यः शृणोति च तथा माययाह तदाम्बिका ॥५७ ।।
।। देव्युवाच ।।
अहमाराधिता पूर्वं यदर्थं मुनिसत्तम ।
ईप्सितं तव सिद्धं तदवधारय साम्प्रतम् ।।५८।।
।। मार्कण्डेय उवाच ।।
एवमुक्त्वा तदा देवी दक्षञ्च निजमायया ।
आस्थाय शैशवं भावं जनन्यन्ते रुरोद सा ।। ५९ ।।
ततस्थां वीरिणी यत्नात् सुसंस्कृत्य यथोचितम् ।
शिशुपालेन विधिना तस्यै स्तन्यादिकं ददौ ।। ६० ।।
पालिता साथ वीरिण्या दक्षेण सुमहात्मना ।
ववृधे शुक्लपक्षस्य निशानाथो यथान्वहम् ।।६१।।
तस्यान्तु सद्गुणाः सर्वे विविशुर्द्विजसत्तमाः ।
शैशवेऽपि यथा चन्द्रे कलाः सर्वा मनोहराः ।।६२।।
रेमे सा निजभावेन सखीमध्यगता यदा ।
तदा लिखति भर्गस्य प्रतिमामन्वहं मुहुः ।। ६३ ॥
यदा गायति गीतानि तदा बाल्योचितानि सा ।
उग्रं स्थाणुं हरं रुद्रं सस्मार स्मरमानसा ।।६४।।
तस्याश्चक्रे नाम दक्षः सतीति द्विजसत्तमाः ।
प्रशस्तायाः सर्वगुणैः सत्त्वादपि नयादपि ।। ६५ ।।
ववृधे दक्षवीरिण्योः प्रत्यहं करुणातुला ।
तस्यां बाल्येऽपि भक्तायां तयोर्नित्यं मुहुर्मुहुः ।। ६६ ।।
सर्वकान्त-गुणाक्रान्ता सदा सा नयशालिनी ।
तोषयामास पितरौ नित्यं नित्यं नरोत्तमाः ।। ६७ ।।
अथैकदा पितुः पार्श्वे तिष्ठन्तीं तां सतीं विधिः ।
नारदश्च ददर्शाथ रत्नभूत्तां क्षितौ शुभाम् ।। ६८ ।।
सापि तौ वीक्ष्य मुदिता विनयावनता तदा ।
प्रणनाम सती देवं ब्रह्माणमथ नारदम् ।।६९।।
प्रणामान्ते सतीं वीक्ष्य विनयावनतां विधिः ।
नारदश्च तथैवाशीर्वादमेतमुवाच ह ।।७० ।।
त्वामेव यः कामयते त्वं त्वं कामयसे पतिम् ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ।। ७१ ।।
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशः शुभे ।।७२।।
इत्युक्त्वा सुचिरं तौ तु स्थित्वा दक्षाश्रये पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं द्विजसत्तमाः ।।७३।।
॥ श्रीकालिकापुराणे सत्युत्पत्तिर्नाम अष्टमोऽध्यायः ॥ ८ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-https://ptvaishnavi.blogspot.com/2023/02/Kalika-puran-adhyay-8.html