कामसूत्रम्/अधिकरणम् २/अध्यायः ९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ८ कामसूत्रम्
अध्यायः ९
वात्स्यायन:
अध्यायः १० →

द्विविधा तृतीयप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च. ॥ २.९.१ ॥

तत्र स्त्रीरूपिणी स्त्रिया वेषं आलापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धतां अःसहिष्णुतां व्रीडां चानुकुर्वीत. ॥ २.९.२ ॥

तस्य वदने जघनकर्म. तदौपरिष्टकं आचक्षते. ॥ २.९.३ ॥

सा ततो रतिं आभिमानिकीं वृत्तिं च लिप्सेत्. ॥ २.९.४ ॥

वेश्यावच्चरितं प्रकाशयेत्. इति स्त्रीरूपिणी. ॥ २.९.५ ॥

पुरुषरूपिणी तु प्रछन्नकामा पुरुषं लिप्समाना संवाहकभावं उपजीवेत्. ॥ २.९.६ ॥

संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृद्नीयात्. ॥ २.९.७ ॥

प्रसृतपरिचया चोरुमूलं सःजघनं इति संस्पृशेत्. ॥ २.९.८ ॥

तत्र स्थिरलिङ्गतां उपलभ्य चास्य पाणिमन्थेन परिघट्टयेत्. चापलम्((३४)) अस्य कुत्सयन्तीव हसेत्. ॥ २.९.९ ॥

कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत्स्वयं उपक्रमेत्. ॥ २.९.१० ॥

पुरुषेण च चोद्यमाना विवदेत्. कृच्छ्रेण चाभ्युपगच्छेत्. ॥ २.९.११ ॥

तत्र कर्माष्टविधं समुच्चयप्रयोज्यम्. ॥ २.९.१२ ॥

[१]निमितं [२]पार्श्वतोदष्टं [३]बाहिःसंदंशो [४]अन्तःसंदंशश्[५]चुम्बितकं [६]परिमृष्टकं [७]आम्रचूषितकं [८]संगर इति. ॥ २.९.१३ ॥

तेष्वेकैकं अभ्युपगम्य विरामाभीप्सां दर्शयेत्. ॥ २.९.१४ ॥

इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरं एवापरं निर्दिशेत्. तस्मिन्नपि सिद्धे तदुत्तरं इति. ॥ २.९.१५ ॥

करावलम्बितं ओष्ठयोरुपरि विन्यस्तं अपविध्य((३५)) मुखं विधुनुयात्((३६)). तन्[१]निमितं. ॥ २.९.१६ ॥

हस्तेनाग्रं अवच्छाद्य पार्श्वतो निर्दशनं ओष्ठाभ्यां अवपीड्य भवत्वेतावदिति सान्त्वयेत्. तत्[२]पार्श्वतोदष्टम्..२.९.१८ भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव चुम्बेत्. इति [३] बाहिःसंदंशः. ॥ २.९.१७ ॥

तस्मिन्नेवाभ्यर्थनया किं चिदधिकं प्रवेशयेत्. सापि चाग्रं ओष्ठाभ्यां निष्पीड्य निष्ठीवेत्((३७)). इति [४]अन्तःसंदंशः. ॥ २.९.१९ ॥

करावलम्बितस्यौष्ठवद्ग्रहणं [५]चुम्बितकम्. ॥ २.९.२० ॥

तत्कृत्वा जिह्वाग्रेण सर्वतो घट्टनं अग्रे च व्यधनं इति [६]परिमृष्टकम्. ॥ २.९.२१ ॥

तथाःभूतं एव रागवशादर्धप्रविष्टं निर्दयं अवपीड्यावपीड्य मुञ्चेत्. इत्य्[७] आम्रचूषितकम्. ॥ २.९.२२ ॥

पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेः. इति [७]संगरः. ॥ २.९.२३ ॥

यथार्थं चात्र स्तननप्रहणनयोः प्रयोगः. इत्यौपरिष्टकम्. ॥ २.९.२४ ॥

कुलटाः((३८)) स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति. ॥ २.९.२५ ॥

तदेतत्तु न कार्यम्. समयविरोधाद्((३९)) अःसभ्यत्वाच्च. पुनरपि ह्यासां वदनसंसर्गे स्वयं एवार्तिं प्रपद्येत. इत्याचार्याः. ॥ २.९.२६ ॥

वेश्याकामिनोऽयं अःदोषः((४०)). अन्यतोऽपि परिहार्यः स्यात्. इति वात्स्यायनः. ॥ २.९.२७ ॥

तस्माद्यास्त्वौपरिष्टकं आचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः. ॥ २.९.२८ ॥

वेश्याभिरेव न संसृज्यन्ते आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति. ॥ २.९.२९ ॥

निरःअपेक्षाः साकेताः((४१)) संसृज्यन्ते. ॥ २.९.३० ॥

न तु स्वयं औपरिष्टकं आचरन्ति नागरकाः. ॥ २.९.३१ ॥

सर्वं अःविशङ्कया प्रयोजयन्ति सौरसेनाः. ॥ २.९.३२ ॥

एवं ह्याहुः ण् को हि योषितां आचारं चरित्रं प्रत्ययं वचनं वा श्रदःधातुं अर्हति. निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः. तस्मादासां स्मृतित एव शौचं अन्वेष्टव्यम्. एवं ह्याहुः ॥ २.९.३३ ॥

व्वत्सः प्रस्रवणे मेध्यः श्वा मृगग्रहणे शुचिः. शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे.. इति. ॥ २.९.३३ ॥

शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेत. इति वात्स्यायनः. ॥ २.९.३४ ॥

भवन्ति चात्र श्लोकाः प्रमृष्टकुण्डलाश्((४२)) चापि युवानः परिचारकाः. केषां चिदेव कुर्वन्ति नराणां औपरिष्टकम्.. ॥ २.९.३५ ॥

तथा नागरकाः के चिदन्योन्यस्य हितैषिणः. कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम्.. ॥ २.९.३६ ॥

पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते. व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः.. ॥ २.९.३७ ॥

परिवर्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम्. युगपत्संप्रयुज्येते स कामः काकिलः((४३)) स्मृतः.. ॥ २.९.३८ ॥

तस्माद्गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो नरान्. वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु.. ॥ २.९.३९ ॥

न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः. गृहीतप्रत्ययो वापि कारयेदौपरिष्टकम्.. ॥ २.९.४० ॥

न शास्त्रं अस्तीत्येतावत्प्रयोगे कारणं भवेत्. शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान्.. ॥ २.९.४१ ॥

रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके. कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः.. ॥ २.९.४२ ॥

सन्त्येव पुरुषाः केचित्सन्ति देशास्तथाःविधाः. सन्ति कालाश्च येष्वेते योगा न स्युर्निरःअर्थकाः.. ॥ २.९.४३ ॥

तस्माद्देशं च कालं च प्रयोगं शास्त्रं एव च. आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा.. ॥ २.९.४४ ॥

अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा. कः कदा किं कुतः कुर्यादिति को ज्ञातुं अर्हति.. ॥ २.९.४५ ॥

चिति श्रीवात्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे औपरिष्टकं नवमोऽध्यायः. आदितश्चतुर्दशः. ॥ २.९ ॥