कालिकापुराणम्/अध्यायः ३६

विकिस्रोतः तः

कालिकापुराणम् षट्त्रिंशोऽध्यायः धरादुःखविमोचनम्
अथ श्रीकालिका पुराण अध्याय ३६
।। ऋषय ऊचुः ।
कथं वराहपुत्रोऽसौ नरको नाम वीर्यवान् ।
संजातोऽसुरसत्त्वः स देवदेवीसुतोऽपि सन् ।। १ ।।
चिरजीवी कथं सोऽभूत् किमर्थमुदरे चिरम् ।
पृथिव्यां न्यवसञ्जातः कुत्र वा स महाबलः ।।२।।
सोऽसुराणां कथं राजा पुरं तस्य किमाह्वयम् ।
मलिनीरतिसंजातः स क्षितौ पोत्रिणस्तथा ॥३॥
श्रूयते मुनिशार्दूल कथं भूतस्तथाविधः ।
एतत्सर्वमशेषेण पृच्छतां त्वं वदस्व नः ॥ ४॥
त्वं नो गुरुश्च शास्ता च सर्वं प्रत्यक्षदर्शिवान् ।
कथं लब्धवरो भूतो ब्रह्मणा प्रभविष्णुणा ।।५।।
।। मार्कण्डेय उवाच ।।
शृण्वन्तु मुनयः सर्वे यत् पृष्टोऽहं द्विजोत्तमाः ।
यथा स नरको जातो धरापुत्रो महासुरः ।।६।।
रजस्वलाया गोत्राया गर्भे वीर्येण पोत्रिणः ।
यतो यातस्ततोभूतो देवपुत्रोऽपि सोऽसुरः ।।७।।
गर्भसंस्थं महावीरं ज्ञात्वा ब्रह्मादयः सुराः ।
वराहपुत्रं दुर्धर्षं महाबलपराक्रमम् ।।८।।
गर्भ एव तदा देवाः शक्त्या दधुश्चिरं दृढम् ।
यथा कालेऽपि संप्राप्ते नो गर्भाज्जायते स च ।। ९ ।।
ततस्त्यक्तशरीरस्तु वराहस्तनयैः सह ।
अतीव शोकसन्तप्ता जगद्धात्र्यभवत् क्षितिः ।। १० ।।
शोकाकुला सा व्यलपच्चिरकालं मुहुर्मुहुः ।
प्रकृतिस्था क्षितिर्भूता माधवेन प्रबोधिता ।।११।।
ततः कालेऽपि सम्प्राप्ते दैवशक्त्या यदा धृतः ।
न गर्भः प्रसवं याति तदाभूत् पीडिता क्षितिः ।। १२ । ।
कठोरगर्भा सा देवी गर्भभारं न चाशकत् ।
यदा वोढुं तदा देवं माधवं शरणं गता ।। १३ ।।
शरण्यं शरणं गत्वा माधवं जगतां पतिम् ।
प्रणम्य शिरसा देवी वाक्यमेतदुवाच ह ।।१४।।
।। पृथिव्युवाच ।।
नमस्ते जगदव्यक्तरूप-कारणकारण ।
प्रधान-पुरुषातीत-स्थित्युत्पत्तिलयात्मक ।। १५ ।।
जगन्नियोजनपरः स्वाहाभोगधरोत्तम ।
जगदानन्दनन्दात्मन् भगवन् जगदीश्वर ।। १६ ।।
नियोजको नियोज्यश्च विभ्राजन् विष्णुरव्यय ।
नमस्तुभ्यं जगद्धातस्त्रिलोकालय विश्वकृत् ।। १७ ।।
यः पालयति नित्यानि स्थापयत्येव तत्परः ।
त्वं त्वां नियमरूपेण नमामि जगदीश्वर ।। १८ ।।
त्वं माधवः प्रवेकश्च कामः कामालयो लयः ।
प्रसूतिच्युतिहेत्वर्थ त्राणकारणमीश्वर ।। १९ ।।
न यस्य ते क्लेदाय स्युरापो नोष्मा तथोष्मणे ।
न शीताय भवेच्छीतं तस्मै तुभ्यं नमो नमः ।। २० ।।
न समुद्रः प्लवकरो न शोषाय दहात्मकः ।
न मृत्यवे यस्य यमस्तस्मै तुभ्यं नमो नमः ।।२१।।
यच्चिद्धार्यं योगिभिः शान्तदेहै-रुन्मार्गाणां यात्यरिध्येयकृत्यम् ।
नित्यं यद्रूपमार्गावसक्तं स त्वं त्राहि त्राणमिच्छन् धरित्रीम् ।। २२ ।।
।। मार्कण्डेय उवाच ।।
इति स्तुतो हृषीकेश जगद्धात्र्या तदा हरिः ।
प्रार्दुभूतस्तदा प्राह धरित्रीं दीनमानसाम् ।। २३ ।।
।। श्रीभगवानुवाच ।।
कथं दीनमना देवि धरित्र परिदेवसे ।
तव वा किं कृता पीडा वेत्तुमिच्छामि तामहम् ।। २४ ।।
मुखं ते परिशुष्कं तु शरीरं कान्तिवर्जितम् ।
आकुलं नयनद्वन्द्वं भ्रूविभ्रमविवर्जितम् ।। २५।।
ईदृशं तव रूपं तु दृष्टपूर्वं कदापि न ।
रूपस्य तु विपर्यासे दुःखबीजं च भाषये ।। २६ ।।
एतच्छ्रुत्वा वचस्तस्य माधवस्य जगत्पतेः ।
विनयावनता देवी पृथ्वी प्राह सगद्गदम् ।। २७ ।।
।। पृथिव्युवाच ।।
न गर्भभारं संवोढुं माधवाहं क्षमाधुना ।
भृशं नित्यं विषीदामि तस्मात् त्वं त्रातुमर्हसि ।। २८ ।।
त्वया वराहरूपेण मलिनी कामिता पुरा ।
तेन कामेन कुक्षौ मे यो गर्भोऽयं त्वयाहितः ।। २९ ।।
काले प्राप्तेऽपि गर्भोऽयं न प्रच्यवति माधव ।
कठोरगर्भा तेनाहं पीडितास्मि दिने दिने ।। ३० ।।
यदि न त्राहि मां देव गर्भदुःखाज्जगत्पते ।
नचिरादेव यास्यामि मृत्योर्वशमसंशयम् ।।३१।।
कयापि नेदृशो गर्भः पूर्वं माधव वै धृतः ।
योऽचलां चालयति मां सरसीमिव कुञ्जरः ।। ३२।।
एतच्छ्रुत्वा वचस्तस्याः पृथिव्याः पृथिवीपतिः ।
आह्लादयन् प्रत्युवाच हरिस्तप्तां लतामिव ।। ३३ ।।
।। श्रीभगवानुवाच ।।
न धरे ते महद्दुःखं चिरस्थायी भविष्यति ।
शृणु येन प्रकारेण चानुभूतमिदं त्वया ।। ३४।।
मलिन्या सहसङ्गेन यो गर्भः सन्धृतस्त्वया ।
सोऽभूदसुरसत्त्वस्तु घृष्टेः पुत्रोऽपि दारुणः ।। ३५ ।।
ज्ञात्वा तस्य च वृत्तान्तं गर्भस्य द्रुहिणादयः ।
दैवीभिः शक्तिभिर्बद्धस्तव कुक्षौ तु तत् पुरः ।। ३६ ।।
सर्गादौ यदि जायेत भवत्यास्तादृशः सुतः ।
भ्रंशयेत् सकलान् लोकांस्त्रीनिमान् ससुरासुरान् ।। ३७।।
अतस्तस्य बलं वीर्यं ज्ञात्वा ब्रह्मादयः सुराः ।
प्राक्सृष्टिकाले ते गर्भं तथा धूर्जगतां कृते ।। ३८ ।।
अष्टाविंशतितमे प्राप्ते आदिसर्गाच्चतुर्युगे ।
त्रेतायुगस्य मध्ये तु सुतं त्वं जनयिष्यसि ।। ३९ ।।
यावत् सत्ययुगं याति त्रेतार्थं च वरानने ।
तावद् वह महागर्भं दत्तः कालो मया तव ।। ४० ।।
न यावज्जायते धात्रि गर्भस्ते ह्यतिदारुणः ।
तावद् गर्भवती दुःखं न त्वं प्राप्स्यसि भामिनी ।।४१।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा भगवान् विष्णुः पृथिवीं गर्भिणीं तदा ।
नाभौ पस्पर्श दयितां शङ्खाग्रेणातिपीडिताम् ।।४२।।
सा स्पृष्टा विष्णुणा पृथ्वी शरीरं लघु चासदत् ।
गर्भेऽपि लघिमानं सा प्रापातीव सुखप्रदम् ।।४३।।
अगर्भा यादृशी नारी तादृशी साप्यजायत ।
धृतगर्भाप मुदिता सा बभूव जगत्प्रसूः ।। ४४ ।।
ततः पुनरिदं वाक्यमुक्त्वा स भगवान् क्षितिम् ।
पुनः प्रसादयामास सामभिर्बहुभिश्च ताम् ।। ४५ ।।
जगद्धात्रि महासत्वे त्वं धृतिर्धारणात्मिका ।
सर्वेषां धारणाद्देवि त्वं धात्रीति प्रगीयसे ।।४६ ।।
क्षमा यस्माज्जगद्धर्तुं शक्ता क्षान्तियुतात्र यत् ।
सर्वं वसु त्वयि न्यस्तं यस्माद्वसुमती ततः ।। ४७ ।।
तद्दुःखं त्यज पुत्रस्ते यदा संजायते तदा ।
माँ स्मरिष्यसि देवि त्वं पुत्रं ते पालयाम्यहम् ।।४८।।
इदं रहस्यं कुत्रापि न प्रकाश्यं त्वया धरे ।
यन्मया कथितं देवि रहस्यं परमं परम् ।। ४९ ।।
गर्भस्तव महाभागे त्रेतायामध्यभागतः ।
उत्पत्स्यते वीरे रावणे रामसंज्ञिना ।। ५० ।।
।। मार्कण्डेय उवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तत्रैवान्तरधीयत ।
आज्ञाप्य पृथिवीं देवीं गर्भभारप्रपीडिताम् ।। ५१ ।।
धरापि कुशला क्षामा लघुकाया बलैर्युता ।
अगर्भेव ययौ देवी मुदा परमया युता ।। ५२ ।।
॥ इति श्रीकालिकापुराणे धरादुःखविमोचने षट्त्रिंशोऽध्यायः ॥ ३६ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand