कार्तिकेयस्तोत्रम्

विकिस्रोतः तः
(कार्तिकेय स्तोत्रम् इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
कार्तिकेय स्तोत्रम्
[[लेखकः :|]]

<poem>


श्री गणेशाय नमः ।

श्री स्कन्द उवाच योगीश्वरो महासेनः कार्तिकेयोऽग्निनंदनः । स्कन्दः कुमारः सेनानी स्वामी शंकरसम्भवः ॥

गांगेयस्ताम्रचूडश्च ब्रह्मचारी शिखिध्वजः । तारकारिरुमापुत्रः क्रौञ्चारिश्च षडाननः ॥

शब्दब्रह्म समुद्रश्च सिद्धः सारस्वतो गुहः । सनत्कुमारो भगवान् भोग मोक्ष फलप्रदः ॥

शरजन्मा गुणादीशः पूर्वजो मुक्ति मार्गकृत् । सर्वागम प्रणेता च वाञ्छितार्थ प्रदर्शनः ॥

अष्टाविंशति नामानि मदीयानीति यः पठेत् । प्रत्यूषम् श्रद्धया युक्तो मूको वाचस्पतिर्भवेत् ॥

महामन्त्रमया नीति मम नामानुकीर्तनम् । महाप्रज्ञामवाप्नोति नात्र कार्या विचारणा ॥

॥ इति श्री रुद्रयामले प्रज्ञाविवर्धनाख्यम् श्रीमत्कार्तिकेयस्तोत्रम् संपूर्णम् ॥

"https://sa.wikisource.org/w/index.php?title=कार्तिकेयस्तोत्रम्&oldid=91928" इत्यस्माद् प्रतिप्राप्तम्