कालिकापुराणम्/अध्यायः १०

विकिस्रोतः तः

कालिकापुराणम् दशमोऽध्यायः सती याचनं
अथ कालिका पुराण अध्याय १०
।। मार्कण्डेय उवाच ।।
अथ सत्या पुनः शुक्लपक्षेऽष्टम्यामुपोषितम् ।
आश्विने मासि देवेशं पूजयामास भक्तितः ।। १।।
इति नन्दाव्रते पूर्णे नवम्यां दिनमागतः ।
तस्यास्तु भक्तिनम्रायाः प्रत्यक्षमभवद्धरः ।।२।।
प्रत्यक्षतो हरं वीक्ष्य समोदहृदया सती ।
ववन्दे चरणौ तस्य लज्जयावनता नता ।।३।।
अथ प्राह महादेवः सतीं तद् व्रतधारिणीम् ।
तामिच्छन्नपि भार्यार्थे तस्याश्चर्यफलप्रदः ।।४।।
।। ईश्वर उवाच ।।
अनेन त्वद्व्रतेनाहं प्रीतोऽस्मि दक्षनन्दिनि ।
वरं वरय दास्यामि यस्तवाभिमतो भवेत् ।।५।।
।। मार्कण्डेय उवाच ।।
जानन्नपीह तद्भावं महादेवो जगत्पतिः ।
ऊचेऽथ वरयस्वेति तद्वाक्यश्रवणेच्छया ।।६।।
सापि त्रपासमाविष्टा नो वक्तुं हृदये स्थितम् ।
शशाक बालाभीष्टं यल्लज्जयाच्छादितं यत: ।।७।।
एतस्मिन्नन्तरे कामः साभिप्रायं हरं तदा ।
वामापरिग्रहे नेत्रवक्त्रव्यापारलिंगितम् ।।८।।
सम्प्राप्य विवरञ्चापं सन्दधे पुष्पहेतिना ।
हर्षणेनाथ बाणेन विव्याध हृदये हरम् ।।९।।
ततोऽसौ हर्षितः शम्भुर्वीक्षाञ्चक्रे सतीं मुहुः ।
विस्मृत्य च परं ब्रह्मचिन्तनं परमेश्वरः ।।१० ॥
ततः पुनर्मोहनेन बाणेनैनं मनोभवः ।
विव्याध हर्षितः शम्भुर्मोहितश्च तदा भृशम् ।।११।।
ततो यदासौ मोहस्य हर्षस्य च द्विजोत्तमाः ।
भावं व्यक्तीचकारैष माययापि विमोहितः ।। १२ ।।
अथ त्रपां स्वां संस्तभ्य यदा प्राह हरं सती ।
ममेष्टं देहि वरद वरमित्यर्थकारकम् ।।१३।।
तदा वाक्यस्यावसानमनपेक्ष्य वृषध्वजः ।
भवस्व मम भार्येति प्राह दाक्षायणीं मुहुः ।।१४।।
एतच्घ्रूत्वा वचस्तस्य साभीष्टफलभावनम् ।
तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ।। १५ ।।
सकामस्य हरस्याग्रे तत्र सा चारुहासिनी ।
अकरोन्निजभावांश्च हावानपि द्विजोत्तमाः ।। १६ ।।
स्वस्य भावान् समादाय शृङ्गाराख्यो रसस्तदा ।
तयोर्विवेश विप्रेन्द्राः कलहो वा यथोचितम् ।।१७।।
हरस्य पुरतो रेजे स्निग्धभिन्नाञ्जनप्रभा ।
चन्द्राभ्यासेऽङ्कलेखेवस्फटिकोज्जवलवर्ष्मणः।। १८ ।।
अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः ।
पितुर्मे गोचरीकृत्य मां गृह्णीष्व जगत्पते ।।१९।।
एवं स्मितं वचो देवी यदोवाच सती तदा ।
मम भार्या भवेत्यूचे पुनः कामेन मोहितः ।।२०।।
अथैतद्वीक्ष्य मदनः सरति: ससखो मुदा ।
युक्तो वभूव शश्वच्च आत्मानञ्चाभ्यनन्दयन् ।। २१ ।।
अथ दाक्षायणी शम्भुं समाश्वास्य द्विजोत्तमाः ।
जगाम मातुरभ्यासं हर्षमोहसमन्विता ।। २२ ।।
हरोऽपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् ।
दाक्षायणीविप्रलम्भदुःखाद् ध्यानपरोऽभवत् ।।२३।।
विप्रलब्धोऽपि भूतेशो ब्रह्मावाक्यमथास्मरत् ।
जायापरिग्रहस्यार्थे यदुक्तं पद्मयोनिना ।। २४ ।।
स्मृत्यैव ब्रह्मवाक्यस्य पुरा विश्वासतः परम् ।
चिन्तयामास मनसा ब्रह्माणं वृषभध्वजः ।। २५ ।।
अथ संचिन्त्यमानोऽसौ परमेष्ठी त्रिशूलिना ।
पुरस्तात् प्राविशत्तूर्णमिष्टसिद्धिप्रचोदितः ।। २६ ।।
यत्रायं हिमवत्प्रस्थे विप्रलब्धो हरः स्थितः ।
सावित्री सहितो ब्रह्मा तत्रैव समुपस्थितः ।। २७।।
अथ तं वीक्ष्य धातारं सावित्रीसहितं हरः ।
सोत्सुको विप्रलब्धश्च सत्यर्थे तमुवाच ह ।। २८ ।।
।। ईश्वर उवाच ।।
ब्रह्मन् विश्वार्थतो दारपरिग्रहकृत च यत् ।
त्वमात्थ तत्सार्थमिव प्रतिभाति ममाधुना ।। २९ ।।
अहमाराधितो भक्त्या दाक्षायण्यातिभक्तितः ।
तस्या वरमहं दातुं यदायातः प्रपूजितः ।। ३० ।।
तत्सकाशे तदा कामो मां विव्याध महेषुभिः ।
मायया मोहितश्चाहं तत्प्रतीकारमञ्जसा ।
न शक्तः कर्तुमभितः पुराहं कमलासन ।।३१।।
तस्याश्च वाञ्छितं ब्रह्मन्नेतदेव मयेक्षितम् ।
यदहं स्यां विभो भर्ता व्रतभक्तिमुदायुतः ।।३२।।
तस्मात्त्वं कुरु विश्वार्थे मदर्थे च प्रजापते ।
दक्षो यथा मामामन्त्र्य सुतां दाता तथाद्भुतम् ।।३३।।
गच्छ त्वं दक्षभवनं कथयस्व वचो मम ।
यथा सतीवियोगस्य भंग: स्यात् त्वं तथा कुरु ।। ३४ ।।
।। मार्कण्डेय उवाच ।।
इत्युदीर्य महादेव: सकाशेऽस्य प्रजापतेः ।
सावित्रीं वीक्ष्य सत्यास्तु विप्रयोगो व्यवर्द्धत ।। ३५ ।।
तं समाभाष्य लोकेशः कृतकृत्यो मुदान्वितः ।
इदं जगाद जगतां हितं पथ्यं च धूर्जटेः ।। ३६ ।।
।। ब्रह्मोवाच ।।
यदात्थ भगवच्छम्भो तद्विश्वार्यं सुनिश्चितम् ।
नास्त्येव भवतः स्वार्थो ममापि वृषभध्वज ।। ३७।।
सुताञ्च तुभ्यं दक्षस्तु स्वयमेव प्रदास्यति ।
अहञ्चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ।। ३८।।
।। मार्कण्डेय उवाच ।।
इत्युदीर्य महादेवं ब्रह्मा लोकपितामहः ।
जगाम दक्षनिलयं स्यन्दनेनातिवेगिना ।। ३९ ।।
अथ दक्षोऽपि वृत्तान्तं सर्वं श्रुत्वा सतीमुखात् ।
चिन्तयामास देयेयं मत्सुता शम्भवे कथम् ।।४०।।
आगतोऽपि महादेवः प्रसन्नः सञ्जगाम ह ।
पुनरेव कथं सोऽपि सुतार्थेऽत्यर्थमीप्सितः ।।४१।।
प्रस्थाप्यो वा मया तस्य दूतो निकटमञ्जसा ।
नैतद्योग्यं न गृह्णीयाद् यद्येनां विभुरात्मने ।।४२।।
अथवा पूजयिष्यामि तमेव वृषभध्वजम् ।
मदीयतनयाभर्ता स्वयमेव यथा भवेत् ।।४३।।
तथैव पूजित: सोऽपि वाञ्छन्त्यातिप्रयत्नतः ।
शम्भुर्भवतु मद्भर्तेत्येवं दत्तञ्च तेन तत् ।। ४४ ।।
इति चिन्तयतस्तस्य दक्षस्य पुरतो विधिः ।
उपस्थितो हंसरथः सावित्रीसहितस्तदा ।। ४५ ।।
तं दृष्ट्वा वेधसं दक्षः प्रणम्यावनतः स्थितः ।
आसनञ्च ददौ तस्मै समाभाष्य यथोचितम् ।।४६ ।।
ततस्तं सर्वलोकेशं तत्रागमनकारणम् ।
दक्षः पप्रच्छ विप्रेन्द्राश्चिन्ताविष्टोऽपि हर्षितः ।। ४७ ।।
।। दक्ष उवाच ॥
तवात्रागमने हेतुं कथयस्व जगद्गुरो ।
पुत्रस्नेहात् कार्यवशादथवाश्रममागतः ।।४८ ॥
।। मार्कण्डेय उवाच ।।
इति पृष्ट: सुरश्रेष्ठो दक्षेण सुमहात्मना ।
प्रहसन्नब्रवीद्वाक्यं मोदयंस्तं प्रजापतिम् ।।४९।।
।। ब्रह्मोवाच ।।
शृणु दक्ष यदर्थं ते समीपमहमागतः ।
तल्लोकस्य हितं पथ्यं भवतोऽपि तदीप्सितम् ॥५०॥
तव पुत्र्या समाराध्य महादेवं जगत्पतिम् ।
यो वरः प्रार्थितः सोऽद्य स्वयमेवागतो गृहम् ।। ५१ ।।
शम्भुना तव पुत्र्यर्थे त्वत्सकाशमहं पुनः ।
प्रस्थापितोऽस्मि यत् कृत्यं श्रेयस्तदवधारय ।।५२।।
वरं दातुं यदायातस्तावत्प्रभृति शङ्करः ।
तत्सुताविप्रयोगेण न शर्म लभतेऽञ्जसा ।। ५३ ।।
लब्धच्छिद्रोऽपि मदनो निचखान तदा भृशम् ।
सर्वैः पुष्पकरैर्बाणैरेकदैव जगत्प्रभुम् ।।५४।।
स बाणविद्वः कामेन परित्यज्यात्मचिन्तनम् ।
सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा ।। ५५ ।।
विस्मृत्य प्रस्तुतां वाणीं गणाग्रे विप्रयोगतः ।
क्व सतीत्येव गिरिशो भाषतेऽन्यकृतावपि ।। ५६ ।।
मया यद्वाञ्छितं पूर्वं त्वया च मदनेन च ।
मरीच्याद्यैर्मुनिवरैस्तत् सिद्धमधुना सुत ।।५७।।
त्वत्पुत्र्याराधितः शम्भुः सोऽपि तस्या विचिन्तनात् ।
अनुमोदयितुं प्रेप्सुर्वर्तते हिमवद्गतौ ।।५८।।
यथा नानाविधैर्भावैः सत्या नन्दाव्रतेन च ।
शम्भुराराधितस्तेन तथैवाराध्यते सती ।। ५९ ।।
तस्मात्त्वं दक्ष तनयां शम्भ्वर्थे परिकल्पिताम् ।
तस्मै देह्यविलम्बेन तेन कृतकृत्यता ।। ६० ।।
अहं तमानयिष्यामि नारदेन त्वदालयम् ।
तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम् ।।६१ ।।
।। मार्कण्डेय उवाच ।।
एवमेवेति दक्षस्तमुवाच परमेष्ठिनम् ।
विधिश्च गतवांस्तत्र गिरिशो यत्र संस्थितः ।।६२।।
गते ब्रह्मणि दक्षोऽपि सदारतनयो मुदा ।
अभवत् पूर्णदेहस्तु पीयूषैरिव पूरितः ।।६३।।
अथ ब्रह्मापि मोदेन प्रसन्नः कमलासनः ।
आससाद महादेवं हिमवद्गिरिसंस्थितम् ।। ६४ ।।
तं वीक्ष्य लोकस्रष्टारमायान्तं वृषभध्वजः ।
मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ।।६५ ।।
अथ दूरान्महादेवो लोकेशं सामसंयुतम् ।
उवाच मदनोन्माथः विधिं स स्मरमानसः ।। ६६ ।।
।। ईश्वर उवाच ।।
किमवोचत् सुरश्रेष्ठ सत्यर्थे त्वत्सुतः स्वयम् ।
कथयस्व यथास्वान्तं मन्मथेन न दीर्यते ।। ६७ ।।
बाधमानो विप्रयोगो मामेव च सतीमृते ।
अभिहन्ति सुरश्रेष्ठ त्यक्त्वान्यान् प्राणधारिणः ।।६८।।
सतीति सततं वेद्मि ब्रह्मन् कार्यान्तरेऽप्यहम् ।
सा यथा हि मया प्राप्या तद्विधत्स्व तथा द्रुतम् ।।६९।।
।। ब्रह्मोवाच ।।
सत्यर्थे यन्ममसुतो वदति स्म वृषध्वज ।
तच्छृणुष्व निजं साध्यं सिद्धमित्यवधारय ।।७० ।।
देया तस्मै मया पुत्री तदर्थे परिकल्पिता ।
ममापीष्टमिदं कर्म त्वद्वाक्यादधिकं पुनः ।।७१।।
मत्पुत्त्र्याराधितः शम्भुरेतदर्थे स्वयं पुनः ।
सोऽप्यन्विच्छति तां यस्मात्तस्माद्देया मया हरे ।।७२।।
शुभे लग्ने मुहूर्ते च समागच्छतु मेऽन्तिकम् ।
तदा दास्यामि तनयां भिक्षार्थे शम्भवे विधे ।।७३ ।।
इत्यवोचन्मुदा दक्षस्तस्मात्त्वं वृषभध्वज ।
शुभे मुहूर्ते तद्वेश्म गच्छ तामनुयाचितुम् ।।७४ ।।
।। ईश्वर उवाच ।।
गमिष्ये भवता सार्द्ध नारदेन महात्मना ।
द्रुतमेव जगत्पूज्य तस्मात्त्वन्नारदं स्मर ।।७५।।
मरीच्यादीन् दश तथा मानसानपि संस्मर ।
तैः सार्द्ध दक्षनिलयं गमिष्येऽहं गणैः सह ।।७६ ।।
ततः स्मृतास्ते कमलासनेन सनारदा ब्रह्मसुता मनोजवाः ।
समागता यत्र हरो विधिश्च तत्रागताः काममवेत्य चिन्ताम् ।।७७।।
॥ श्रीकालिकापुराणे सतीयाचनं नाम दशमोऽध्यायः ॥ १० ॥
कालिका पुराण हिन्दी अनुवाद पढ़ने के लिए देखें-DP Karmakand