कामसूत्रम्/अधिकरणम् १/अध्यायः १

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
कामसूत्रम्
अध्यायः १
वात्स्यायन:
अध्यायः २ →

धर्मार्थकामेभ्यो नमः. ॥ १.१.१ ॥

शास्त्रे प्रकृतत्वात्((१)). ॥ १.१.२ ॥

तत्समयावबोधकेभ्यश्च आचार्येभ्यः. इति. ॥ १.१.३ ॥

तत्संबन्धात्. इति. ॥ १.१.४ ॥

प्रजापतिर्हि प्रजाः सृष्ट्वा तासां स्थितिनिबन्धनं त्रिवर्गस्य साधनं अध्यायानां शतसहस्रेणाग्रे प्रोवाच. ॥ १.१.५ ॥

तस्यैकदेशिकं मनुः स्वायंभुवो धर्माधिकारिकं पृथक्चकार. ॥ १.१.६ ॥

बृहस्पतिरर्थाधिकारिकम्. ॥ १.१.७ ॥

महादेवानुचरश्च नन्दी सहस्रेणाध्यायानां पृथक्कामसूत्रं प्रोवाच. ॥ १.१.८ ॥

तदेव तु पञ्चभिरध्यायशतैरौद्दालिकिः श्वेतकेतुः संचिक्षेप. ॥ १.१.९ ॥

तदेव तु पुनरध्यःअर्धेनाध्यायशतेन [१]साधारण[२]सांप्रयोगिक[३]कन्यासंप्रयुक्तक[ ४]भार्याधिकारिक[५]पारदारिक[६]वैशिक[७]औपनिषदिकैः सप्तभिरधिकरणैर्बाभ्रव्यः पाञ्चालः संचिक्षेप. ॥ १.१.१० ॥

तस्य षष्टं वैशिकं अधिकरणं पाटलिपुत्रकाणां गणिकानां नियोगाद्दत्तकः पृथक्चकार. ॥ १.१.११ ॥

तत्प्रसङ्गाच्चारायणः साधारणं अधिकरणं प्रोवाच. सुवर्णनाभः सांप्रयोगिकम्. घोटकमुखः कन्यासंप्रयुक्तकम्. गोनर्दीयो भार्याधिकारिकम्. गोणिकापुत्रः पारदारिकम्. कुचुमार औपनिषदिकं इति. ॥ १.१.१२ ॥

एवं बहुभिराचार्यैस्तच्छास्त्रं खण्डशः प्रणीतं उत्सन्नकल्पं अभूत्. ॥ १.१.१३ ॥

तत्र दत्तकादिभिः प्रणीतानां शास्त्रावयवानां एकदेशत्वात्महदिति च बाभ्रवीयस्य दुरःआध्येयत्वात्संक्षिप्य सर्वं अर्थं अल्पेन ग्रन्थेन कामसूत्रं इदं प्रणीतम्. ॥ १.१.१४ ॥

तस्यायं प्रकरणाधिकरणसमुद्देशः ॥ १.१.१५ ॥

शास्त्रसंग्रहः. त्रिवर्गप्रतिपत्तिः. विद्यासमुद्देशः. नागरकवृत्तम्. नायकसहायदूतीकर्मविमर्शः. इति साधारणं प्रथमाधिकरणं अध्यायः पञ्च प्रकरणानि पञ्च. ॥ १.१.१६ ॥

प्रमाणकालाभावेभ्यो रतावस्थापनम्. प्रीतिविशेषाः. आलिङ्गनविचाराः. चुम्बनविकल्पाः..नखरदनजातयः. दशनच्छेद्यविधयः. देश्या उपचाराः संवेशनप्रकाराः चित्ररतानि प्रहणयोगः तद्युक्ताश्च सीत्कृतोपक्रमाः पुरुषायितं पुरुषोपसृप्तानि औपरिष्टकं रतारम्भावसानिकं रतविशेषाः प्रणयकलहः इति सांप्रयोगिकं द्वितीयं अधिकरणम्. अध्यया दश प्रकरणानि सप्तदश. ॥ १.१.१७ ॥

वरणविधानं सम्बन्धनिर्णयः कन्याविस्रम्भणं बालायाः उपक्रमाः इङ्गिताकारसूचनं एकपुरुषाभियोगः प्रयोज्यस्योपावर्तणं अभियोगतश्च कन्यायाः प्रतिपत्तिः विवाहयोगः इति कन्यासंप्रयुक्तकं तृतीयाधिकरणम्. अध्यायाः पञ्च प्रकरणानि नव ॥ १.१.१८ ॥

एकचारिणीवृत्तं प्रवासचार्या सपत्नीषु ज्येष्ठावृत्तं कनिष्ठावृत्तं पुनर्भूवृत्तं दुर्भगावृत्तं आन्तःपुरिकं पुरुषस्य बह्वीषु प्रतिपत्तिः इति भार्याधिकारिकं चतुर्थं अधिकरणं अध्यायौ द्वौ प्रकरणान्यष्टौ ॥ १.१.१९ ॥

स्त्रीपुरुषशीलावस्थापनं व्यावर्त्तनकारणानि स्त्रीषु सिद्धाः पुरुषाः अःयत्नसाध्या योषितः परिचयकारणानि अभियोगाः भावपरीक्षा दूतीकर्माणि ईश्वरकामितं अन्तःपुरिकं दाररक्षितकं इति पारदारिकं पञ्चमं अधिकरणं अध्यायाः षट्प्रकरणानि दश((२)) ॥ १.१.२० ॥

गम्यचिन्ता गमनकारणानि उपावर्तनविधिः कान्तानुवर्तनं अर्थागमोपायाः विरक्तलिङ्गानि विरक्तप्रतिपत्तिः निष्कासनप्रकाराः विशीर्णप्रतिसंधानम्.लाभविशेषः अर्थानर्थानुबन्धसंशयविचारः वेश्याविशेषाश्च इति वैशिकं षष्टं अधिकरणं अध्यायः षट्प्रकरणानि द्वादश. ॥ १.१.२१ ॥

सुभगंकरणं वशीकरणं वृष्याश्च योगाः नष्टरागप्रत्यानयनं वृद्धिविधयः चित्राश्च योगाः इत्यौपनिषदिकं सप्तमं अधिकरणं अध्यायौ द्वौ प्रकरणानि षट्. ॥ १.१.२२ ॥

एवं षट्त्रिंशदध्यायाः चतुःशष्टिः प्रकरणानि((३)) अधिकरणानि सप्त सःपादं श्लोकसहस्रं इति शास्त्रस्य संग्रहः. ॥ १.१.२३ ॥

व्संक्षेपं इमं उक्त्वास्य विस्तारोऽतः प्रवक्ष्यते. इष्टं हि विदुषां लोके समासव्यासभाषणम्.. ॥ १.१.२४ ॥

 चिति श्रीवात्स्यायनीये कामसूत्रे साधारणे प्रथमेऽधिकरणे शास्त्रसंग्रहः प्रहमोऽध्यायः. ॥ १.१ ॥