कालिकापुराणम्/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कालिकापुराणम् षष्ठोऽध्यायः योगनिद्रामाहात्म्यम्
अथ कालिका पुराण अध्याय ६
।। देव्युवाच ।।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ।
मोहयित्रीह शङ्करस्य न विद्यते ॥ १ ॥
हरे गृहीतदारे तु सृष्टिषा सनातनी ।
भविष्यतीति तत् सत्यं भवता प्रतिपादितम् ।।२।।
मयापि च महान् यत्नो विद्यतेऽस्य जगत्पतेः ।
त्वद्वाक्याद्विगुणो मेऽद्य प्रयत्नोऽभूत् सुनिर्भरः ।। ३।।
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ।
हर: करिष्यत्यवशः स्वयमेव विमोहितः ।।४।।
चावीं मूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ।
भविष्यामि महाभाग यथा विष्णोर्हरिप्रिया ॥५॥
यथा सोऽपि ममैवेह वशवर्ती सदा भवेत् ।
तथा चाहं करिष्यामि यथेतरजनं हरम् ॥६॥
प्रतिसर्गादि मध्यं तमहं शम्भुं निराकुलम् ।
स्त्रीरूपेणानुयास्यामि विशेषेणान्यतो विधे ॥७॥
उत्पन्ना दक्षजायायां चारुरूपेण शङ्करम् ।
अहं सभाजयिष्यामि प्रतिसर्ग पितामह ॥८॥
ततस्तु योगनिद्रां मां विष्णुमायां जगन्मयीम् ।
शङ्कत वदिष्यन्ति रुद्राणीति दिवौकसः ।।९।।
उत्पन्नमात्रं सततं मोहये प्राणिनं यथा ।
तथा सन्मोहयिष्यामि शङ्करं प्रमथाधिपम् ।। १० ।।
यथान्यजन्तुरवनौ वर्तते वनितावशे ।
ततोऽप्यति हरो वामावशवर्ती भविष्यति ।। ११ ।।
विभिद्य भुवनाधीनां लीनां स्वहृदयान्तरे ।
यां विद्याञ्च महादेवो मोहात् प्रतिग्रहीष्यति ।।१२।।
।। मार्कण्डेय उवाच । ।
इति तस्मै समाभाष्य ब्रह्मणे द्विजसत्तमाः ।
वीक्ष्यमाणा जगत्स्रष्ट्रा तत्रैवान्तर्दधे ततः ।। १३ ।।
तस्यामन्तर्हितायान्तु धाता लोक - पितामहः ।
जगाम तत्र भगवान् स्थितो यत्र मनोभवः ।। १४ ।।
मुदितोऽत्यर्थमभवन्महामायावचः स्मरन् ।
कृतकृत्यं तदात्मानं मेने च मुनिपुङ्गवाः ।। १५ ।।
अथ दृष्ट्वा महात्मानं विरञ्चि मदनस्तथा ।
गच्छन्तं हंसयानेन चाभ्युत्तस्थौ त्वरान्वितः ।।१६।।
आसनं तमथासाद्य हर्षोत्फुल्लविलोचनः ।
ववन्दे सर्वलोकेशं मोदयुक्तं मनोभवः ।।१७।।
अथाह भगवान् धाता प्रीत्या मधुरगद्गदम् ।
मदनं मोदयन् सूक्तं यद् देव्या विष्णुमायया ।। १८ ।।
।। ब्रह्मोवाच ।।
यदाह वत्स शर्वस्य मोहने त्वं पुरा वचः ।
अनुमोहनकर्त्री या तां सृजेति मनोभव ।।१९।।
तदर्थं संस्तुता देवी योगनिद्रा जगन्मयी ।
एकतातेन मनसा मया मन्दरकन्दरे ।। २० ।।
स्वयमेव तया वत्स प्रत्यक्षीभूतया मम ।
तुष्टयाङ्गीकृतं शम्भुर्मोनीयो मयेति वै ।। २१ ।।
तया च दक्षभवने स समुत्पन्नया हरः ।
मोहनीयस्तु न चिरादिति सत्यं मनोभव ।। २२ ।।
।। मदन उवाच ।।
ब्रह्मन् का योगनिद्रेति विख्याता या जगन्मयी ।
कथं तस्या हरो वश्यः कार्यस्तपसि संस्थितः ।। २३ ।।
किम्प्रभावाथ सा देवी का वा सा कुत्र संस्थिता ।
तदहं श्रोतुमिच्छामि त्वत्तो लोकपितामह ।। २४ ।।
यस्य त्यक्तसमाधेस्तु न क्षणं दृष्टिगोचरे ।
शक्नुमोऽपि वयं स्थातुं तं कस्मात् सा विमोहयेत् ।। २५ ।।
ज्वलदग्निप्रकाशाक्षं जटाराजिकरालितम् ।
शूलिनं वीक्ष्य कः स्थातुं ब्रह्मन् शक्नोति तत्पुरः ।। २६ ।।
तस्य तादृक्स्वरूपस्य सम्यङ्मोहनवाञ्छया ।
मयाभ्युपेतं तां श्रोतुमहमिच्छामि तत्त्वतः ।। २७ ।।
।। मार्कण्डेय उवाच ।।
मनोभवस्य वचनं श्रुत्वाथ चतुराननः ।
विवक्षुरपि तद्वाक्यं श्रुत्वानुत्साहकारणम् ।। २८ ।।
शर्वस्य मोहने ब्रह्मा चिन्ताविष्टोऽभवन्नहि ।
समर्थो मोहयितुमिति निशश्वास मुहुर्मुहुः ।। २९ ।।
मारगणों की उत्पत्ति
निःश्वासमारुतात्तस्य नानारूपा: महाबलाः ।
जाता गणा लोलजिह्वा लोलाश्चाति भयङ्कराः ॥३० ॥
तुरङ्गवदनाः केचित् केचिद्गजमुखास्तथा ।
सिंहव्याघ्रमुखाश्चान्ये श्ववराहखराननाः ।। ३१ ।।
ऋक्षमार्जारवदनाः शरभास्याः शुकाननाः ।
प्लवगोमायु - वक्त्राश्च सरीसृपमुखाः परे ।।३२।।
गोरूपा गोमुखाः केचित्तथा पक्षिमुखाः परे ।
महादीर्घा महाह्रस्वा महास्थूला महाकृशाः ।।३३।
पिंगाक्षा विडालाक्षाश्च त्र्यक्षैकाक्षा महोदराः ।
एककर्णास्त्रिकर्णाश्च चतुष्कर्णास्तथा परे ।। ३४ ।।
स्थूलकर्णा महाकर्णा बहुकर्णा विकर्णकाः ।
दीर्घाक्षाः स्थूलनेत्राश्च सूक्ष्मनेत्रा विदृष्टयः ।।३५।।
चतुष्पादाः पञ्चपादास्त्रिपादैकपदास्तथा ।
ह्रस्वपादा दीर्घपादाः स्थूलपादा महापदाः ।। ३६ ।।
एकहस्ताश्चतुर्हस्ता द्विहस्तास्त्रिशयास्तथा ।
विहस्ताश्च विरूपाक्षा गोधिकाकृतयः परे ।। ३७।।
मनुष्याकृतयः केचिच्छिशुमारमुखास्तथा ।
क्रौञ्चाकारा वकाकारा हंससारसरूपिणः ।
तथैव मद्गुकुरर- कंककाकमुखास्तथा ।। ३८ ।।
अर्द्धनीला अर्द्धरक्ताः कपिलाः पिङ्गलास्तथा ।
नीलाः शुक्लास्तथा पीता हरिताश्चित्ररूपिणः ।। ३९ ।।
अवादयन्त ते शङ्खान् पटहान् परिवादिनः ।
मृदङ्गान् डिडिमांश्चैव गोमुखान् पणवांस्तथा ।। ४० ।।
सर्वे जटाभिः पिङ्गाभिस्तुङ्गाभिश्च करालिताः ।
निरन्तराभिर्विप्रेन्द्रा गणाः स्यन्दनगामिनः । । ४१ ।।
शूलहस्ताः पाशहस्ता: खड्गहस्ताः धनुर्द्धराः ।
शक्त्यंकुशगदावाण-पट्टिशप्रासपाणयः ।। ४२ ।।
नानायुधा महानादं कुर्वन्तस्ते महाबलाः ।
मारय च्छेदयेत्यूचुर्ब्रह्मणः पुरतो गताः ।।४३॥
तेषान्तु वदतां यत्र मारय छेदयेत्युत ।
योगनिद्रा प्रभावात् स विधिर्वक्तुं प्रचक्रमे ।।४४ ।।
अथ ब्रह्माणमाभाष्य तान् दृष्ट्वा मदनो गणान् ।
उवाच वारयन् वक्तुं गणानामग्रतः स्मरः ।।४५ ।
।। मदन उवाच ॥
किं कर्म ते करिष्यन्ति कुत्र स्थास्यन्ति वा विधे ।
किन्नामधेया एते वा तत्रैतान् विनियोजय ॥४६॥
नियोज्यैतान्निजे कृत्ये स्थानं दत्त्वा नाम च ।
कृत्वा पश्चात् महामायाप्रभावं कथयस्व मे ।। ४७ ।।
।। मार्कण्डेय उवाच ।।
अथ तद्वाक्यमाकर्ण्य सर्वलोकपितामहः ।
गणान् समदनानाह तेषां कर्मादिकं दिशन् ।।४८ ।।
।। ब्रह्मोवाच ।।
एते उत्पन्नमात्रा हि मारयेत्यवदंस्तराम् ।
मुहुर्मुहुरतोऽमीषां नाम मारेति जायताम् ।।४९ ।।
मारात्मकत्वादप्येते माराः सन्तु च नामतः ।
सदा विघ्नं करिष्यन्ति जन्तूनाञ्च विनार्चनम् ॥५० ।।
तवानुगमनं कर्म मुख्यमेषां मनोभव ।
यत्र यत्र भवान् याता स्वकर्मार्थं यदा यदा ।
गन्तारस्तत्र तत्रैते साहाय्याय तदा तदा ।। ५१ ।।
चित्तोद्भ्रान्तिं करिष्यन्ति त्वदस्त्रवशवर्तिनाम् ।
ज्ञानिनां ज्ञानमार्गञ्च विघ्नयिष्यन्ति सर्वदा ।। ५२ ।।
यथा सांसारिकं कर्म सर्वे कुर्वन्ति जन्तवः ।
तथा चैते करिष्यन्ति सविघ्नमपि सर्वतः ।।५३॥
इमे स्थास्यन्ति सर्वत्र वेगिनः कामरूपिणः ।
त्वमेवैषां गणाध्यक्षः पञ्चयज्ञांशभोगिनः ।
नित्यक्रियावतां तोय-भोगिनो वै भवन्त्विति ।।५४।।
।। मार्कण्डेय उवाच ।।
इति श्रुत्वा तु ते सर्वे मदनं सविधिं ततः ।
परिवार्य यथाकामं तस्थुः श्रुत्वा निजां गतिम् ।।५५।।
तेषां वर्णयितुं शक्यो भुवि किं मुनिसत्तमाः ।
माहात्म्यञ्च प्रभावञ्च ते तपः शालिनो यतः ।।५६ ।।
नैषां जाया न तनया निःसमीहाः सदैव हि ।
न्यासिनोऽपि महात्मानः सर्वे त ऊर्द्धरतसः ॥५७।।
ततो ब्रह्मा प्रसन्नः स माहात्म्यं मदनाय च ।
गदितुं योगनिद्रायाः सम्यक् समुपचक्रमे ।। ५८ ।।
।। ब्रह्मोवाच ।।
अव्यक्तव्यक्तरूपेण रजः सत्त्वतमोगुणैः ।
विभज्य यार्थं कुरुते विष्णुमायेति सोच्यते ।। ५९ ।।
या निम्नान्तस्थलाम्भस्था जगदण्डकपालतः ।
विभज्य पुरुषं याति योगनिद्रेति सोच्यते ।। ६० ।।
मन्त्रान्तर्भावनपरा परमानन्दरूपिणी ।
योगिनां सत्त्वविद्यान्तः सा निगद्या जगन्मयी ।। ६१ ।।
गर्भान्तर्ज्ञानसम्पन्नं प्रेरितं सूतिमारुतैः ।
उत्पन्नं ज्ञानरहितं कुरुते या निरन्तरम् ।।६२।।
पूर्वातिपूर्वं सन्धातुं संस्कारेण नियोज्य च ।
आहारादौ ततो मोहं ममत्वं ज्ञानसंशयम् ।। ६३ ।।
क्रोधोपरोधलोभेषु क्षिप्त्वा क्षिप्त्वा पुनः पुनः ।
पश्चात् कामे नियोज्याशु चिन्तायुक्तमहर्निशम् ।। ६४ ।।
आमोदयुक्तं व्यसनासक्तं जन्तुं करोति या ।
महामायेति सा प्रोक्ता तेन सा जगदीश्वरी ।। ६५ ।।
अहङ्कारादि संसक्ता सृष्टिप्रभवभाविनी ।
उत्पत्तिरितिलोकैः सा कथ्यतेऽनन्तरूपिणी ।। ६६ ।।
उत्पन्नमङ्कुरं बीजाद् यथापो मेघसम्भवाः ।
प्ररोहयति सा जन्तूंस्तथोत्पन्नान् प्ररोहयेत् ।। ६७ ।।
सा शक्ति: सृष्टिरूपा च सर्वेषां ख्यातिरीश्वरी ।
क्षमा क्षमावतां नित्यं करुणा सा दयावताम् ।।६८।।
नित्या सा नित्यरूपेण जगद्गर्भे प्रकाशते ।
ज्योतिः स्वरूपेण परा व्यक्ताव्यक्तप्रकाशिनी ।। ६९ ।।
सा योगिनां मुक्तिहेतुर्विद्यारूपेण वैष्णवी ।
सांसारिकाणां संसारबन्धहेतु विपर्यया ॥७० ॥
लक्ष्मीरूपेण कृष्णस्य द्वितीया सुमनोहरा ।
त्रयीरूपेण कण्ठस्था सदा मम मनोभव ।।७१ ।।
सर्वत्रस्था सर्वगा दिव्यमूर्ति र्नित्या देवी सर्वरूपा पराख्या ।
कृष्णादीनां सर्वदा मोहयित्री सा स्त्रीरूपैः सर्वजन्तो: समन्तात् ।। ७२ ।।
॥ श्रीकालिकापुराणे योगनिद्रामाहात्म्यं नाम षष्ठोऽध्यायः ॥ ६ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand