कामसूत्रम्/अधिकरणम् ५/अध्यायः ६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ५ कामसूत्रम्
अध्यायः ६
वात्स्यायन:
अधिकरणम् ६/अध्यायः १ →

नान्तःःपुराणां रक्षणयोगात्पुरुषसंदर्शनं विद्यते पत्युश्चैकत्वादनःएकसाधारणत्वाच्चाःतृप्तिः. तस्मात्तानि प्रयोगत एव परस्परं रञ्जयेयुः. ॥ ५.६.१ ॥

धात्रेयिकां सखीं दासीं वा पुरुषवदलंकृत्याकृतिसंयुक्तैः कन्दमूलफलावयवैरपद्रव्यैर्वात्माभिप्रायं निवर्तयेयुः. ॥ ५.६.२ ॥

पुरुषप्रतिमा अःव्यक्तलिङ्गाश्चाधिशयीरन्. ॥ ५.६.३ ॥

राजानश्च कृपाशीला विनापि भावयोगादायोजितापद्रव्या यावदर्थं एकया रात्र्या बह्वीभिरपि गच्छन्ति. यस्यां तु प्रीतिर्वासक ऋतुर्वा तत्राभिप्रायतः प्रवर्तन्त इति प्राच्योपचाराः. ॥ ५.६.४ ॥

स्त्रीयोगेणैव पुरुषाणां अप्यःलब्धवृत्तीनां वियोनिषु विजातिषु स्त्रीप्रतिमासु केवलोपमर्दनाच्चाभिप्रायनिवृत्तिर्व्याख्याता. ॥ ५.६.५ ॥

योषावेषांश्च नागरकान्प्रायेणान्तःपुरिकाः परिचारिकाभिः सह प्रवेशयन्ति. ॥ ५.६.६ ॥

तेषां उपावर्तने धात्रेयिकाश्चाभ्यन्तरसंसृष्टा आयतिं दर्शयन्त्यः प्रयतेरन्. ॥ ५.६.७ ॥

सुखप्रवेशितां अपसारभूमिं विशलतां वेश्मनः प्रमादं रक्षिणां अःनित्यतां परिजनस्य वर्णयेयुः. ॥ ५.६.८ ॥

न चाःसद्भूतेनार्थेन प्रवेशयितुं जनं आवर्तयेयुर्दोषात्. ॥ ५.६.९ ॥

नागरकस्तु सुःप्रापं अप्यन्तःःपुरं अपायभूयिष्ठत्वान्न प्रविशेदिति वात्स्यायनः. ॥ ५.६.१० ॥

सापसारं तु प्रमदवनावगाढं विभक्तदीर्घकाक्ष्यं अल्पप्रमत्तरक्षकं प्रोषितराजकं कारणानि समीक्ष्य बहुष आहूयमानोऽर्थबुद्ध्या कक्ष्याप्रवेशं च दृष्ट्वा ताभिरेव विहितोपायः प्रविशेत्. ॥ ५.६.११ ॥

शक्तिविषये च प्रतिःदिनं निष्क्रामेत्. ॥ ५.६.१२ ॥

बहिश्च रक्षिभिरन्यदेव कारणं अपदिश्य संसृजेत. ॥ ५.६.१३ ॥

अन्तशःचारिण्यां च परिचारिकायां विदितार्थायां सक्तं आत्मानं रूपयेत्. तदःलाभाच्च शोकं अन्तःःप्रवेशिनीभिश्च दूतीकल्पं सकलं आचरेत्. ॥ ५.६.१४ ॥

राजप्रनिधींश्च बुध्येत. ॥ ५.६.१५ ॥

दूत्यास्त्वःसंचारे यत्र गृहीताकारायाः प्रयोज्याया दर्शनयोगस्तत्रावस्थानम्. ॥ ५.६.१६ ॥

तस्मिन्नपि तु रक्षिषु परिचारिकाव्यपदेशः. ॥ ५.६.१७ ॥

चक्षुरनुबध्नन्त्यां इङ्गिताकारनिवेदनम्.. ॥ ५.६.१८ ॥

यत्र संपातोऽस्यास्तत्र चित्रकर्मणस्तद्युक्तस्य व्यर्थानां गीतवस्तुकानां क्रीडनकानां कृतचिह्नानां आपीनकानाम्((१५३)) अङ्गुलीयकस्य च निधानम्. ॥ ५.६.१९ ॥

प्रत्यःउत्तरं तया दत्तं प्रपश्येत्. ततः प्रवेशने यतेत. ॥ ५.६.२० ॥

यत्र चास्य नियतं गमनं इति विद्यात्तत्र प्रछन्नस्य प्रागेवावस्थानम्. ॥ ५.६.२१ ॥

रक्षिपुरुषरूपो वा तदनुज्ञातवेलायां प्रविशेत्. ॥ ५.६.२२ ॥

आस्तरणप्रावरणवेष्टितस्य वा प्रवेशनिर्हारौ. ॥ ५.६.२३ ॥

पुटाःपुटयोगैर्वा नष्टच्छायारूपः. ॥ ५.६.२४ ॥

तत्रायं प्रयोगः ण् नकुलहृदयं चोरकतुम्बीफलानि सर्पाक्षीणि चान्तर्धूमेन पचेत्. ततोऽञ्जनेन समभागेन पेषयेत्. अनेनाभ्यक्तनयनो नष्टच्छायारूपश्चरति [अन्यैष्च जलब्रह्मक्षेमशिरःप्रणीतैर्बाह्यपानकैर्वा. ॥ ५.६.२५ ॥

रात्रिकौमुदीषु च दीपिकासंबाधे सुरङ्गया वा. ॥ ५.६.२६ ॥

तत्रैतद्भवति((१५४)). ॥ ५.६.२७ ॥

व्द्रव्याणां अपि निर्हारे पानकानां प्रवेशने. आपानकोत्सवार्थेऽपि चेटिकानां च संभ्रमे.. ॥ ५.६.२७ ॥

व्व्यत्यासे वेश्मनां चैव रक्षिणां च विपर्यये. उद्यानयात्रागमने यात्रातश्च प्रवेशने.. ॥ ५.६.२७ ॥

व्दीर्घकालोदयां यात्रां प्रोषिते चापि राजनि. प्रवेशनं भवेत्प्रायो यूनां निष्क्रमणं तथा.. ॥ ५.६.२७ ॥

व्परस्परस्य कार्याणि ज्ञात्वा चान्तःपुरालयाः. एककार्यास्ततः कुर्युः शेषाणां अपि भेदनम्.. ॥ ५.६.२८ ॥

व्दूषयित्वा ततोऽन्योन्यं एककार्यार्पणे स्थिरः. अःभेद्यतां गतः सद्यो यथेष्टं फलं अश्नुते.. ॥ ५.६.२८ ॥

तत्र राजकुलचारिण्य एव लक्षण्यान्पुरुषानन्तःःपुरं प्रवेशयन्ति नातिःसुःरक्षत्वादपरान्तिकानाम्. ॥ ५.६.२९ ॥

क्षत्रियसंज्ञकैरन्तःःपुररक्षिभिरेवार्थं साधयन्त्याभीरकाणाम्. ॥ ५.६.३० ॥

प्रेष्याभिः सह तद्वेषान्नागरकपुत्रान्प्रवेशयन्ति वात्सगुल्मकानाम्. ॥ ५.६.३१ ॥

स्वैरेव पुत्रैरन्तःःपुराणि कामचारैर्जननीवर्जं उपयुज्यन्ते वैदर्भकानाम्. ॥ ५.६.३२ ॥

तथा प्रवेशिभिरेव ज्ञातिसंबन्धिभिर्नान्यैरुपयुज्यन्ते स्त्रैराजकानाम्. ॥ ५.६.३३ ॥

ब्राह्मणैर्मित्रैर्भृत्यैर्दासचेटैश्च गौडानाम्. ॥ ५.६.३४ ॥

परिस्पन्दाः कर्मकराश्चान्तःःपुरेष्वःनिषिद्द्धा अन्येऽपि तद्रूपाश्च सैन्धवानाम्. ॥ ५.६.३५ ॥

अर्थेन रक्षिणं उपगृह्य साहसिकाः संहताः प्रविशन्ति हैमवतानाम्. ॥ ५.६.३६ ॥

पुष्पदाननियोगान्नगरब्राह्मणा राजविदितं अन्तःःपुराणि गच्छन्ति. पटान्तरितश्चैषां आलापः. तेन प्रसङ्गेन व्यतिकरो भवति बङ्गाङ्गकलिङ्गकानाम्. ॥ ५.६.३७ ॥

संहत्य नवदशेत्येकैकं युवानं प्रच्छादयन्ति प्राच्यानां इति. एवं परस्त्रियः प्रकुर्वीत. ॥ ५.६.३८ ॥



चित्यन्तःःपुरिकावृत्तम्((१५५)). ॥ ५.६.३८ ॥



सेच्तिओन्(प्रकरण)४९



एभ्य एव च कारणेभ्यः स्वदारान्रक्षेत्. ॥ ५.६.३९ ॥

कामोपधाशुद्धान्((१५६)) रक्षिणोऽन्तःःपुरे स्थापयेदित्याचार्याः. ॥ ५.६.४० ॥

ते हि भयेन चार्थेन चान्यं प्रयोजयेयुस्तस्मात्कामभयार्थोपधाशुद्धानिति गोणिकापुत्रः((१५७)). ॥ ५.६.४१ ॥

अःद्रोहो धर्मस्तं अपि भयाज्जह्यादतो धर्मभयोपधाशुद्धानिति वात्स्यायनः. ॥ ५.६.४२ ॥

वाक्याभिधायिनीभिश्च गूढाकाराभिः प्रमादभिरात्मदारान्((१५८)) उपदध्याच्छौचाःशौचपरिज्ञानार्थं इति बाभ्रवीयाः ॥ ५.६.४३ ॥

दुष्टानां युवतिषु सिद्धत्वान्नाःकस्मादःदुष्टदूषणं आचरेदिति वात्स्यायनः((१५९)). ॥ ५.६.४४ ॥

अतिःगोष्ठी निरःअङ्कुशत्वं भर्तुः स्वैरता पुरुषैः सहाःनियन्त्रणता प्रवासेऽवस्थानं विदेशे निवासः स्ववृत्त्युपघातः स्वैरिणीसंसर्गः पत्युरीर्ष्यालुता चेति स्त्रीणां विनाशकारणानि. ॥ ५.६.४५ ॥

व्संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान्. न याति च्छलनां कश्चिद्स्वदारान्प्रति शास्त्रवित्.. ॥ ५.६.४६ ॥

व्पाक्षिकत्वात्प्रयोगाणां अपायानां च दर्शनात्. धर्मार्थयोश्च वैलोम्यान्नाचरेत्पारदारिकम्.. ॥ ५.६.४७ ॥

व्तदेतद्दारगुप्त्यर्थं आरब्धं श्रेयसे नृणाम्. प्रजानां दूषणायैव न विज्ञेयोऽस्य संविधिः((१६०)).. ॥ ५.६.४८ ॥

चिति श्रिवात्स्यायनीये कामसूत्रे पारदारिके पञ्चमेऽधिकरणे ईश्वर्कामितं पञ्चमोऽध्यायः..लिव्रे ६ वैशिकं षष्टं अधिकरणम्. ॥ ५.६ ॥