कालिकापुराणम्/अध्यायः ३२

विकिस्रोतः तः

कालिकापुराणम् द्वात्रिंशोऽध्यायः मत्स्यावतारवर्णनम्
अथ कालिका पुराण अध्याय ३२
।। ऋषय ऊचुः ॥
आकालिकोऽयं प्रलयो यतो भगवता कृतः ।
तच्छृण्वन्तु महाभागा वाराहं लोकसंक्षयम् ।। १ ।।
यथा वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।
तदहं संप्रवक्ष्यामि सर्वपापप्रणाशनम् ॥ २॥
पुरा महामुनिः सिद्धः कपिलो विष्णुरीश्वरः ।
साक्षात् स्वयं हरिर्योऽसौ सिद्धानामुत्तमो मुनिः ।।३।।
ध्यायतः सिद्धमित्येवं सर्वं जगदिदं स्वतः ।
यतो जातो हरेः कायात् कपिलस्तेन स स्मृतः ।।४।।
स एकदा पुरा भूत्वा मनोः स्वायम्भुवेऽन्तरे ।
स्वायम्भुवं मनुं वाक्यं मुनिवर्योऽब्रवीदिदम् ।।५।।
।। कपिल उवाच ।
स्वायम्भुव मुनिश्रेष्ठ ब्रह्मरूप महामते ।
ममैवमीप्सितार्थं त्वं देहि प्रार्थयतोऽधुना ।। ६ ।।
जगत्सर्वं तवैवेदं त्वया च परिपालितम् ।
त्वया सर्वं जगत् सृष्टं त्वमेव जगतां पतिः ।।७।।
स्वर्गे पृथिव्यां पाताले देवमानुषजन्तुषु ।
त्वं प्रभुर्वरदो गोप्ता त्वमेवैकः सनातनः ।।८।।
त्वं वै धाता विधाता च त्वं हि सर्वेश्वरेश्वरः ।
त्वयि प्रतिष्ठितं सर्वं सततं भुवनत्रयम् ।। ९ ।।
तपस्यतो तव समं प्रतिभास्यति सोऽनुगम् ।
कार्यकारणतत्त्वाघ सहितानि जगन्ति वै ।।१०।।
तन्मे देहि रहः स्थानं त्रिषु लोकेषु दुर्लभम् ।
पुण्यं पापहरं रम्यं ज्ञानप्रभवमुत्तमम् ।। ११ ।।
अहं हि सर्वभूतानां भूत्वा प्रत्यक्षदर्शिवान् ।
उद्धरिष्ये जगज्जातं निर्माय ज्ञानदीपिकाम् ।।१२।।
अज्ञानसागरे मग्नमधुना सकलं जगत् ।
ज्ञानप्लवं प्रदायाहं तारयिष्ये जगत्त्रयम् ।।१३।।
एतस्मिन्मां भवान् सम्यगुपपन्नमिहेच्छति ।
त्वन्नो नाथश्च पूज्यश्च पालकश्च जगत्प्रभो ।। १४ ।।
इत्येवमुक्तः स मनुः कपिलेन महात्मना ।
प्रत्युवाच महात्मानं कपिलं संशितव्रतम् ।।१५।।
।। मनुरुवाच ।।
यदि त्वयाखिलजगद्धितार्थं ज्ञानदीपिकाम् ।
चिकीर्षुणा यतः कार्यं किं स्थानार्थनया तव ।। १६ ।।
हिरण्यगर्भः सुमहत् तपस्तेपे पुराद्भुतम् ।
स मे ययाचे तपसे स्थानं कस्मै न च द्विज ।। १७ ।।
शम्भुः सम्भोगरहितो देवमानेन वत्सरान् ।
अयुतानि तपस्तेपे सोऽपि स्थानं न चैक्षत ।। १८ ।।
देवेन्द्रो वीतिहोत्रश्च शमनो रक्षसां पतिः ।
यादः पतिर्मातरिश्वा धनाध्यक्षस्तथैव च ।। १९ ।।
एते ते पुस्तपस्तीव्रं दिक्पालत्वमभीप्सवः ।
स्थानं न मार्गयामासुः किञ्चनापि महामुने ।।२०।।
देवागाराणि तीर्थानि क्षेत्राणि सरितस्तथा ।
बहूनि पुण्यभाग्यत्र तिष्ठन्ति कपिल क्षितौ ।। २१ ।।
तेषामेकतमं त्वं चेदासाद्य कुरुषे तपः ।
स्थानं ब्रह्मंस्तप: सिद्धिर्न भविष्यति तत्र किम् ।। २२ ।।
मत्तः स्थानार्थना तावत् केवलं ते विकत्थनम् ।
अयं विकत्थनो धर्मो युज्यते न तपस्विनाम् ।। २३ ।।
।। मार्कण्डेय उवाच ।।
एतच्छ्रुत्वा वचस्तस्य मनोः स्वायम्भुवस्य तु ।
चुकोप कपिलः सिद्धः प्रोवाच च तदा मनुम् ।। २४ ।।
।। कपिल उवाच ।।
त्वयि विश्रम्भमाधाय तपसः सिद्धयेऽचिरात् ।
स्थानं मया प्रार्थितं ते तन्मां क्षिपसि हेतुभिः ।। २५ ।।
अनेनात्युग्रवचसा तवैवाहं न चक्षमे ।
स्वयं त्रिभुवनाध्यक्ष इति ते गर्व ईदृशः ।। २६ ।।
अक्षम्यं ते वचो मेऽद्य प्रार्थनायां विकत्थनम् ।
यत् त्वं वदसि तस्य त्वं फलमेतदवाप्नुहि ।।२७।।
इदं त्रिभुवनं सर्वं सदेवासुरमानुषम् ।
हतप्रहतविध्वस्तमचिरेण भविष्यति ।। २८ ।।
येनेयमुद्धृता पृथ्वी येन वा स्थापिता पुनः ।
यो वास्या अन्नकर्ता स्याद्यो वास्याः परिरक्षकः ।
त एव सर्वे हिंसन्तु सकलं सचराचरम् ।। २९ ।।
नचिराद्रक्ष्यसि मनोजलपूर्णं जगत्त्रयम् ।
हतप्रहतविध्वस्तं तव गर्वविशातनम् ।। ३० ।।
एवमुक्त्वा मुनीन्द्रोऽसौ कपिलस्तपसां निधिः ।
अन्तर्दधे जगामापि तदा ब्रह्मसदो मुनिः ।। ३१ ।।
कपिलस्य वचः श्रुत्वा विषण्णवदनो मनुः ।
भावीति प्रतिपद्याशु मनुर्नोवाच किञ्चन ।। ३२।।
ततः स्वायम्भुवो धीमांस्तपसे धृतमानसः ।
हिताय सर्वजगतां दिदृक्षुर्गरुडध्वजम् ।
विशालां बदरीं यातो गङ्गाद्वारान्तिकं खलु ।। ३३ ।।
तत्र गत्वा जगद्धर्ता मनुः स्वायम्भुवः स्वयम् ।
ददर्श बदरीं तत्र पुण्यां पापप्रणाशिनीम् ।। ३४ ।।
सदा फलवतीं नित्यं मृदुशाद्वलमंजरीम् ।
सुच्छायां मसृणां शीर्णशुष्कपत्रविवर्जिताम् ।। ३५ ।।
गङ्गातोयौधसंसिक्त शिखामूलान्तराखिलाम् ।
उपास्यमानां सततं नानामुनितपोधनैः ।।३६।।
तत्स्थानं सर्वतो भद्रं नानाभृङ्गगणान्वितम् ।
फुल्लारविन्दसलिलं रमणीयं वृषप्रदम् ।। ३७ ।।
प्रविश्य तपसे यत्नमकरोल्लोकभावनः ।
स भूत्वा नियताहारः परमेण समाधिना ।। ३८ ।।
आराधयामास हरि जगत्कारणकारणम् ।
सर्वेषां जगतां नाथं नीलमेघाजनप्रभम् ।। ३९ ।।
शङ्खचक्रगदापद्मधरं कमललोचनम् ।
पीताम्बरधरं देवं गरुडोपरिसंस्थितम् ।।४०।।
जगन्मयं लोकनाथं व्यक्ताव्यक्तस्वरूपिणम् ।
जगद्वीजं सहस्राक्षं सहस्रशिरसं प्रभुम् ।
सर्वव्यापिनमाधारं नारायणमजं विभुम् ।।४१ ।।
जपन्नेतत्परं मन्त्रं सर्ववेदमयं मनुः ।। ४२ ।।
हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे ।
ॐ नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ।। ४३ ।।
इति जप्यं प्रजपतो मनोः स्वायम्भुवस्य तु ।
प्रससाद जगन्नाथः केशवो नचिरादथ ।।४४ ।।
ततः क्षुद्रझषो भूत्वा दुर्वादलसमप्रभः ।
कर्पूरकलिकायुग्म तुल्यनेत्रयुगोज्ज्वलः ।। ४५ ।।
तपस्यन्तं महात्मानं मनुं स्वायम्भुवं मुनिम् ।
आससाद तदा क्षुद्रमत्स्यरूपी जनार्दनः ।।४६।।
उवाच तं महात्मानं मनुं स्वायम्भुवं तदा ।
ससन्त्रस्तं स कारुण्ययुक्तं भीतिसगद्गदम् ।। ४७ ।।
।। मत्स्य उवाच ।।
तपोनिधे महाभाग भीतं मां त्रातुमर्हसि ।
नित्यमुद्वेजितं मत्स्यैर्विशालैर्भक्षितुं प्रति ।।४८ ।।
प्रत्यहं मां महाभाग मीना धावन्ति भक्षितुम् ।
समन्ततोऽधिकाहन्तुं त्वं नाथ गोपितुं क्षमः ।। ४९ ।।
अद्य प्रभूतैर्विपुलैर्दारितः पृथुरोमभिः ।
विश्रान्तोऽहं क्षुद्रतरो न च शक्तः पलायने ।। ५० ।।
प्राणाकांक्षी महात्मानं भवन्तं शरणं मुनिम् ।
प्राप्तोऽहञ्चेदनुक्रोशस्तेऽस्ति मां प्रतिपालय ।। ५१ ।।
भयोद्भ्रान्तमनाश्चाहं वृक्षच्छायां च चञ्चलाम् ।
दृष्ट्वा चलतरङ्गांश्च मत्स्यादिव विभेम्यहम् ।। ५२ ।।
।। मार्कण्डेय उवाच ।।
इति तस्य वचः श्रुत्वा मनुः स्वायम्भुवस्ततः ।
कृपया परयायुक्तः प्रोचेऽहं रक्षिता तव ।।५३।।
ततः करोदरे तोयमादायाधाय तत्र तम् ।
समक्षं क्षुद्रमत्स्यस्य विहारं समलोकयत् ।।५४।।
ततो दयालुः स मनुस्तं मत्स्यं चारुरूपिणम् ।
अलिञ्जरे तोपूर्णे न्यधाद्विपुल भोगिनि ।। ५५ ।।
स तस्मिन् मणिके मत्स्यो वर्धमानो दिने दिने ।
सामान्यरोहितप्राय-देहोऽभून्नचिरादथ ।। ५६ ।।
दशघटजलपूर्णं प्रत्यहं स महात्मा
मणिकवसमतिकुर्वन् वर्धयामास मत्स्यम् ।
स च सुविशदनेत्रो मत्स्यबालोऽचिरेण
मणिकसलिलमध्ये लोमशः पीनदेहः ॥५७॥
॥ इति श्रीकालिकापुराणे मत्स्यावतारवर्णने द्वात्रिंशोऽध्यायः ॥ ३२ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand