कालिकापुराणम्/अध्यायः ४०

विकिस्रोतः तः

कालिकापुराणम् चत्वारिंशोऽध्यायः नरकोपाख्यानम्
अथ श्रीकालिका पुराण अध्याय ४०
।। मार्कण्डेय उवाच ।।
ऋतुमत्यां तु जायायां काले स नरकः क्रमात् ।
भगदत्तं महाशीर्षं मदवन्तं सुमालिनम् ।।१।।
चतुरो जनयामास पुत्रानेतान् क्षितेः सुतः ।
महासत्त्वान् महावीर्यान् वीरैरन्यैर्दुरासदान् ।। २।।
ततो बाणस्य वचनाद् हयग्रीवं तथा मुरुम् ।
सन्धायाथ समानीय सैनापत्येऽभ्यषेचयत् । ३॥
मुरुं सन्निहितं श्रुत्वा हयग्रीवं च भौमिना ।
ये ये क्षितौ तदा ह्यासन्नसुरास्तेऽपि सङ्गताः ।।४।।
हयग्रीवं मुरुं श्रुत्वा नरकेण समागतम् ।
निसुन्दसुन्दनामानावसुरौ सैनिकैः सह ।।५।।
विरूपाक्षस्तदा दैत्यः सर्वे तेन समागमन् ।
ततः स पश्चिमद्वारि नरकः सेनया सह ॥६ ॥
मुरुं द्वाराधिपं चक्रे हयग्रीवं तथोत्तरे ।
पूर्वद्वारि निसुन्दन्तु विरूपाक्षं तु दक्षिणे ॥७॥
मध्ये पञ्चजनं सुन्दं सैनापत्येऽभ्यषेचयत् ।
मुरुं क्षुरान्तान् पाशांश्च षट्सहस्राण्ययोजयत् ।
द्वारि तत् पुररक्षार्थं सत्कृतः क्षितिसूनुना ।।८।।
एवं पूर्वान् पूर्वतरानवमत्य सुमन्त्रिणः ।। ९ ।।
असुरैरेव सततं सोऽसुरो मुदितोऽभवत् ।
पूर्वं गृहीतं भावं स परित्यज्य क्षितेः सुतः ।। १० ।।
आसुरं भावमासाद्य बाधते त्रिदिवौकसः ।
न देवान् न मुनीन् सर्वान् न च जानाति कश्चन ।। ११ ।।
सुरेश्वरं जिगायाशु हयग्रीवसहायवान् ।
एवं स चासुरं भावं तन्वानो विचरन् क्षितौ ।।१२।।
बाणस्य वचनाच्छक्रं बाधयत्येव वै मुनीन् ।
देवेश्वरं त्रिधा जित्वा हयग्रीवसहायवान् ।।१३।।
अदित्याः कुण्डलयुगं त्रिषु लोकेषु विश्रुतम् ।
सर्वरत्नामृतस्त्रावि दुःखविघ्नहरं परम् ।
जहार नरको भौमो निर्भीतो मुनिशापतः ।। १४ ।।
एवं देवान् बाधमानो मुनीन् विप्रान् क्षितेः सुतः ।
पञ्चवर्षसहस्राणि राज्यं प्राग्ज्योतिषेऽकरोत् ।। १५ ।।
एतस्मिन्नन्तरे देवी महाभारार्दिता क्षितिः ।
ब्रह्मविष्णुमुखान् देवान् रक्षार्थं शरणं गता ।
इदं चोवाच धातारं प्रणम्योर्वी समाधवम् ।। १६ ।।
।। पृथिव्युवाच ।।
दानवा राक्षसा दैत्या हरिणा ये च सूदिताः ।
ते राज्ञां मन्दिरे जाता अधुना बलगर्विताः ।। १७ ।।
तेषां भारमहं सोढुं न शक्नोमि महत्तरम् ।
असङ्ख्याताश्च ते सर्वे तान् सङ्ख्यातुं न चोत्सहे ।। १८ ।।
अष्टौ शतसहस्राणि तेषां मुख्या महाबलाः ।
तेष्वप्यतिबलान् वोढुं न ताञ्छन्नोमि चाधुना ।। १९ ।।
बाणं बलेः सुतं वीरं कंसं धेनुकमेव च ।
अरिष्टं च प्रलम्बं च सुनामानं मुरुं शलम् ।।२०।।
चाणूरमुष्टिकौ मल्लौ जरासन्धं महाबलम् ।
नरकं च हयग्रीवं निसुन्दं सुन्दमेव च ।। २१ ।
विरूपाक्षं पञ्चजनं हिडिम्बं च बकं बलम् ।
जटासुरं च किर्मीरमनायुधमलम्बुषम् ।। २२ ।।
सौभाख्यं च जरासन्धं द्विविदं चापि वानरम् ।
श्रुतायुधं महादैत्यं शतायुधमथापरम् ।। २३ ।।
ऋष्यशृङ्गसुतं चैव सुबाहुमतिबाहुकम् ।
कालकंजांस्तथा दैत्यान् हिरण्यपुरवासिनः ।। २४ ।।
एतेषां तु पदक्षो भैर्विशीर्णाहं दिने दिने ।
लोकान् वोढुं न शक्नोमि तान्निघ्नन्तु सुरोत्तमाः ।। २५ ।।
नचेद्रक्षां प्रकुर्वन्ति भवन्तः सुरसत्तमाः ।
तदा विशीर्णा यास्यामि पातालमवशाऽधुना ।। २६ ।।
।। मार्कण्डेय उवाच ।।
ततस्तस्या वचः श्रुत्वा ब्रह्मविष्णुमहेश्वराः ।
इत्यूचुस्ते करिष्यामः क्षितेः भारविमोक्षणम् ।। २७।।
विसृज्य पृथिवीं देवीं सर्वे देवाः सनातनम् ।
माधवं तोषयामासुर्भारावतरणं प्रति ।। २८ ।।
स तु तुष्टः सुरान् सर्वान् स्वांशैरवतरन्तु वै ।
क्षितौ भारावतारायेत्युक्त्वा स्वयमिह प्रभुः ।
अवतीर्णोऽथ देवक्या गर्भे भारावतारणे ।। २९ ।।
विष्णुं चावतरिष्यन्तं ज्ञात्वा देवाः सनातनम् ।। ३० ।।
रम्भातिलोत्तमाद्याश्च देव्यो रूपगुणान्विताः ।
क्षितावुत्पादयामासुः सहस्राणि तु षोडश ।। ३१ ।।
ता: सर्वा हिमवत्पृष्ठे क्रीडमाना वरस्त्रियः ।
अपश्यन्नरको भौमस्तान् जहार तदा हठात् ।।३२।।
तेन ता धर्षिता देव्यो नीताः प्राग्ज्योतिषं प्रति ।
नरकं प्रार्थयामासुः समयं मैथुनं प्रति ।। ३३ ।।
नारदो यावदायाति नगरं प्रति भौम ते ।
अस्माकं कुरु रक्षां च तावन्नो मुंच मैथुने ।। ३४ ।।
स समेष्यति वीर त्वां न चिरान्नो ह्यनुग्रहात् ।
तेन दृष्टा वयं सार्धमेष्यामः सङ्गमं त्वया ॥ ३५॥
इति सम्प्रार्थितस्ताभिर्नरको भूमिनन्दनः ।
ब्रह्मवाक्यं तदा स्मृत्वा एवमस्तूचिवान् मुहुः ।। ३६ ।।
एतस्मिन्नन्तरे देवो भगवान् लोकभावनः ।
देवक्या जठराज्जातो वृद्धो नन्दगृहेऽभवत् ।। ३७।।
कंसकेशिप्रलंबादीन् हत्वा दैत्याननेकशः ।
अकरोद् द्वारकावासं सागरे सलिलान्तरे ।।३८।।
तत्राष्टौ कन्यकास्तेन स्वधर्मेण च स्वीकृताः ।
कालिन्दी सत्यभामा च रूक्मिणी रमणी तथा ।। ३९ ।।
नग्नजित्तनया भद्रा लक्ष्मणा चारुहासिनी ।
सुशीला मित्रवृन्देति तथा जाम्बवती सती ।। ४० ।।
एतासु स्त्रीषु च ततो ह्यनुरक्तस्य तस्य वै ।
षट्त्रिंशद्वत्सरा जाता बलदेवसहायिनः ।।४१।।
प्रद्युम्नसाम्बप्रमुखाः पुत्रास्तस्य महाबलाः ।
जातोस्तत्र द्विजश्रेष्ठाः शास्त्रे शस्त्रे च कोविदाः ।।४२।।
अनेके निहता दैत्या भारभूतास्तदा क्षितेः ।
प्रहृष्ट: क्रीडमानश्च द्वारकायामुवास सः ।।४३।।
अथ शक्रस्तदायातो नरकेणार्दितो भृशम् ।
द्वारकां प्रति कृष्णस्य दर्शनाय गणैः सह ।। ४४ । ।
तत्र गत्वा परिष्वज्य कृष्णं लोकनमस्कृतम् ।
पूजितस्तेन बहुशः आसने काञ्चने स्थितः ।।४५।।
कथयामास हरये नरकस्य विचेष्टितम् ।
शक्रो यथा पूर्ववृत्तं यथा वा वर्ततेऽधुना ।। ४६।।
।। शक्र उवाच ।।
शृणु कृष्ण महाबाहो यदर्थमहमागतः ।
कथयिष्यामि तत् सर्वं तत्र शङ्कां न संकुरु ।। ४७ ।।
भूमिपुत्रोऽसुरो नाम्ना नरकः सुरमर्दनः ।
चिरंजीवी पुरा विष्णुक्षितिभ्यां परिपालितः ।।४८ ।।
अधुना स क्षितिं विष्णुमवज्ञाय दुरासदः ।
बाणस्य वचनाद् भौमो ब्रह्माणं पर्यंतोषयत् ।। ४९ ।।
ब्रह्मतः स वरान् लब्ध्वा ह्यतीवाभूत् प्रदर्पितः ।
माधवं पृथिवीं वापि सस्मार न कदाचन ।। ५० ।।
पूर्वमासीत् स धर्मात्मा ह्याराधितसुरो व्रती ।
अधुना बाधते सर्वानासुरं भावमाश्रितः ।। ५१ ।।
अदितेः कुण्डले मोहाज्जहारामृतसम्भवे ।
देवानृषीन् बाधमानो विप्राणामप्रिये रतः ।।५२।।
मां चापि बाधते नित्यं कामगामी दुरासदः ।
जेता तु सुरदैत्यानामवध्यः सर्वदेहिनाम् ।
तव चाप्यन्तरप्रेक्षी तं पापं जहि भूतये ।। ५३ ।।
त्वदर्थं सर्वदेवैर्या देवगन्धर्वकन्यकाः ।। ५४ । ।
पुरा पर्वतमुख्ये तु हिमवत्यवतारिताः ।
चतुर्दश सहस्राणि सहस्रे द्वे शताधिके ।। ५५।।
ताः सर्वाः कन्यकाः पापः प्रसह्य वरदर्पितः ।
जहार स दुराधर्षो हयग्रीवसहायवान् ।। ५६ ।।
सागरे यानि रत्नानि पृथिव्यां च त्रिविष्टपे ।
तानि सर्वाणि संहृत्य प्रमथ्य सुरमानुषान् ।। ५७ ।।
तीरे लौहित्यतीर्थस्य सोऽकरोन्मणिपर्वतम् ।
तस्मिन् गिरौ पुरीं रम्यां कारयित्वाऽलकाह्वयाम् ।। ५८ ।।
ता: सर्वा वासयामास देवगन्धर्वयोषितः ।
एकवेणीधराः सर्वाः सम्भोगपरिवर्जिताः ।
त्वामेव ताः प्रतीक्षन्ते सनाथाः कुरु कृष्ण ताः ।। ५९ ।।
यावदागच्छति पुरं भवतो नारदो मुनिः ।। ६० ।।
तावन्न मैथुने यत्नं भौम त्वं संकरिष्यसि ।
इति ताः समयं चक्रुर्नरकस्य दुरात्मनः ।। ६१ ।।
नारदश्च तदायातः प्राग्ज्योतिषपुरं प्रति ।
यदा त्वं नरकं हन्तुं गन्ता तत्पुरमुत्तमम् ।। ६२ ।।
तस्मात् त्वं पापकर्माणं नरकं नरकोपमम् ।
जहि देवमनुष्याणां कण्टकं तं दुरासदम् ।। ६३ ।।
बधात् तस्य क्षितिर्देवी पुत्रशोकं न चाप्स्यसि ।
स्वयमेव वधं तस्य देवेभ्यो यदयाचत ।।६४।।
तस्मात् तं जहि पापिष्ठं नरकं पापपूरुषम् ।
स्त्रीरत्नान्यपि रत्नानि तं निहत्य समुद्धर ।।६५।।
इत्युक्तो जगतां नाथः शक्रेण सुमहात्मना ।
प्रतिजज्ञे क्षितिसुतं हन्तुं प्रति तदैव हि ।। ६६ ।।
प्रतिज्ञाय वधं तस्य शक्रेण सह केशवः ।
तदैव यात्रामकरोत् प्राग्ज्योतिषपुरं प्रति ।। ६७ ।।
आरुह्य गरुड़ं कृष्णः सत्यभामाद्वितीयकः ।
प्राग्ज्योतिषमुखोऽगच्छद्वासवस्त्रिदिवं ययौ ।। ६८ ।।
दिवमाक्रम्य गच्छन्तौ कृष्णशक्रौ महाद्युती ।
यादवाः ददृशुस्तत्र सूर्याचन्द्रमसौ यथा ।।६९।।
संस्तूयमानौ गन्धर्वैर्देवैरप्सरसां गणैः ।
कृष्णः शक्रः क्षणादेव गतौ खे तावदृश्यताम् ।।७० ।।
ततः क्षणेन गरुडेनाससाद जगत्पतिः ।
पुरं प्राग्ज्योतिषं रम्यं नरकेण वशीकृतम् ।। ७१ ।।
स दुर्गं मौरवैः पाशैः षट्सहस्रैर्भयङ्करैः ।
क्षुरान्तैर्वेष्टितं पार्श्वे मृत्युपाशैरिवोच्छ्रितम् ।। ७२ ।।
निर्गच्छन्तं पुरात् तस्मात् नारदं च ददर्श सः ।
स तु देवमुनिः श्रीमान् यदागान्नरकं प्रति ।।७३।।
तदा प्राग्ज्योतिषं गत्वा सत्कृतस्तेन नारदः ।
सङ्गमे समयं प्रोचे नरकाय स योषिताम् ।।७४।।
।। नारद उवाच ।।
प्रवर्ततेऽद्य चैत्रस्य शुक्लपक्षस्य पञ्चमी ।
नवम्यां तु धरापुत्र प्राप्नोति महदापदम् ।।७५।।
तदा यदि चतुर्दश्यां सुस्नाता योषितस्त्विमाः ।
सुरतेषु त्वया तत्र प्रयोक्तव्या यथासुखम् ।।७६ ।।
नारदस्य वचः श्रुत्वा नरको भयमोहितः ।
आसारं च प्रसारं च नगरे सन्यवेदयत् ।। ७७ ।।
रक्षिभी रक्षितं राज्यं रक्षितं च समन्ततः ।
भयहर्षयुतो भौमः समयं समवैक्षत ॥ ७८ ॥
तस्मिन्नवसरे प्राप कृष्णः प्राग्ज्योतिषं पुरम् ।
प्रथमं पश्चिमं द्वारमासाद्य गरुडध्वजः ।।७९।।
पाशानां षट्सहस्राणि क्षुरान् सञ्छिद्य नैकधा ।
जघान स मुरुं दैत्यं सानुगं च सबान्धवम् ॥ ८०॥
षट्सहस्रा महावीरा दानवा द्वारि संस्थिताः ।
हताश्चक्रेण हरिणा तदैव मुरुणा सह ।। ८१ ।।
मुरुं हत्वा सहस्राणि पुत्रांस्तस्यापरांश्च षट् ।
जघान चक्रेण तदा खण्डशोऽन्यांश्च दानवान् ।। ८२ ।।
ततोऽनेकशिलासङ्घानतिक्रम्य जनार्दनः ।
सगणं सानुगं चैव निसुन्दं समपोथयत् ॥ ८३ ॥
एको यो योधयेद्देवान् सहस्रं वत्सरान् पुरा ।
शक्रं च समतिक्रम्य महावीरपराक्रमः ।
तं जघान हयग्रीवं समतिक्रम्य केशवः ।।८४ ।।
मध्ये लौहित्यसंज्ञस्य भगवान् देवकीसुतः ।।८५।।
औदकायां विरूपाक्षं सुन्दं हत्वा महाबलः ।
ततः पञ्चजनं वीरं जघान परमेश्वरः ।। ८६ ।।
एतान् हत्वा महाकायान् महावीर्यान् दुरासदान् ।
आससाद जगन्नाथः पुरं प्राग्ज्योतिषाह्वयम् ।।८७।।
वियत्स्थैर्दैवतैः सर्वैर्नारदेन महात्मना ।
जयशब्दैः स्तूयमानः प्रविवेश यथेश्वरः ।।८८।।
श्रिया युक्तां दीप्यमानां प्राकाराट्टालभूषिताम् ।
स मेने नगरीं विष्णुः किमिन्द्रस्यामरावती? ।। ८९ ।।
तत्र युद्धं महद्भूतं नानाप्रहरणोद्यतम् ।
भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ।
यथा देवासुरं युद्धं तथैव समपद्यत ।। ९० ॥
ततः शार्ङ्गविनिर्मुक्तैर्बाणैस्तान् दानवान् बहून् ।
निजघान महाबाहुर्गरुडस्थो जनार्दनः ।।९१।।
अष्टौ शतसहस्राणि अष्टौ शतशतानि च ।
हत्वासुरान् महाबाहुर्नरकं तं समासदत् ।। ९२ ।।
ततः श्रुत्वा स नरकः पतितानसुरान् बहून् ।
दृष्ट्वा कृष्णं महाबाहु गरुडस्थं महाबलम् ।।९३।।
वसिष्ठशापं सस्मार समयं माधवस्य च ।
नारदस्य वचश्चापि वरच्छिद्रं तथा विधेः ।। ९४ ।।
स प्राप्तकालश्च तदा केशवेन समागतः ।
युद्ध वरं मेने स्मरन् बाणवचस्तदा ।। ९५ ।।
सः काञ्चनं समारुह्य रथं वज्रध्वजं वरम् ।
लोहचक्राष्टसंयुक्तं त्रिनत्वप्रमितं रथम् ।।९६।।
युक्तमश्वसहस्रैस्तु वज्रध्वजधिराजितम् ।
नानाप्रहरणोपेतं बहुतूणीरसंयुतम् ।
अगच्छत् समरायाशु नरकः पृथिवीसुतः ।। ९७ ।।
स गच्छन् समरायाशु मानुषं भावमर्चितम् ।
निन्द्यं तथासुरं मेने स्मरन् पूर्ववचो हरेः ।। ९८ ।।
क्षणात् कृष्णं स ददर्श गरुडोपरि संस्थितम् ।
शङ्खचक्रगदाशार्ङ्गवरासिधरमच्युतम् ।।९९ ।।
किरीटकुण्डलयुतं श्रीवत्सवक्षसं हरिम् ।
कौस्तुभोद्भासितोरस्कं पीताम्बरधरं परम् ।। १०० ॥
स तेन युयुधे वीरो विष्णुना प्रभविष्णुना ।
प्राग्ज्योतिषाधिपो भीमो नरकः पृथिवीसुतः ।। १०१ ।।
स युध्यत् कृष्णनिकटे कालिकां कालिकोपमाम् ।
रक्तास्यनयनां दीर्घा खड्गशक्तिधरां तदा ।। १०२ ।।
अपश्यज्जगतां धात्रीं कामाख्यामपि मोहिनीम् ।। १०३ ।।
स विस्मितस्तदा भीतस्तां दृष्ट्वा जगतां प्रसूम् ।
योद्धव्यमित्येव तदा युयुधे नरकोऽसुरः ।। १०४।।
तेन सार्धं तदा कृष्णः कृत्वा सुमहदद्भुतम् ।
युद्धं यादृक् पुरा भूतं न देवे न च मानुषे ।।१०५ ।।
ततस्तेनाथ भौमेन युद्धकेलिं स माधवः ।
चिरं कृत्वा जघानाथ देवेन्द्रं प्रतिहर्षयन् ।। १०६ ।।
सुदर्शनेन चक्रेण मध्यदेशे तदा हरिः ।
द्विधा चिच्छेद नरकं खण्डितोऽभ्यपतद् भुवि ।। १०७ ।।
विभक्ततच्छरीरं तु भूमौ निपतितं तदा ।
विराजते वज्रभिन्नो यथा गैरिकपर्वतः ।। १०८ ।।
पतिते तनये देवी पृथ्वी दृष्ट्वा शरीरकम् ।
शोकवेगं तदा सेहे ज्ञात्वा कालं तदागतम् ।। १०९ ।।
आदितेः कुण्डलयुगं स्वयमादाय काश्यपी ।
उपातिष्ठत गोविन्दं वचनं चेदमब्रवीत् ।। ११०।।
।। पृथिव्युवाच ।।
त्वया वराहरूपेण यदाहं चोद्धृता पुरा ।
तदा त्वद्गात्रसंस्पर्शात् पुत्रो मे नरकः स्थितः ।
सोऽयं त्वया पालितश्च पातितश्चाधुना सुतः ।। १११।।
गृहाण कुण्डले चेमे अदितेः सर्वकामदे ।
सन्ततिं चास्य गोविन्द प्रतिपालय नित्यदा ।। ११२ ।।
।। श्रीभगवानुवाच ।।
भारावतरणे देवि नरकस्य वधः पुरा ।
त्वयैव प्रार्थितो यस्मात् तेनासौ निहतो मया ।। ११३ ।।
पालयिष्येऽस्य सन्तानं देवि त्वद्वचनादहम् ।
प्राग्ज्योतिषेऽभिषेक्ष्यामि नप्तारं भगदत्तकम् ।। ११४ ।।
एवमुक्त्वा महाबाहुर्भगवान् मधुसूदनः ।
अन्तःपुरं विवेशाथ नरकस्य धनालयम् ।। ११५ ।।
स तत्र ददृशे वीरो रत्नानि विविधानि च ।
राशीभूतानि शुद्धानि पर्वतानिव राजतः ।।११६।।
मुक्तामणिप्रवालानां वैदूर्यस्य च पर्वतम् ।
तथा रजतकूटानि वज्रकूटानि माधवः ।। ११७।।
सुवर्ण संचयात् रुक्मदण्डान् रत्नमयध्वजान् ।
वाहनानि विचित्राणि यानानि शयनानि च ।। ११८ ।।
खचितानि स्वर्णरत्नैर्महार्हाणि महान्ति च ।
यद् यद् दृष्टं च यावच्च धनं रत्नं मणिस्तथा ।
भुवि तादृक् च नो दृष्टमन्यत्र नरकालयात् ।। ११९ ।।
न कुबेरस्य नेन्द्रस्य न यमस्याप्यपां पतेः ।
तावन्ति धनरत्नानि यावन्ति नरकालये ।। १२० ॥
केशवोऽप्यथ तत्रैव नारदेन च सङ्गतः ।। १२१ ।।
अवेक्ष्यान्तःपुरधनं सारं सारतरं ततः ।
तेषां समाददे ग्राह्यं प्रभूतं परवीरहा ।। १२२ ।।
या दत्ता वैष्णवीशक्तिर्विष्णुना प्रभविष्णुना ।
हत्वा भौमं तु तां शक्तिं जगृहे देवकीसुतः ।। १२३ ।।
पृथिव्या नारदेनैव सहितः केशवस्तदा ।
भगदत्तं भौमसुतं प्राग्ज्योतिषपुरोत्तमे ।
अभिषिच्य तदा भूतं पुरमध्ये न्यवेशयत् ।। १२४ ।।
अभिषिक्तं तु तं दृष्ट्वा भगदत्तं तदा क्षितिः ।
नप्तुरर्थेऽथ तां शक्तिं केशवं समयाचत ।। १२५ ।।
केशवोऽपि क्षितेर्वाक्यान्नारदानुमतेन च ।
तां शक्तिं भगदत्ताय सुप्रीतमनसा ददौ ।। १२६ ।।
यच्छत्रं वरुणं जित्वा काञ्चनस्त्राविसंज्ञकम् ।
समानयत् पुरा भौमस्तच्छत्रं हरिराददे ।। १२७ ।।
अष्टभारसुवर्णानि यत्संस्रवति चान्वहम् ।
यत् क्रोशमात्रविस्तीर्णमर्धयोजनमुच्छ्रितम् ।। १२८ । ।
रत्नोत्तमानि सर्वाणि चतुर्दन्तांस्तथा गजान् ।
चतुर्दशसहस्राणि पूजिता: प्रमदास्तथा ।। १२९ ।।
द्वारकां प्रति दैत्यौघैर्वाहयामास केशवः ।। १३० ।।
या देवकन्यकाः पूर्वं नरकेण हृता बलात् ।
तासां कृत्वा हृषीकेशो वेणीबन्धविमोक्षणम् ।।१३१।।
वासोभिर्भूषणैर्दिव्यैस्ताः सत्कृत्य मुहुर्मुहुः ।
आरोप्य च विमाने तु रक्षिभिर्बलिभिर्दृढैः ।
नारदाधिष्ठिताः सर्वा द्वारकां प्रत्यवाहयत् ।। १३२ ।।
यः कृतः सुरकन्यार्थे भौमेन मणिपर्वतः ।। १३३ ।।
मणिरत्नौघसम्पूर्णो दिवाकरसमप्रभः ।
उत्पाट्य तं जगन्नाथस्तार्क्षपृष्ठे न्यधापयत् ।। १३४ ।।
तथैव वारुणं छत्रं गरुडोपरि माधवः ।
आरोप्य सत्यभामा सहासीनः सुमना हरिः ।। १३५ ।।
भगदत्तं समाभाष्य पृथिवीं च जगत्पतिः ।
प्रतस्थे द्वारकां वीरो वियन्मार्गेण वै द्रुतम् ।। १३६ ।।
सुपर्णः काञ्चनस्राविच्छत्रं समणिपर्वतम् ।
केशवं सत्यभामां च हेलया खे वहन् ययौ ।।१३७ ।।
क्षणेन द्वारकां प्राप्य केशवः परवीरहा ।
मुदं च लेभे सकलैर्बान्धवैश्च तथा गणैः ।। १३८ ।।
एवं काली महामाया कालिकाख्या जगन्मयी ।
विष्णुं च जगतां नाथं परापरपतिं हरिम् ।। १३९ ।।
जगत्कारणकर्तारं ज्ञानगम्यं जगन्मयम् ।
सन्मोहयत्येव तथा ह्यनुरागविरागवान् ।। १४० ।।
अनुगृह्णाति मित्राणि ह्यमित्राणि निहन्ति च ।
नारीषु मूढो रमते द्वन्द्वेनापि च मुह्यते ।।१४१।।
इति वः कथितं विप्रा यथाभून्नरकोऽसुरः ।
यथा च वरलाभोऽभूद् यथा चास्य विचेष्टितम् ।। १४२ ।।
आराधितो यथा ब्रह्मा बाणबुद्ध्याथ भौमिना ।
किमन्यदुचितं वास्ति तद्ब्रुवन्तु द्विजोत्तमाः ।। १४३ ।।
॥ इति श्रीकालिकापुराणे नरकोपाख्याने चत्वारिंशोऽध्यायः ॥ ४० ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand