कालिकापुराणम्/अध्यायः ४४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कालिकापुराणम् चतुश्चत्वारिंशोऽध्यायः कालीहरसमागमः
अथ श्रीकालिका पुराण अध्याय ४४
।। मार्कण्डेय उवाच ।।
अथ श्रुत्वा वचः शम्भोर्गिरिजातीव हर्षिता ।
मेने प्राप्तं तदा शम्भुं सुन्दरं दयितं पतिम् ।।१।।
अथ प्राह तदा काली सखीवक्त्रेण शङ्करम् ।
यथा स शृणुते वाक्यं श्रोतुमिच्छंश्च शङ्करः ।।२।।
न सन्धावतिभेदेन प्रवर्तन्तेऽत्र सज्जनाः ।
मर्यादया हरस्तं मे पाणिं गृह्णातु शङ्करः ॥३॥
पितृदत्ता भवेत् कन्या तपोदत्ता भवेन्नहि ।
तपसा चेत् प्रदत्ताहं मां तातश्च प्रदास्यति ॥४॥
तस्मात् सम्प्रार्थ्य पितरं हिमवन्तं नगेश्वरम् ।
वैवाहिकेन विधिना पाणिं गृह्णातु मे हरः ॥५॥
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा विररामाथ काली लज्जासमन्विता ।
हरोऽपि तद्वचः सत्यं तथ्यं योग्यं तदाग्रहीत् ।। ६ ।।
ततः स सगणः शम्भुस्तत्र वासं तदाकरोत् ।
गङ्गावतरणे सानौ यथापूर्वं तथाधुना ॥७॥
काली पितुर्गृहं याता सखीभिः परिवारिता ।
नालोकयन्ती सा दीना गुरूणां वदनं सती ।।८।।
एतस्मिन्नन्तरे सप्तमरीचिप्रमुखान् मुनीन् ।
चिन्तयामास शशिभृत् कालीं प्रार्थयितुं तदा ।। ९ ।।
चिन्तिताः सप्तमुनयस्तत्क्षणान्मदनारिणा ।
आकृष्टा इव केनापि तत्सकाशमुपागताः ।। १० ।।
तान् मुनीन् ददृशे शम्भुः सप्ताग्नीनिव दीपितान् ।
अरुन्धतीं वसिष्ठस्य सकाशे ददृशे सतीम् ।। ११ ।।
अरुन्धतीं ततो दृष्ट्वा वसिष्ठस्य समीपतः ।
मेने योषिद्ग्रहं धर्म मुनिभिश्चाप्यवर्जितम् ।। १२ ।।
ततस्ते मुनयः सर्वे सम्पूज्य वृषभध्वजम् ।
इदमूचुः प्रहर्षेण स्मरणाकर्षिताः प्रियम् ।। १३ ।।
।। ऋषय ऊचुः ।।
यत् प्रत्यक्षं दृश्यते शुद्धरूपं चन्द्रप्रख्यं चन्द्रखण्डोपशोभि ।
अन्तः प्रज्ञं भावितं तन्मुनीनां भाग्यं दृष्टं भागधेयेन मुक्तैः ।।१४।।
प्रज्ञातन्त्रं ध्यानतन्त्रं पुरस्तान्नित्यं ध्येयं ध्यायिनां स्वप्रकाशम् ।
पुञ्जीभूतं बाह्यतत्त्वेन शश्वद् योग्यप्राप्यं धाम शम्भोरुदारम् ।। १५ ।।
दृष्ट्वा यस्यैवाग्रभागं स नेत्रं त्राणाय स्याद् दर्शनं सूर्यतुल्यम् ।
तद्धामेदं स्थान सर्वस्य नित्यं भक्त्या स्तुत्यं तं नमः शम्भुदेहम् ।। १६ ।।
प्रकाशते यः प्रथमादिभागतः स्थित: स वामे य इहैव नेता ।
सोऽस्माकमस्तु प्रथमं स्वसिद्ध्यै हरस्य शक्त्या विधृतो ललाटे ।।१७।।
यः प्रधानात्मकः सत्त्वरजोभ्यां तमसान्वितः ।
पुरुष: सर्वजगतां स हरो नः प्रसीदतु ।। १८ ।।
।। मार्कण्डेय उवाच ।।
इति संस्तुत्य देवेशं मुनयो विनयानताः ।
ऊचुः किमर्थं भवता स्मृतास्तन्नो निगद्यताम् ।। १९ ।।
तेषां तद्वचनं श्रुत्वा शङ्करः प्रहसन्निव ।
जगाद तान्मुनीन् सर्वानाभाष्य च पृथक् पृथक् ।। २० ।।
।। ईश्वर उवाच ।।
हिताय सर्वजगतां सम्भोगायात्मनस्तथा ।
दारान् ग्रहीतुमिच्छामि तथा सन्तानवृद्धये ।। २१ ।।
सहायं तत्र कुर्वन्तु भवन्तो मम साम्प्रतम् ।
मदर्थे च ततः कालीं याचन्तां तुहिनाचलम् ।। २२।।
महता तपसा काली मां पतिं लघु विन्दताम् ।
किन्तु ग्रहीष्ये विधिना तस्माद् याचन्तु तं गिरिम् ।। २३ ।।
यथा यथा स्वयं कालीं शैलो दातुं समुत्सहेत् ।
तथा तथा विदध्वं हि यूयं वाग्विभवान्विताः ।। २४ ।।
।। मार्कण्डेय उवाच ।।
हरं सम्बोध्य मुनयो ह्यगच्छन् गिरिराड्गृहम् ।
तेन प्रपूजितास्ते तु प्रोचुस्तं मुनयो गिरिम् ।। २५ ।।
।। मुनयः ऊचुः ।।
यश्चन्द्रशेखरो देवो देवदेवश्च यो मतः ।
शापानुग्रहणे शक्तो य एको जगतां पतिः ।। २६ ।।
यः संहरति सर्वाणि जगन्ति प्रलयोद्भवे ।
यो विभूतिप्रदो भक्ते नानारूपो मनोहरः ।
स ते दुहितरं कालीं भार्यामादातुमिच्छति ।। २७।।
यदि पश्यसि त्वं योग्यं वरं तं दुहितुः समम् ।
तदा प्रयच्छ तनयां कालीं शशिभृते गिरे ।। २८ ।।
।। मार्कण्डेय उवाच ।।
इत्युक्तस्तैर्गिरिपतिश्चिरं स्वहृदयस्थितम् ।। २९ ।।
दुहितुश्च प्रियं ज्ञात्वा प्राप्य सद्वचनान्मुदम् ।
आह चेदं प्रकाशेन युष्माभिस्त्वहमागतैः ॥३०॥
पावितो मुनिशार्दूलैः पूरितश्च मनोरथः ।
दास्यामि शम्भवे पुत्रीं युष्माभिः प्रार्थितस्त्वहम् ।। ३१ ।।
पूर्वमेव तपस्तप्त्वा तयेशः पतिरीहितः ।
धातुर्नियोजनमिदं कोऽन्यथा कर्तुमुत्सहेत् ।।३२।।
कोऽन्यः प्रार्थयितुं शक्तः सुतां मम विना हरात् ।
हरेणावगृहीताया तामन्यः कः समुत्सहेत् ।।३३।।
हरं गृहीत्वा मनसा नान्यं सापीह वाञ्छति ।
इत्युक्त्वा मेनया सार्धं सुतां दातुं च शम्भवे ।
अङ्गीकृत्य विसृष्टास्ते ह्यनुप्रापुर्महेश्वरम् ।। ३४ ।।
ते गत्वा मुनयः सर्वे मरीचिप्रमुखा द्विजाः ।। ३५ ।।
शैलराजो यदाचष्ट तदूचुर्मदनारये ।
हिमवांस्तनयां दातुं तुभ्यमुत्सहते हरः ।। ३६ ।।
यदिदानीं त्वया कुर्तुं युज्यते क्रियतां तु तत् ।
अस्मांश्चाप्यनुजानीहि हर गन्तुं निजास्पदम् ।। ३७।।
सिद्धं ज्ञात्वा हरः साध्यं मुदितस्तान् विसृष्टवान् ।
यथायोग्यं समाभाष्य क्रमादेकैकशो मुनीन् ।। ३८ ।।
कालीविवाहावसरे यूयमायात मां प्रति ।
इति ते वै हरेणोक्तं प्रतिश्रुत्यर्षयो ययुः ।। ३९ ।।
अथान्योन्यप्रियतया कृत्वा कृत्वा गतागतम् ।
समयं कारयामास विवाहाय हरो गिरिम् ।। ४० ।।
माधवे मासि पञ्चम्यां सिते पक्षे गुरोर्दिने ।
चन्द्रे चोत्तरफाल्गुन्यां भरण्यादौ स्थिते रवौ ।। ४१ ।।
आगता मुनयस्तत्र मरीचिप्रमुखा मुहुः ।
हरेण चिन्तिताः सर्वे तथा ब्रह्मादयः सुराः ।।४२।।
तथा च सर्वे दिक्पाला मुनयश्च तपोधनाः ।
शच्या सह तथा शक्रो ब्रह्माण्याद्यास्तु मातरः ।
नारदश्च गतस्तत्र देवर्षिर्ब्रह्मणः सुतः ।।४३।।
एतैः परिचरैः सार्धं गणैराप्यायितः स्वकैः ।
वैवाहिकेन विधिना गिरिपुत्रीं हरोऽग्रहीत् ।। ४४ । ।
विवाहे गिरिजा शम्भोः सर्पा येऽष्टौ तनौ स्थिताः ।
ते जाम्बुनदसंनद्धा अलङ्कारास्तदाभवन् ।। ४५ ।।
द्विभुजोऽभून्महादेवो जटाः केशत्वमागताः ।
शिरस्थितश्चन्द्रखण्ड: सोऽर्चिषा ज्वलितोऽभवत् ।। ४६ ।।
विचित्रवसनं व्याघ्रकृत्तिरासीत्तदा द्विजाः ।
विभूतिलेपो ह्यस्याभूत् सुगन्धिमलयोद्भवः ॥४७।।
गौररूपो हरस्तत्र बभूवाद्भुतदर्शनः ।।४८।।
ततो देवाः सगन्धर्वाः सिद्धविद्याधरोरगाः ।
विस्मयं परमं जग्मुर्हरं दृष्ट्वा तथाविधम् ।। ४९ ।।
हिमवान् मुदितश्चासीत् सहपुत्रैश्च मेनया ।
ज्ञातयश्चास्य मुमुहुर्हरं दृष्ट्वा तथाविधम् ।। ५० ।
।। ब्रह्मोवाच ।।
इदं ब्रह्मा तत्र जगौ हरं दृष्ट्वा मनोहरम् ।। ५१ ।।
सर्वं शिवकरं यस्मात् सुवेशमभवत्सुराः ।
तस्माच्छिवोऽयं लोकेषु नाम्नाख्यातोऽधिकः शिवः ।। ५२ ।।
महेश्वरमुमायुक्तमीदृशं यः स्मरेद्धृदा ।
सततं तस्य कल्याणं वाञ्छितं च भविष्यति ।। ५३ ।।
।। मार्कण्डेय उवाच ।।
एवं काली महामाया योगनिद्रा जगत्प्रसूः ।
पूर्वं दाक्षायणी भूत्वा पश्चाद् गिरिसुताभवत् ।।५४।।
स्वयं समर्थापि सती काली सम्मोहितुं हरम् ।
तथाप्युग्रं तपस्तेपे हिताय जगतां शिवा ।
एवं सम्मोहयामास कालिका चन्द्रशेखरम् ।।५५ ।।
इत्येतत् कथितं सर्वं त्यक्तदेहा सती यथा ।
हिमवत्तनया भूत्वा पुनः प्राप महेश्वरम् ।।५६।।
इदं यः कीर्तयेत् पुण्यं कालिकाचरितं द्विजाः ।
नाधयो व्याधयस्तस्य दीर्घायुः स च जायते ।। ५७ ।।
इदं पवित्रं परममिदं कल्याणवर्धनम् ।
श्रुत्वापि सकृदेवेदं शिवलोकाय गच्छति ।।५८।।
यः श्राद्धे श्रावयेद्विप्रान् कालिकाचरितं महत् ।
पितरस्तस्य कैवल्यमाप्नुवन्ति न संशयः ।। ५९ ।।
यः श्रावयेद् ब्राह्मणानां सन्निधौ वा समागतः ।
तत्र स्वयं हरो गत्वा शृणोति सह मायया ॥६०॥
इति वः कथितं पुण्यं सर्वपापप्रणाशनम् ।
युष्मभ्यं रोचते चान्यद्यत्तत् पृच्छन्तु सत्तमाः ।। ६१ ।।
॥ इति श्रीकालिकापुराणे कालीहरसमागमो नाम चतुश्चत्वारिंशोऽध्यायः ॥ ४४॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand