कालिकापुराणम्/अध्यायः ४९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।।मार्कण्डे उवाच।।
अथ काले व्यतीते तु ककुत्स्थतनया सती।
विधातुमार्तवं स्नानं योषिद्भिः परिवारिता।। ४९.१ ।।

शीतामलजलां हृद्यां कलुषध्वंसकोविदाम्।
प्रभिन्नाञ्जनसङ्काशां कलुषध्वंसकोविदाम्।। ४९.२ ।।

कृतस्नानामनुत्तीर्णामर्धमग्नां महासतीम्।
ददृशे स्वर्णगौराङ्गी कपोतो मुनिसत्तमः।। ४९.३ ।।

कापोतं वपुरास्थाय प्राणिनां वधशङ्कया।
विचचार यतः पुर्वं कपोतस्तेन स स्मृतः।। ४९.४ ।।

तां दृष्ट्वा हेमगर्भाभां चन्द्रिकां शारदीमिव।
कपोतः कामयामास कामबाणादितो भृशम्।। ४९.५ ।।

कामाग्निपरितप्तः स ककुत्स्थतनयां मुनिः।
अभिगम्याथ कल्याणीमिदं वचनमब्रवीत्।। ४९.६ ।।

।।कपोत उवाच।।
का त्वं कस्यासि वनिता पुत्री वा कस्य सुन्दरि।
कस्मात् समागता वा त्वमुपांशु तटिनीजलम्।। ४९.७ ।।

रूपं ते सौम्यमाह्लादि पूर्णचन्द्रनिभं मुखम्।
तिलपुष्पप्रतीकाशं नासिकायुगलं तव।। ४९.८ ।।

वातकम्पितनीलाब्जसदृशे लौचने तव।
बाहू मनोहरौ वृत्तौ मृणालमृदुलायतौ।
ऊरू गजकरप्रख्यौ मध्यं वेदिविलग्नकम्।। ४९.९ ।।

ईदृशेन तु रूपेण न त्वं मानुषभामिनी।
देवी वा दानवी वा त्वमप्सरागुणशालिनी ।। ४९.१० ।।

अथवा भोग्यभोगाय श्रीस्त्वं नारीत्वमागता।
अपर्णा वा शची वा त्वं तन्मे वद मनोहरे।। ४९.११ ।।

।।और्व्व उवाच।।
इति वाक्यं मुनेः श्रुत्वा जलादुत्तीर्य भामिनी।
प्रणम्य तं मुनिं नम्रा वचनं चेदमब्रवीत्।। ४९.१२ ।।

अहं तारावती नाम्ना ककुत्स्थस्य सुता सती।
चन्द्रशेखरभूपस्य भार्यां जानीहि मां मुने।। ४९.१३ ।।

नाहं देवी न गन्धर्वी न यक्षी न च राक्षसी।
मानुष्यहं नृपसुता चारित्रव्रतधारिणी।। ४९.१४ ।।

।।कपोत उवाच।।
त्वां तृष्ट्वा मां स्वयं कामः सङ्गतः सङ्गमाय ते।
पीडितश्चापि तेनाहं त्वया शक्त्या समक्षया।। ४९.१५ ।।

स्मरसागरकल्लोलपतितं मां निराकुलम्।
त्वदूरुतरिणा त्राहि तूर्णं त्वं मृदुभाषिणी ।। ४९.१६ ।।

मत्तः पुत्रद्वयं चारु रूपलक्षणसंयुतम्।
भविष्यति महाभागे बलवीर्ययुतं महत्।। ४९.१७ ।।

।।मार्कण्डेय उवाच।।
कपोतस्य वचः श्रुत्वा भयदुःखसमाकुला।
जगाद गद्गदं वाक्यं वाग्मिन्यथ ककुत्स्थजा।। ४९.१८ ।।

।।तारावत्युवाच।।
वाक्यमन्यन्मया कार्यं न कार्यमतिनिन्दितम्।
तस्मान्मा वदं मामित्थं प्रणम्य त्वां प्रसादये।। ४९.१९ ।।

तवापि नैतद् योग्यं स्यान्मुनेरिह तपोधन।
तपःक्षयकरं गर्ह्य सतीत्वभ्रंशकं मम।। ४९.२० ।।

।।कपोत उवाच।।
तपोव्ययो वा चान्यद्वा दूषण तन्ममास्त्विह।
तथापि त्वामहं त्यक्तुं नेच्छामि सुरतौ शुभे।। ४९.२१ ।।

अवश्यं मम कामेभ्यस्त्राणं कर्तुमिहार्हसि।
अन्यथा कामदग्धोऽहं त्वया त्यक्तो मनोहरे।। ४९.२२ ।।

भवतीं च करिष्यामि शापदग्धां सबान्धवाम्।
ततस्तद्वचनं श्रुत्वा देवी तारावती तदा।
ऋषिसापभयात् साध्वी न किञ्चिच्चोत्तरं ददौ।। ४९.२३ ।।

सम्भाषयेऽहं स्वसखीरिह तिष्ठ महामुने।। ४९.२४ ।।

एवमुक्त्वा तदा देवी दासीनां मध्यमागता।
चित्राङ्गदां समाहूय वचनं चेदमब्रवीत्।। ४९.२५ ।।

चित्राङ्गदे मुनिरसौ मां वै कामयते भृशम्।
किं करिष्ये सतीभावान्न भ्रष्टा स्यामहं कथम्।। ४९.२६ ।।

पतिं बन्धूश्च कपोतः सद्यः शापाग्निना दहेत्।
नाहं मुनिं कामये चेत् संशये पतिता त्वहम्।। ४९.२७ ।।

ततश्चित्राङ्गदा प्राह मा भैस्त्वं सत्यभाषिणि।
तत्रोपायमहं वक्ष्ये यत्कृत्वा त्वं प्रमोक्ष्यसे।। ४९.२८ ।।

न जहाति मुनिश्चेत्त्वां दासीमेकां मनोहराम्।
सुभूषणैर्भूषयित्वा मुनये त्वं नियोजय।। ४९.२९ ।।

कामातुरो मुनिर्मोहात् कृपणो ज्ञास्यते न हि।
दासीं त्वद्भूषणाच्छन्नां ज्योत्स्नाच्छन्यां मृगीमिव।। ४९.३० ।।

एवं कुरु महाभागे मा त्वं चिन्तां गमः शुभे।
त्वं चेत् सतीति नियतं न ज्ञास्यति तदा मुनिः।। ४९.३१ ।।

ततस्तारावती प्राह तां रूपगुणशालिनीम्।
चित्राङ्गदां भूपपुत्रीं शश्वद्‌विनयसूनृताम्।। ४९.३२ ।।

त्वमेव गच्छ भगिनी कपोताख्यमनिन्दते।
मद्भूषणैर्भूषयित्वा स्वशरीरं मनस्विनि।। ४९.३३ ।।

अन्यां प्रस्थापितां विप्रः सम्बुध्य क्रोधवह्निना।
धक्ष्यत्यवश्यं सकुलां मां तस्माद् गच्छ सुन्दरि।। ४९.३४ ।।

त्वं मत्समा सर्वगुणैः सर्वभूषणभूषिता।
मुनिं सङ्गमयस्वाद्य रक्ष मां सकुलां शुभे।। ४९.३५ ।।

ततस्तस्या वचः श्रुत्वा विनयं च सकातरम्।
तूष्णीं भूत्वा क्षणं तस्थौ नातिहृष्टमना इव।। ४९.३६ ।।

जगाद च महाभागां चित्राङ्गदा ककुत्स्थजाम्।
करिष्ये वचनं तेऽद्य समये मां स्मरिष्यति।। ४९.३७ ।।

यदर्थे पितरं चेमं भूपं च चन्द्रशेखरम्।
आश्वासयिष्यति तथा समस्तां च सखींगणान्।। ४९.३८ ।।

एवमुक्त्वा भूषणानि तारावत्याः पिधाय सा।
चित्राङ्गदा जगामाशु मुनेः कामोत्सवाय च।। ४९.३० ।।

तारावती तदा दीन वस्त्रालङ्कारवर्जिता।
दासीमध्यगता भूत्वा तामेवानुययौ प्रियाम्।। ४९.४० ।।

तामायान्तीं ततो दृष्ट्वा कपोतः काममोहितः।
मुनीनां परजायासु सस्मार सङ्गमं तदा।। ४९.४१ ।।

प्रम्लोचा कामिता पूर्वं वतण्डस्य सुतेन वै।
यथा वा कामिता पद्मा भरद्वाजेन धीमता।। ४९.४२ ।।

तथाहं कामयिष्यामि साम्प्रतं वरवर्णिनीम्।
पश्चात् तपोबलात् तद्वज्जायापापाद् विमोक्षये।। ४९.४३ ।।

इति चिन्तयतस्तस्य तदा चित्राङ्गदा शुभा।
समेत्य तं मुनिं लज्जायुक्ता चैषाह किञ्चन ।। ४९.४४ ।।

तामासाद्य महाभागः कपोतो मुनिसत्तमः।
शृङ्गारवेषभावाय मदनं मनसास्मरत्।। ४९.४५ ।।

स्मृतमात्रोऽथ मदनः स्वयमेत्य महामुनिम्।
गन्धमाल्यैः सुवासोभिरध्युवासातिहर्षितः।। ४९.४६ ।।

तेनाधिवासितो विप्रः कपोतश्चारुरूपधृक्।
जज्वाल तेजसा चापि द्वितीय इव भास्करः।। ४९.४७ ।।

मनोहरं तथा दृष्टवा कपोतं मदनोपमम्।
तारावतीमृते सर्वाः सकामाश्चाभवन् स्त्रियः।। ४९.४८ ।।

तारावती मुनिं दृष्ट्वा सुन्दरं मदनोपमम्।
विस्मयं परमं प्राप्ता मुनिं कामममन्यत।। ४९.४९ ।।

अथ चित्राङ्गदा विप्रः कामुकः कामसङ्गमे।
तदा नियोजयामास सुप्रीतश्नाभवत् क्षणात्।। ४९.५० ।।

ततस्तस्यां समुत्पन्नं सद्योजातं सुतद्वयम्।
देवगर्भोपमं दीप्तज्वलनार्कसमप्रभम्।। ४९.५१ ।।

जाते सुतद्वये तां तु मुनिः संसृज्य पाणिना।
निनाय पूर्ववद्भावं वचनं चेदमब्रवीत् ।। ४९.५२ ।।

मत्सङ्गमे कियत्कालं प्रिये तिष्ठ शुभानने।
ममेच्छया यास्यसि त्वं भयं ते नास्ति राजतः।। ४९.५३ ।।

एवमस्त्विति सा प्राह ऋषिं शापभयात् सति।
ततो विसर्जयामास मुनिरन्याश्च योषितः।। ४९.५४ ।।

ततस्तारावती देवी दासीभिः परिवारिता।
भगिनीमनुशोचन्ती जगाम भवनं निजम्।। ४९.५५ ।।

गत्वा तं सर्ववृत्तान्तं कपोतकृतमद्भुतम्।
ब्रह्मावर्ताधिपायाशु शशंसाथ ककुत्स्थजा।। ४९.५६ ।।

स श्रुत्वा नृपर्शादूलः क्षणमात्रं विचिन्त्य च।
चित्राङ्गदायाः साहाय्यं कपोतानुमतेऽकरोत्।। ४९.५७ ।।

कपोतोऽपि तदा तस्यां जातयोसुतयोस्तयोः।
यथोक्तेनाथ विधिना संस्कारमकमोत्तदा।। ४९.५८ ।।

।।सगर उवाच।।
चित्राङ्गदा कथं पुत्री ककुत्स्थस्याभवत् तदा।
तदहं श्रोतुमिच्छामि कथयस्य द्विजोत्तम।। ४९.५९ ।।

।।और्व्व उवाच।।
एकदा तु ककुत्स्थोऽसौ हिमवन्तं महागिरिम्।
मृगयायै जगामाथ मृगाश्चापि निपातिताः।। ४९.६० ।।

लम्बन्तीं सुरलोकात् तु भूमिं प्रति तदोर्वशीम्।
विश्रामायोपविष्टस्तु सानौ वेश्यां ददर्श ह।। ४९.६१ ।।

तामासाद्य महाराजः कामबाणप्रपीडितः।
अवतीर्णा गिरौ शश्वदङ्गसङ्गमयाचत।। ४९.६२ ।।

सा ज्ञात्वा नृपशार्दूलं ककुत्स्थं शक्रसन्निभम्।
उर्वशी रमयामास गिरिकुञ्जे यथेप्सितम्।। ४९.६३ ।।

ततो राज्ञः ककुत्स्थस्य स्वर्वेश्यायां तदा सुता।
अभवन् नृपशार्दूलात् सद्योजाता मनोहरा।। ४९.६४ ।।

अथ कामेन सन्तुष्टं ककुत्स्थं सा तदोर्वशी।
अथेष्टदेशं विज्ञाप्य गन्तुमैच्छदनिन्दिता।। ४९.६५ ।।

तामाह राजा तनयां परित्यज्य कथं शुभे।
गन्तुमिच्छसि चार्वङ्गि सुतामेनां तु पालय ।। ४९.६६ ।।

सा प्राहाहं स्वर्गगणिका मयि कस्य न चाभवत्।
तनयस्तनया वापि सद्योजाता नृपात्मजा ।। ४९.६७ ।।

स्वतेजसा शरीरस्य विकारो मे न विद्यते।
सुताश्चापि न पाल्यन्ते वेश्याभावात् स्वभावतः।। ४९.६८ ।।

दयास्ति यदि ते पुत्र्यां नीत्वैनां वर्धय स्वयम्।
गन्तुं मामनुजानीहि सत्यमेतद् ब्रवीमि ते।। ४९.६९ ।।

इत्युक्त्वा सा जगामाशु यथेष्टं सोर्वशी नृपः।
पुत्रीं तां समुपादाय नगरं स्वं विवेश ह।। ४९.७० ।।

तस्याश्चित्राङ्गदा नाम स चकार नृपः स्वयम्।
मनोन्मथिन्यै चादात् तां भार्यायै पुत्रिकां शुभाम्।। ४९.७१ ।।

इदं च वचनं देवीं तदा प्राह नृपोत्तमः।
देवि पुत्री ममेयं त्वमेनां पालय सद्गुणाम्।। ४९.७२ ।।

मयानीतां शैलजातां मा हेलां कर्तुमर्हसि।
इत्युक्ता राजपुत्री सा पालेन चाकरोन्मतिम्।। ४९.७३ ।।

भर्तुराज्ञां पुरस्कृत्य नान्यत् किञ्चिदुवाच ह।
सा चैकदा बाल्यभावादष्टावक्रं महामुनिम्।। ४९.७४ ।।

व्रजन्तं जिह्ममेवाशु जहासोपजहास च।
स चुकोप मुनिस्तस्यै शापं परमदारुणम्।। ४९.७५ ।।

ददौ दासी स्ववंशस्य भवितेति ककुत्स्थजे।
दासी भूत्वा स्ववंशस्य ह्यनूढैव सुतद्वयम्।। ४९.७६ ।।

जनयिष्यसि पापिष्ठे ततो भद्रमवाप्स्यसि।
एवं ककुत्स्थतनया जाता चित्राङ्गदा नृप।। ४९.७७ ।।

दासी च भूता सा ते तारावत्या निवासिता।
अनूढाप्यलभत् पुत्रयुग्मं मुनिवराच्छुभात्।। ४९.७८ ।।

तौ च पुत्रौ महाभागौ महाकार्यं करिष्यतः।
इति ते कथितं राजन् यथाचित्राङ्गदाऽभवत्।
ककुत्स्थस्य सुता साध्वी प्रस्तुतं शृणु साम्प्रतम्।। ४९.७९ ।।

।। इति श्रीकालिकापुराणे एकोनपञ्चाशोऽध्यायः।।