कालिकापुराणम्/अध्यायः ३१

विकिस्रोतः तः

कालिकापुराणम् एकत्रिंशोऽध्यायः वाराहतनौयज्ञोत्पत्तिः
अथ कालिका पुराण अध्याय ३१
।। ऋषय ऊचुः ।।
कथं यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् ।
त्रेतात्वमगमन् पुत्रा वराहस्य कथं त्रयः ॥१॥
आकालिकोऽयं प्रलयः कस्माद् भगवता कृतः ।
जनक्षयो महाघोरो वराहेण महात्मना ।। २ ।।
कथं वा मत्स्यरूपेण वेदास्त्राताश्च शार्ङ्गिणा ।
कथं पुनरभूत् सृष्टिः केन चोर्वी समुद्धृता ।।३।।
ईश्वरः शारभं कायं त्यक्तवान् वा कथं गुरो ।
कीदृक् प्रवृत्तं तद्देहं तन्नो वद महामते ।।४।।
एतेषां द्विजशार्दूल भवान् प्रत्यक्षदर्शिवान् ।
तन्नोऽद्य श्रोष्यमाणानां कथयस्व महामते ।।५।।
।। मार्कण्डेय उवाच ।।
शृणुध्वं द्विजशार्दूला यत्पृष्टोऽहमिहाद्भुतम् ।
श्रृण्वन्त्ववहिताः सर्वे सर्ववेदफलप्रदम् ।।६।।
यज्ञेषु देवास्तुष्यन्ति यज्ञेन सर्वं प्रतिष्ठितम् ।
यज्ञेन ध्रियते पृथ्वी यज्ञस्तारयति प्रजाः ।।७।।
अन्नेन भूता जीवन्ति पर्जन्यादन्नसम्भवः ।
पर्जन्यो जायते यज्ञात् सर्वं यज्ञमयं ततः ॥८॥
स यज्ञोऽभूद्वराहस्य कायाच्छम्भुविदारितात् ।
यथाहं कथये तद्वः शृण्वन्त्ववहिता द्विजाः ।। ९ ।।
विदारिते वराहस्य काये भर्गेण तत्क्षणात् ।
ब्रह्मविष्णुशिवा देवाः सर्वैश्च प्रमथैः सह ।। १० ।।
निन्युर्जलात् समुद्धृत्य तच्छरीरं नभः प्रति ।
तद्धिदुः शरीरं तत् विष्णोश्चक्रेण खण्डशः ।। ११।।
तस्यांगसन्धयो यज्ञा जाताश्च वै पृथक् पृथक् ।
यस्मादङ्गाच्च ये जातास्तच्छृण्वन्तु महर्षयः ।। १२ ।।
भ्रूनासासन्धितो जातो ज्योतिष्टोमो महाध्वरः ।
हनुश्रवणसन्ध्योस्तु वह्निष्टोमो व्यजायत ।।१३।।
चक्षूर्भुवो सन्धिना तु व्रात्यष्टोमो व्यजायत ।
जात: पौनर्भवष्टोमस्तस्य पोत्रौष्ठसन्धितः ।। १४ ।।
वृद्धष्टोमवृहत्ष्टोमौ जिह्वामूलादजायताम् ।
अतिरात्रं सवैराजमधोजिह्वान्तरादभूत् ।। १५ ।।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।
होमो दैवोबलिर्भौतो नृयज्ञोऽतिथिपूजनम् ।। १६ ।।
स्नानं तर्पणपर्यतं नित्ययज्ञाश्च सर्वशः ।
कण्ठसंध्धेः समुत्पन्नाः जिह्वातो विधयस्तथा ।। १७ ।।
वाजिमेध महामेधौ नरमेधस्तथैव च ।
प्राणिहिंसाकरा येऽन्ते ते जाताः पादसन्धितः ।। १८ ।।
राजसूयोऽर्थकारी च वाजपेयस्तथैव च ।
पृष्टसन्धौ समुत्पन्ना ग्रहयज्ञास्तथैव च ।। १९ ।।
प्रतिष्ठोत्सर्गयज्ञाश्च दानश्राद्धादयस्तथा ।
हृत्सन्धितः समुत्पन्नाः सावित्रीयज्ञ एव च ।।२०।।
सर्वे सांस्कारिका यज्ञाः प्रायश्चित्तकराश्च ये ।
ते मेढ्रसन्धितो जाता यज्ञास्तस्य महात्मनः ।। २१ ।।
रक्षःसत्रं सर्पसत्रं सर्वं चैवाभिचारिकम् ।
गोमेधो वृक्षयागश्च खुरेभ्यो ह्यभवन्निमे ।। २२ ।।
मायेष्टिः परमेष्टिश्च गीष्पतिर्भोगसम्भवः ।
लाङ्गुलसन्धौ संजाता अग्निष्टोमस्तथैव च ।। २३ ।।
नैमित्तिकाश्च ये यज्ञा: संक्रान्त्यादौ प्रकीर्तिताः ।
लाङ्गुलसन्धौ ते जातास्तथा द्वादशवार्षिकम् ।। २४ ।।
तीर्थप्रयोगसामौज: यज्ञः संकर्षणस्तथा ।
आर्कमाथर्वणचैव नाडीसन्धेः समुद्भुताः ।।२५।।
ऋचोत्कर्षः क्षेत्रयज्ञाः पञ्चसर्गातियोजनः ।
लिङ्गसंस्थानहेरम्बयज्ञा जाताश्च जानूनि ।। २६ ।।
एवमष्टाधिकं जातं सहस्रं द्विजसत्तमाः ।
यज्ञानां सततं लोका यैर्भाव्यन्तेऽधुनापि च ।। २७ ।।
स्रुगस्य पोत्रात् संजाता नासिकायाः स्रुवोऽभवत् ।
अन्ये स्रुक्स्रुबभेदा ये ते जाता पोत्रनासयोः ।।२८।।
ग्रीवाभागेण तस्याभूत् प्राग्वंशो मुनिसत्तमाः ।
इष्टापूर्तिर्वजुर्धर्मों जाता: श्रवणरन्ध्रतः ।। २९ ।।
दंष्ट्राभ्यो ह्यभवन् यूपाः कुशा रोमाणि चाभवन् ।
उद्गाता च तथाध्वर्युर्होता शामित्रमेव च ।। ३० ।।
अग्रदक्षिणवामांग पश्चात्-पादेषु सङ्गताः ।
पुरोडाशाः सचरवो जाता मस्तिष्कसंचयात् ।। ३१ ।।
कर्सूर्नेत्रद्वयाज्जाता यज्ञकेतुस्तथा खुरात् ।
मध्यभागोऽभवद्वेदी मेढ्रात् कुण्डमजायत ।। ३२।।
रेतोभागात्तथैवाज्यं स्वधामन्त्राः समुद्गताः ।
यज्ञालयः पृष्ठभागाद्हृत्पद्माद्यज्ञ एव च ।
तदात्मा यज्ञपुरुषो मुंजा: कक्षात्समुद्गताः ।। ३३ ।।
एवं यावन्ति यज्ञानां भाण्डानि च हवींषि च ।
तानि यज्ञवराहस्य शरीरादेव चाभवन् ।। ३४ ।।
एवं यज्ञवराहस्य शरीरं यज्ञतामगात् ।
यज्ञरूपेण सकलमाप्यायितुमिदं जगत् ।। ३५ ।।
एवं विधाय यज्ञं तु ब्रह्मविष्णुमहेश्वराः ।
सुवृत्तं कनकं घोरमासेदुर्यत्नतत्पराः ।। ३६ ।।
ततस्तेषां शरीराणि पिण्डीकृत्य पृथक् पृथक् ।
त्रिदेवास्त्रिशरीराणि व्यधमन्मुखवायुभिः ।। ३७ ।।
सुवृत्तस्य शरीरं तु व्यधमन्मुखवायुना ।
स्वयमेव जगत्स्रष्टा दक्षिणाग्निस्ततोऽभवत् ।। ३८ ।।
कनकस्य शरीरं तु ध्मापयामास केशवः ।
ततोऽभूद्गार्हपत्याग्निः पञ्चवैतानभोजनः ।। ३९ ।।
घोरस्य तु वपुः शम्भुर्ध्यापयामास वै स्वयम् ।
तत आहवनीयोऽग्निस्तत्क्षणात् समजायत ।। ४० ।।
एतैस्त्रिभिर्जगद्व्याप्तं त्रिमूलं सकलं जगत् ।
एतद् यत्र त्रयं नित्यं तिष्ठन्ति द्विजसत्तमाः ।
समस्ता देवतास्तत्र वसन्त्यनुचरैः सह ।। ४१ ।।
एतद्भद्रपदं नित्यमेतदेव त्रयात्मकम् ।
एतत्त्रयीविधिस्थानमेतत् पुण्यकरं परम् ।।४२ ।।
यस्मिन् जनपदे चैते हूयन्ते वह्नयस्त्रयः ।
तस्मिन् जनपदे नित्यं चतुर्वर्गो विवर्धते ।।४३।।
एतद्वः कथितं सर्वं यत् पृष्टोऽहं द्विजोत्तमाः ।। ४४ ।।
यथा यज्ञवराहस्य देहो यज्ञत्वमाप्तवान् ।
यथा च तस्य पुत्राणां देहतो वह्नयोऽभवन् ।। ४५ ।।
॥ इति श्रीकालिकापुराणे वाराहतनौ यज्ञोत्पत्तिर्नाम एकत्रिंशोऽध्यायः ॥ ३१ ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand