कादम्बरी पूर्वभागः

विकिस्रोतः तः
श्रीबाणभट्टविरचिता कादम्बरी (पूर्वभागः)


महास्वेता तु तच्छ्रुत्वा सुचिरंविचार्य "गच्छ, स्वयमेवाहमागत्य यथार्हमाचरिष्यामिऽ इत्युक्त्वा केयूरकं प्राहिणोत् । गते च केयूरके चन्द्रापीडमुवाच-"राजपुत्र! रमणीयो हेमकूटः, चित्रा च चित्ररथराजधानी, बहुकुतूहलः किम्पुरुषविषयः, पेशलो गंन्धर्वलोकः, सरलहृदया महानुभावा च कादम्बरी, यदा नातिखेदकरमिव गमनं कलयसि, नावसीदति वा गुरुप्रयोजनम्, अदृष्टचरविषयकुतूहलिवा चेतः, मद्वचनमनुरुध्यते <३> <३.अस्मद्वचनम्> वा भवान् सुखदायि <४> <४.भवन्मतिरतिसुखदायि, भवन्मतिः सुखदायि> वा आश्चर्यदर्शनम्,<१> <१.अस्मच्चिरदर्शनम्> अर्हामि वा प्रणयमि२> <२.अर्हसि वा प्रणयमिमम्...प्रणयम्> , ममप्रत्याख्यानयोग्यं वा<३> <३.योग्यां वा मन्यसे माम्> जनं मन्यसे, समारूढो वा परिचयलेशः, अनुग्राह्यो वायं जनः, ततो नार्हसि निष्फलां कर्तुमभ्यर्थनाभिमाम् । मयैव<४> <४.क्वचित् "इतऽ इत्यधिकः पाठः समुपलभ्यते> सह गत्वा हेमकूटमतिरमणीयतानिधानम्, तत्र दृष्ट्वा च मन्निर्विशेषां कादम्बरीम्,अपनीय तस्याः कुमति <५> <५.कुमतिमिमाम्> मनोमोहविलसितम्, एकमहो विश्रम्य श्वोभूते प्रत्यागमिप्यसि । मम हि निष्कारणबान्धवं भवन्तमालोक्यैव दुःखान्धकारभाराक्रान्तेन महतः कालादुच्छ्वसितमिव चेतसा, श्रावयित्वा स्ववृत्तान्तमिमं सह्यतामिव गतः शोकः । दुःखितमपि जनं रमयन्ति सज्जनसमागमाः । परसुखोपपादनपराधीनश्च भवादृशां गुणोदयःऽ इत्युक्तवतीञ्चैनां चन्द्रापीडो ऽव्रवीत्-"भगवति! दर्शनात्प्रभृति परवानयं जनः कर्त्तव्येषु यथेष्टमशङ्किततया नियुज्यताम्ऽ इत्यभिधाय तया सहैवोदचलत् ।

क्रमेण च गत्वा हेमकूटमासाद्य गन्धर्वराजकुलम्, समतीत्य काञ्चनतोरणानि सप्तकक्षान्तराणि कन्यान्तःपुरद्वारमवाप । महाश्वेतादर्शनप्रधावितेन दूरादेव कृतप्रणामेन कनकवेत्रलताहस्तेन <१> <१.द्वारपालप्रतीहारी> प्रतीहारजनेनोपदिशअयमानमार्गः प्रविश्य असंख्ययनारीशतसहस्रसम्बाधम् <२> <२....सम्बाधः> , स्त्रीमयमपरमिव जीवलोकम्, इयत्तां ग्रहीतुमेकत्र त्रैलोक्यस्त्रैणमिव संगृहीतम् <३> <३.संहृतम्> , अपुरुषमिव सर्गान्तरम्, अङ्गनाद्वीपमिवापूर्वमुत्पन्नम्, पञ्चममिव नारीयुगावतारम्, अपरामव पुरुषद्वेषिप्रजापतिनिर्माणम्, अनेक-कलप-कल्पनार्थमुत्पाद्य स्थापितमिवाङ्गनाकोषम् <१> <१....कोशम्> , अतिविस्तारिणा युवतिजनलावण्यप्रभापूरेण प्लावितदिगन्तरेण सिञ्चतेवामृतरसविसरेण दिवसमार्द्रीकुर्वतेव भुवनान्तरालं बहुल <२> <२.बहल...> -प्रभावर्षिणा मरकतमणिमयेन <३> <३.क्वचिदिह "भूषणेनेवऽ इत्यधिकः पाठः उपलभ्यते> सर्वतः परिगततया तेजोमयमिव, चन्द्रमण्डलसहस्रैरिव निर्मितसंस्थानम्, ज्योत्स्नयेव घटितसन्निवेशम्, आभरणप्रभाभिरिवनिष्पादितदिगन्तरम्, विभ्रमैरिव कृतसर्वोपकरणम्, यौवनविलासैरिवोत्पादितावयवम्, रतिविलसितैरिव रचित <४> <४.विरचित...> -सञ्चयम्, मन्मथाचरितैरिव कल्पितावकाशम्, अनुरागेणेवानुलिप्तसकलप्रदेशम् <१> <१....प्रवेशम्> शृङ्गारमयमिव, सौन्दर्यमयमिव, सुरताधिदैवतमयमिव, कुसुमशरमयमिव, कुतूहलमयमिव, आश्चर्यमयमिव, सौकुमार्यमयमिव <२> <२.प्रेममयमिव> , कुमारः कुमारीपुराभ्यन्तरं ददर्श । अतिबहलतया च तस्य कन्यकाजनस्य समन्तादाननद्यतिभिरिन्दुबिम्बवृष्टिमिव पतन्तीम्, अपाङ्गविक्षेपैश्चलितकुवलयवनमयीमिव क्रियमाणामवनीम्, अनिभृत <३> <३.अभिनिभृत...> -भ्रूलताविभ्रमैः काम-कार्मुक-विलास शतानीव <४> <४.कामकार्मुकबलानीव, शतानि, विलासता> प्रचलितानि, शरसिजकलापान्धकारैर्बहुलपक्ष <५> <५.केशनि> -प्रदोष-सार्थानिव सम्बध्नतः, स्मितप्रभाभिरुत्फुल्लकुसुमधवलानिव वसन्तदिवसान् सञ्चरतः, श्वसितानिलपरिमलैर्मलयमारुतानिव परिभ्रमतः, कपोलमण्डलोकैर्माणिक्यदर्पणसहस्राणीव स्फुरितानि करतलरागेण रक्तकमलवनवर्षिणमिव जीवलोकम्, कररुहकिरणस्फुरणेन <१> <१.कररुहस्फुरणेन> कुसुमायुधशरसहस्रैरिव संच्छादितानि दिगन्तराणि <२> <२.संच्छादितदिगन्तराणि, संच्छादितमष्टदिगन्तम्> , <३> <३.किरणनिकर> आभरणकिरणेन्द्रायुधजालकैरुड्डीयमानानीव <४> <४.भुवन> भवनमयूरवृन्दानि, यौवनविकारैरुपाद्यमानानीव मन्मथसहस्राण्यद्राक्षीत् । उचितव्यापारव्यपदेशेन कुमारिकाणां सखीहस्तावलम्बेषु पाणिग्रहणानि, वेणुवाद्येषु चुम्बनव्यतिकरान्, वीणासु कररुहव्यापारान्, कन्दुकक्रीडासु करतलप्रहारान् भवन- <५> <५.भुवन-> लता-सेक-कलस-कण्ठेषु भुजलतापरिष्वङ्गान्, लीलादोलासु नितम्ब-स्तन <६> <६....स्थल...> -प्रेङ्खितानि, <७> <७.क्वचित् "ताम्बूलऽ-पदं न दृश्यते> ताम्बूलवीटिकावखण्डनेषु दशनोपचारान्, बकुलविटपेषु मधुगण्डूषप्रचारान् <८> <८.बकुलकुसुमदोहदेषु सीधुगण्डूषप्रदानानि> , अशोकतरुताडनेषु चरणाभिघातान्, उपहारकुसुमस्खलनेषु सीत्कारान् <९> <९.शीत्कारान्> अतिरिक्तं सुरतमिवाभ्यस्यन्तीनामपश्यत् । यत्र च <१> <१.यस्य च> कन्यकाजनस्य कपोलतलालोक एव मुखप्रक्षालनम्, लोचनान्येव कर्णोत्पलानि, हसितच्छवय एवाङ्गरागाः, निश्वासाः <२> <२.निःश्वासाः> एवाधिवासगन्धप्रयुक्तयः, अधरद्युतिरेव कुङ्कुमानुलोपनम् <३> <३.कुङ्कुममुखानुलेपनम्> आलापा एव तन्त्रीनिनादाः, भुजलता एव चम्पकमालाः <४> <४.चम्कषैकक्ष्यमालाः> , करतलान्येव लीलाकमलानि, स्तना एवं दर्पणाः, निजदेहप्रभैवांशुकाषगुण्ठनम्, जननस्थलान्येव विलासमणिशिलातलानि कोमलाङ्गुलिराग एव चरणालक्तकरसः, नखमणिमरीचय एव कुट्टिमोपहारकुसुमप्रकराः । यत्र चालक्तकरसो ऽपि <५> <५.यत्र चालक्तरसो ऽपि> चरणातिभारः, बकुलमालिकामेखलाकलनमपि गमनविघ्नकरम्, अङ्गरागगौरवमप्यधिकश्वासनिमित्तम्, अंशुकभारो ऽपि ग्लानिकारणम्, मङ्गलप्रतिसरवलयविधृतिरपि करतलविधुतिहेतुः, अवतंसकुसुमधारणमपि श्रमः, कर्णपूर-कमल-मधुकरपक्ष-पवनो ऽप्यायासकरः <१> <१.वातो ऽपि> । तथा च यत्र सखीदर्शनेष्व <२> <२.दर्शने ऽपि> कृतहस्तावलम्बनमुत्थानमतिसाहसम् <३> <३.अभ्युत्थानम्> , प्रसाधनेषु हारभारसहिष्णुता स्तनकार्कश्यप्रभावः, कुसुमावचयेषु द्वितीयकुसुम <४> <४....पुष्प...> -ग्रहणमप्ययुवतिजनोचितम्, कन्यकाविज्ञानेषु माल्यग्रथनम् <५> <५.माल्यग्रन्थनम्> असुकुमारजनव्यापारः, देवताप्रणामेषु मध्यभागभङ्गो नातिविस्मयकरः । तस्य चैवंविधस्य <१> <१....अन्तरमवक्रम्य> किञ्चिदभ्यन्तरमतिक्रम्य इतश्चेतश्च परिभ्रमतः कादम्बरीप्रत्यासन्रस्य परिजनस्य तांस्तानतिमनोहरानालापान् । तथाहि-"लवलिके! कल्पय केतकीधूलिभिर्लवलीलतालवालमण्डलानि । <२> <२.सारसिके> सागरिके! गन्धोदक-कनत-दीर्घिकासु <३> <३.गन्धोदकदीर्घिकासु, कनकनदिकासु> विकिररत्नबालुकाम् । मृणालिके! कृत्रिमकमलिनीषु कुङ्कुमरेणुमुष्टिभिश्छुरय <४> <४.क्षोद> <५> <५.क्वचित् "यन्त्रऽपदं नास्ति> यन्त्रचक्रवाकमिथुनानि <६> <६.युगलानि> नानि । <७> <७.मन्दारिके...> मकरिके! कर्पूरपल्लवरसेनाधिवासय गन्धपात्राणि । रजनिके! <८> <८.भवनतमाल...भवनदीर्घिकातमाल> तमाल-वीथिकान्धकारेषु निघेहि <९> <९.मणिदीपान्> मणिप्रदीपान् । कुमुदिके! स्थगय <१०> <१०.रक्षणार्थम्> शकुनिकुलरक्षणाय मुक्ताजालैर्दाडिमीफलानानिपुणिके! <११> <११.लेखय> लिख <१२> <१२.मणिस्तम्भा...> मणिशालभञ्जिकास्तनेषु कुङ्कुमरसपत्रभङ्गान् । उत्पलिके! परामृश कनकसम्मार्जनीभिः <१> <१.कमलसम्मार्जनीभिः, संमार्जनीभिः> कदलीगृहमरकतवेदिकाम् <२> <२.वेदिकाः> । केसरिके <३> <३.कुसुमिके!> सिञ्च मदिरारसेन बकुलकुसुममालागृहाणि । मालतिके! पाटलय सिन्दूरेणुना कामदेवगृहदन्तबलभिकाम् । नलिनिके! पायय कमलमधुरसं भवनकलहंसान् । कदलिके! नय धारागृहं गृहमयूरान् । कमलिनिके! प्रयच्छ चक्रवाकशावकेभ्यो <४> <४.चक्रवाकेभ्यः> मृणालक्षीररसम् । चूतलतिके <५> <५.चतूकलिके!> देहि पञ्जरपुंस्कोकिलेभ्यश्चृतकलिकाङ्कुराहारम् । पल्लविके! भोजय मरिचाग्रपल्लवदलानि भवनहारीतान् । लवङ्गिके! विक्षिप <६> <६.निक्षिप> चकोरपञ्जरेषु पिप्पलीतण्डुल <७> <७.दल> -शकलानि । मधुकरिके! विरचयकुसुमाभरणकानि । मयूरिके! सङ्गीतशालायां विसर्जय किन्नरमिथुनानि । कन्दलिके! समारोहय क्रीडापर्वतशिखरं जीवञ्जीवमिथुनानि । हरिमिके! देहि पञ्जरशुकसारिकाणामुपदेशम्ऽ <८> <८....सारिकोपदेशम्> इत्येतानि <९> <९.एतानि> अन्यानि च परिहासजल्पितान्यश्रौषीत् । तथाहि-"चामरिके! मिथ्यामुग्धतां <१> <१.वृथा> प्रकटयन्ती कमभिसन्धातुमिच्छमि? अयि यौवनविलासैरुमत्तीकृते! <२> <२.ज्ञाता> विज्ञातासि, या त्वं स्तन-कलस-भारावनम्यमानमूर्त्तिर्मणिस्तम्भमयूरानालम्बसे <३> <३....स्तम्भमयूखानवलम्बसे> । परिहासकाङ्क्षिणि! रत्नभित्तिपतितमात्मप्रतिबिम्बमालपसि <४> <४....प्रतिमामालपयसि> । पवनहृतोत्तरीयांशुके! हारप्रभायासितकरतला सङ्कलयसि <५> <५.आकलयसि> । मणिकुट्टिमेषूपहारकमलस्खलनभीते! निजमुखप्रतिबिम्बकानि परिहरसि । निजसौकुमार्य्य-खर्वित-बिसप्रसून-सौभाग्ये! <६> <६.क्वचित् "निजसोकुमार्य...इत्यारभ्य "जालऽ पर्यन्तं न विद्यते । क्वचिच्च सम्पूर्णसम्बोधनान्तमेव पदं न दृश्यते> जालवातायनपतितपद्मरागालोकं <१> <१.अवलोकम्> प्रति बालातपशङ्कया <२> <२.आशङ्कीनी> करतलमातपत्रीकरोषि । खेद-स्रस्त <४> <४.खेदग्रस्त...> -हस्तगलित-चामरे <५> <५.कलितचामरा, कलितचामरैः> ! <६> <६.किरण...> नखमुणिमय्यूखकलापमाधुनोषिऽ इत्येतान्यन्यानि च शृण्लन्नेव कादम्बरीभवनसमोपम् उपययौ <७> <७.भवनमुपसृत्य ययौ, भवनमुपययौ> । पुलिनायमानमुपवनलता-गलित-कुसुम-रेणु-पटलैः, दुर्द्दिनायमाननिभृत-परभृत-नखक्षताङ्ग <८> <८...क्षताङ्गन...> -सहकारफल-रस-वर्षैः, नीहारायमाणमलिन-विप्रकीर्णैर्वकुल-सेक-सीधु-धारा-धूलिभिः, काञ्चनद्वीपायमानं चम्पकदलोपहारैः <१> <१.चम्पकोपहारैः> , नीलाशोक <२> <२.लीलाशोक...> -वनायमानं कुसुम-प्रकर-पतित-मधुकरबृन्दान्धकारैः, तथा च सञ्जरतः <३> <३.सञ्चरन्> स्त्रीजनस्य रागसागरायमाणं चरणालक्तकरसविसरैः, अमृतोत्पत्तिदिवसायमानमङ्गरागामोदैः, चन्द्रलोकायमानन्दन्तपत्रप्रभामण्डलैः, <४> <४.पत्रमण्डलैः> प्रियङ्गुवनाय मानं कृष्णागुरुपत्रभङ्गैः <५> <५.प्रियङ्गुवनायमानं रोचनातिलकभक्तिभिः, नीलायमानं कृष्णागुरुपत्रभङ्गैः> , लोहितायमानं कर्णपूराशोकपल्लवैः <६> <६.कर्णाशोकपल्लवैः> , धवलायमानं चन्दनरसविलेपनैः, हरितायमानं शिरीषकुसुमाभरणैः, अथ सेवार्थमागतेनोभयत ऊर्ध्वस्थितेन स्त्रीजनेन प्राकारेणेव लावण्यमयेन कृतदीर्घरथ्यामुखाकारं मार्गमद्राक्षीत् । ते चान्तर्निपतन्तम् <७> <७.निपतितम्> आभरणकिरणालोकं सम्पिण्डितं नदीवेणिकाजलप्रवाहमिव वहन्तमपश्यत् । तन्मध्ये च प्रतिस्रोत इव गत्वा प्रतीहारीमण्डलाधिष्ठितपुरोभागं श्रीमण्डपं ददर्श ।

तत्र च मध्यभागे पर्य्यन्तरचितमण्डलेनाध उपविष्टेन <१> <१....मण्डलोपविष्टेन, मण्डलनोर्ध्वेणोपविष्टेन> चानेकसहस्रसंख्येन परिस्फुरदाभरणसमूहेन कल्पलतानिवहेनेव कन्यकाजनेन परिवृताम्, नीलांशुकप्रच्छदपटप्रावृतस्य नातिमहतः <२> <२.क्वचित् "नातिऽ इति पदं न दृश्यन्ते, क्वचित् "अतिमहतःऽ इत्येव दृश्यते> पर्य्यङ्कस्योपाश्रये <३> <३.आश्रये, अपाश्रये> धवलोपधानन्यस्त-द्विगुण-भुजलतावष्टम्भेनावस्थिताम्, महावराहदंष्ट्रावलम्बिनीमिव महीम्, विस्तारिणि देहप्रभाजालजले भुजलताविक्षेपपरिभ्रमैः प्रतरन्तीभिरिव चामरग्राहिणीभिरुपवीज्यमानाम्, निपतितप्रतिबिम्बतयाधस्तान्मणिकुट्टिमेषु नागैरिवापह्नियमाणाम्, उपान्ते च रत्नभित्तिषु दिक्पालैरिव पृथक् पृथक् <१> <१.क्वचित् "पृथक् पृथगिऽति नास्ति> नीयमानाम् उपरि मणिमण्डपेष्वमरैरिववोत्क्षिप्यमाणाम्, हृदयमिव प्रवेशितां महामणिस्तम्भैः, आपीतामिव भवनदर्पणैः, अधोमुखेन श्रीमण्डपमध्योतकीर्णेन विद्याधरलोकेन गगनतलमिवारोत्पयमाणाम्, चित्रकर्म्मच्छलेनावलोकनकुतूहलसम्पुञ्जितेन त्रिभुवनेनेव परिवृताम्, भूषण-रव-प्रनृत्तशिखि-शत <२> <२.क्वचिदिह"...विततऽ इति पदमधिकं विद्यते> चित्र-चन्द्रकेण भवनेनापि कौतुकोत्पादितलोचनसहस्रेणेव दृश्यमानाम्, आत्मपरिजनेनापि दर्शनलोभादुपार्जितदिव्यचक्षुषेवानिमिषनयनेन निर्वर्ण्यमानाम्, लक्षणैरपि रागाविष्टैरिवाधिष्ठितसर्वाङ्गीम् <१> <१....सर्वाङ्गाम्, सर्वावयवाम्> , अकृतपुण्यमिव मुञ्चन्तीं बालभावम्, अदत्तामपि मन्मथावेश-परवशेनेव गृह्यमाणां यौवनेन, अविचलित-चरणराग-दिधितिभिरिव निर्गताभिः अलक्तकरसपाटलित-लावण्यजल-वेणिकाभिरिव गलिताभिः <२> <२.गलिताभिः, विनतवरण...> , निवसित <३> <३.निर्वसित...> -रक्तांशुक-दशा शिखाभिरिव <४> <४.दशाभिरिव> अवलम्बिताभिः, पादाभरण-रक्तांशुलेखा-सन्देहदायिनीभिः, श्रतिकोमललया नखविवरेण वमन्तीभिरिव <५> <५.वर्षन्तीभिरिव> रुधिरधारावर्षमङ्गुलीभिरुपेताभ्यां <६> <६.अङ्गुलिभिः> क्षितितलतारागणमिव नखमणिमण्डलमुद्वहद्भ्यां विद्रुमरसनदीमिव चरणाभ्यां प्रवर्त्तयन्तीम्, नूपुर-मणि-किरणचक्रवालेन गुरुनितम्ब-भर-खिन्नोरुयुगल <१> <१.सहायम्, सहायताम्> -सहायतामिव कर्त्तुमुद्गच्छता स्पृश्यमानजघनभागाम्, प्रजापतिकर-दृढ-निपीडित <२> <२.प्रजापतिदृढनिष्पीडित> -मध्यभाग-गलितं जघन-शिलातल-प्रतिघाताल्लावण्यस्नोत <३> <३.क्वचिदिह "जलऽ इत्यधिकः पाठः> इव द्विधागतमूरुद्वयं दधानाम्, सर्वतः प्रसारित-दीर्घ-मयूख-मण्डलेनेरष्यया परपुरुषदर्शनमिव निरुन्धता <४> <४.रुन्धता> कुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचित-परिवेषाम्, निपतित-सकल-लोक-हृदय-भरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरितमुख-दर्शन-दुःखेनेव क्षीयमाण-मध्यभागाम, प्रजापतेः स्पृशतो ऽतिसौकुमार्य्यत् <५> <५.सौकुमार्यात्>. अङ्गुलीमुद्राभिव निमग्नां नाभिमण्डलीम् <१> <१.नाभिमण्डलम्, नाभिस्थलीम्> आवर्त्तिनीमुद्वहन्तीम्, त्रिभुवन-विजय-प्रशस्ति-वर्णावलीमिव लिखितां मन्मथेन रोमराजिमञ्जरीं <२> <२.प्रजापतिदृढनिष्पीडित> -मध्यभाग-गलितं जघन-शिलातल-प्रतिघाताल्लावण्यस्नोत <३> <३.क्वचिहिह"जलऽ इत्यधिकः पाठः> इव द्विधागतमूरुद्वयं दधानाम्, सर्वतः प्रसारित-दीर्घ-मयूख-मण्डलेनेर्ष्यया परपुरुषदर्शनमिव निरुन्धता <४> <४.रुन्धता> कुतूहलेन विस्तारमिव तन्वता स्पर्शसुखेन रोमाञ्चमिव मुञ्चता काञ्चीदाम्ना नितम्बबिम्बस्य विरचित-परिवेषाम्, निपतित-सकल-लोक-हृदय-भरेणेवातिगुरुनितम्बाम्, उन्नतकुचान्तरितमुख-दर्शन-दुःखेनेव क्षीयमाण-मध्यभागाम्, प्रजापतेः स्पृशतो ऽतिसौकुमार्य्यात् अङ्गुली मुद्राभिव निमग्नं नाभिमण्डलीम् <१> <१.नाभिमण्डलम्, नाभिस्थलीम्> आवर्त्तिनीमुद्वहन्तीम्, त्रिभुवन-विजय-प्रशस्ति-वर्णावलीमिव लिखितां मन्मथेन रोमराजिमञ्जरीं <२> <२.रोमाराजी> बिभ्राणाम्, अन्तःप्रविष्ट-कर्ण-पल्लव-प्रतिबिम्बेनातिभरखिद्यमानहृदय <३> <३....भर...> -करतल-प्रेर्य्यमाणेनेव निष्पतता मकरकेतुपादपीठेन स्तनभरेण भूषिताम्, अधोमुख-कर्णाभरण-मयूखाभ्यामिव प्रसृताभ्याममल-लावण्य-जल-मृणाल-काण्डाभ्यां <४> <४....मृणालकाभ्यामिव, मृणालाभ्यां> बाहुभ्यां नख-किरण-विसर-वर्षिणा च माणिक्यवलयगौरवश्रमवशात् <५> <५.वहनश्रमात्> स्वेदजल-धाराजालकमिव मुञ्चता करयुगलेन समुद्भासिताम्, स्तनभारावनम्यमानमाननमिवोन्नमयता हारेणोच्चैः <६> <६.ऊर्ध्वैः> करैगृहीतचिबुकदेशाम्, अभनवयौवनपवनक्षोभितस्य रागसागरस्य तरङ्गाभ्यामिवोद्गताभ्यां विद्रुमलतालोहिताभ्यामधराभ्यां रक्तावदातस्वच्छकान्तिना च मदिरारसपूर्णमाणिक्यशुक्तिसम्पुटच्छविना कपोलयुगलेन रति-परिवादिनी-रत्नकोण-चारुणा नासावंशेन च विराजमानाम्, गतिप्रसरनिरोधिश्रवणकोपादिव किञ्चिदारक्तापाङ्गेन मिजमुखलक्ष्मीनिवासदुग्धोदधिना लोचनयुगलेन लोचनमयमिव <१> <१.नयनमयमिव> जीवलोकं कर्त्तुमुद्यताम्, उन्मदयौवनकुञ्जरमदराजिभ्यां मनःशिलापंङ्कलिखितेन च रागाविष्टेन <१> <१.रागाविष्ट...> मन्मथहृदयेनेव वदनलग्नेन तिलकबिन्दुना विद्योतितललाटपट्टाम्, उत्कृष्टहेमतालीपट्टाभरणमय <२> <२.एकमाश्लिष्टहेमताटीपुटाभरणमपरम्> मामुक्तकर्णोत्पलच्युतमधुधारासन्देहकारिणं कर्णपाशं दोलायमानपत्र-मकर <३> <३....मरकत...> -माणिक्यकुण्डलं दधतीम्, पाटलीकृतललाटेन सीमन्तचुम्बिनश्चूडामणेः <४> <४....चुम्बितचूडामणेः> क्षरतांशुजालेन <५> <५.रागेण> मदिरारसेनेव प्रक्षाल्यमानदीर्घकेशकलापाम्, देहार्द्धप्रविष्टहरगर्वित-गौरी-विजिगीषयेव सर्वाङ्गानुप्रविष्ट मन्मथदर्शितसौभाग्यविशेषाम्, उरःसमारोपितैकलक्ष्मी <६> <६.उरःसमारोपितलक्ष्मी...> -मुदितनारायणावलेप-हरणाय प्रतिबिम्बकैर्निजरूपतो <७> <७.एकलक्ष्मी...> लक्ष्मीशतानीव सृजन्तीम्, उत्तमाङ्गनिहितैकचन्द्रविस्मितहराभिमाननाशाय विलासस्मितेश्चन्द्रसहस्राणीव दिक्षुविक्षिपन्तीम्, निर्द्दयदग्धैकमन्मथप्रमथनाथरोषेणेव प्रतिहृदयं मन्मथायुतान्युत्पादयन्तीम्, रजनि-जागरखिन्नस्य <१> <१.खिन्नस्य> परिचितचक्रवाकमिथुनस्य स्वप्तुं क्रीडानदिकासु कमलधूलिबालुकाभिर्बालपुलिनानि कारयन्तीम्, "परिजननुपूररवप्रस्थितं वल्ल भञ्च <२> <२.दुर्लभञ्च> हंसमिथुनं <३> <३.प्रस्थितं च वल्लभहंसमिथुनं> मृणालनिगडेन बद्ध्वानयऽ इति हंसपालीमादिशन्तीम्, आभरणमरकतमयूखान् लिहते <४> <४.लिहते च, लिहते हरिततणसूचीलोभेन> भवनहरिण <५> <५.क्वचित् "भवनऽ पदं न दृश्यते> -शावकाय सखीश्रवणादपनीय यवाङ्कुरप्रसरं <६> <६.प्रसवं> प्रयच्छन्तीम्, आत्मसंवर्द्धित <७> <७.आत्मवर्द्धित> -लता-प्रथम-कुसुमनिर्गम-निवेदनागतामुद्यानपालीमशेषाभरणदानेन सम्मानयतीम्, उपनीत-विविध-वन-कुसुमफल-पूर्ण-पत्रपुटामविज्ञायमानालापतया हासहेतुं पुनः पुनः क्रीडापर्वत <१> <१....पत्र...पर्वतकशबरीम्, पर्वतकपातृ...> पातृ-शवरीमालापयन्तीम् <२> <२.आलापन्तीम्> , करतलविनिहतैः <३> <३.विनिहितैः> मुहुर्मुहुरुत्पतद्भिश्च <४> <४.अभिहतैर्मुहुरपसर्पद्भिरुपसर्पद्भिश्च> मुखपरिमलान्धैर्नीलकन्दुकैरिव <५> <५.नीलकञ्चुकैरिव> मधुकरैः क्रीडन्तीम्, पञ्जरहारीतक <६> <६.हारीतकलरुत> -रुत-श्रवण-कृत-दुष्टस्मितां चामरग्राहिणीं विहस्य लीलाकमलेन शिरसि विघट्टयन्तीम्, मुक्ताफल-खचित-चन्द्रलेखिका-संक्रान्तप्रतिमा <७> <७.लेखिकाप्रतिम> स्वेदजल- <८> <८....जालाञ्चित> -बिन्दुजालचित-नख-पदाभिप्रायेण ताम्बूलकरङ्कवाहिनीं पयोधरे <९> <९.स्तनतटे> पटवासमुष्टिना ताडयन्तीम्, रत्नकुण्डल <१> <१.प्रतिबिम्बमार्द्रदन्तव्रणमण्डल> प्रतिबिम्ब-सान्द्र-दत्त-नव-नखपद-मण्डलाशङ्कया चामरग्राहिणीं विहस्य कपोले प्रसादव्याजेन दत्तेन <२> <२.व्याजदत्तेन> आत्मकर्णपूरपल्लवेनाच्छादयन्तीम्, पृथिवीमिव समुत्सारितमहाकुलभू <३> <३....भूभृद्व्यतिकरां> भृद्वर-व्यतिकर-शेषभोगनिषण्णाम् <४> <४.शेषभोगेषु निषण्णां च> , मधुमासलक्ष्मीमिव <५> <५.सखीमिव> षट्पद-पटलापह्नियमाणकुसुम-रजोधूसर-पादपरागाम्, शरदमिवोत्पादितमानसजन्मपक्षिरवापनीतनीलकण्ठमदाम्, गौरीमिव श्वेतांशुकरचितोत्तमाङ्गाभरणाम् <१> <१.विरचित> , उदधि-वेलावन <२> <२...घन...> -लेखामिव मधुकरकुलनीलतमालकाननाम्, इन्दुमूर्त्तिमिवोद्दाम-मन्मथविलास-गृहीत-गुरु-कलत्राम्, वनराजिमिव पाण्डुश्यामलवलीलतालङ्कृतमध्यां, दिनमुखलक्ष्मीमिव <३> <३.दिनमुखमिव> भास्वन्मुक्तांशु-भिन्न-पद्मरागप्रसाधनाम्, आकाशकमलिनीमिव स्वच्छाम्बरदृश्यमान मृणाल-कोमलोरुमूलाम्, मयूरावलीमिव नितम्ब-चुम्बिशिखण्डभार-विस्फुरच्चन्द्रकान्ताम्, कल्पतरुलतामिव कामफलप्रादम्, <१> <१.पुरःसमीपे> शयनसमीपे सम्मुखोपविष्टम् "को ऽसौ, कस्य वापत्यम्, किमभिधानो वा, कीदृशमस्य रूपम्, कियद्वा वयः, किमभिधत्ते, भवता <२> <२.भवतां च> किमभिहितः, कियच्चिरं दृष्टस्त्वया, कथञ्चास्य महाश्वेतया सह परिचय उपजातः, किमयमत्रागमिष्यतिऽ इति मुहुर्मुहुश्चन्द्रापीडसम्बद्धमेवालापं <४> <४....सम्बद्धालपम्, सम्बद्धालापरूप> तद्रूपवर्णनामुखरं केयूरकं पृच्छन्तीं कादम्बरीं ददर्श ।

तस्य तु <५> <५.क्वचित् "दृष्टऽ इति पदं न दृश्यते> दृष्टकादम्बरीवदनचन्द्रलेखालक्ष्मीकस्य सागरस्येवामृतमुल्ललास हृदयम् । आसीच्चास्य मनसि-"शेषेन्द्रियाण्यपि मे वेधसा किमिति लोचनमयान्येव न कृतानि । किं वानेन कृवमवदातं कर्म चक्षुषा, यदनिवारितमेनां पश्यति । अहो! चित्रमेतदुत्पादितं वेधसा सर्वरमणीयानामेकं धाम । कुत एते रूपातिशयपरमाणवः समासादिताः । तन्नूनमे नामुत्पादयतो विधेः करतलपरामर्शक्लेशेन ये विगलिता लोचनयुगलादश्रुबिन्दवस्तेभ्य एतानि जगति कुमुद-कमल-कुवलय-सौगन्धिकवनान्युत्पन्नानिऽ इत्येवं चिन्तयत एवास्य तस्या नयनयुगले <१> <१.आनने> निपपात चक्षुः । तदा तस्या अपि "नूनमयं स केयूरकणावेदितऽ इति चिन्तयन्त्या रूपातिशयविलोकनविस्मयस्मेरं निश्चलनिबद्धलक्ष्यं <२> <२....लक्षं> चक्षुस्तस्मिन् <३> <३.नयनम्> सुचिरं पपात । लोचनप्रभाधवलितस्तु कादम्बरीदर्शनविह्वलो बल इव <४> <४.अचल इव> तत्क्षणमराजत <५> <५.क्वचित् "तत्ऽ इति पदं न दृश्यते> चन्द्रापीडः । दृष्ट्वा च तं <१> <१.क्वचित् "तम्ऽ इति पदं न विद्यते> प्रथमं रोमोद्गमः, ततो भूषणरवः, तदनु कादम्बरी समुत्तस्थौ ।

अथ तस्याः कुसुमायुध एव स्वेदमजनयत्, ससम्भ्रमोत्थानश्रमो <२> <२.व्यपदेशेन> व्यपदेशो ऽभवत् । उरुकम्प एव <३> <३.ऊरुस्तम्भ एवऽ> गतिं रुरोध, नूपुररवाकृष्टहंसमण्डलमयशो <४> <४.अपयशो> लेभे । निश्वासप्रवृत्तिरेव <५> <५.निश्वासप्रवृद्धिरेव निश्वास एव> अंशुकं चलं चकार, चामरानिलो निमित्ततां ययौ । अन्तःप्रविष्ट-चन्द्रापीड <६> <६....चन्द्रापीडस्य> -स्पर्श-लोभेनैव निपपात हृदये हस्तः, स एव <७> <७.हस्तपल्लवः, स एव करः> स्तनावरणव्याजो <८> <८.स्तनावरणम्> बभूव । आनन्द एवाश्रुजलमपातयत्, चलितकर्णावतंसकुसुमरजो व्याज आसीत् <९> <९.व्याजमासीत्, व्यपदेशतामयासीत्> । लघ्जैव वक्तुं न ददौ, मुखकमलपरिमलागतालिवृन्दं द्वारतामगात् <१> <१.द्वारपालताम्> । मदनशरप्रथमप्रहारवेदनैव सीत्कराम् <२> <२.शीत्कारम्> अकरोत्, कुसुमप्रकरकेततीकण्टकक्षतिः साधारणतामवाप । वेपथुरेव करतलमकम्पयत्, निवेदनोद्यतप्रतीहारीनिवारणं कपटमभूत् । तदा च कादम्बरीं विशतो मन्मथस्यापि मन्मथ इवाभूद् द्वितीयः, तया सह यो विवेशचन्द्रापीडहृदयम् । तथाहि, असावपि तस्या रत्नाभरणद्युतिमाप तिरोधानममस्त, हृदयप्रवेशमपि परिग्रहमगाणयत्, भूषणस्वमपि सम्भाषणममन्यत, सर्वेन्द्रियाहरणमपि प्रसादमचिन्तयत्, देहप्रभासम्पर्कमपि सुरतसमागमसुखमकल्पयत् ।

कादम्बरी तु कृच्छ्रादिव दत्तकतिपयपदा महाश्वेतां स्नेहनिर्भरं चिरदर्शनजातोत्कण्ठा <१> <१....जातोत्कण्ठं> सोत्कण्ठं कण्ठे जग्राह । महाश्वेतापि दृढतरदत्तकण्ठग्रहा तामवादीत्-"सखि! कादम्बरि! भारते वर्षे राजा अनेक-वर-तुरग-खुर-मुखोल्लेखदत्त-चतुः-मुद्र रक्षितप्रजापीजस्तारापीडो नाम, तस्यायं निज-भुज-शिलास्तम्भ-विश्रान्त-विश्व-विश्वम्भरापीडः <२> <२....विश्रान्तविश्वम्भरापीडः, विश्वबन्धुः> चन्द्रापीडो नाम सूनुदिग्विजयप्रसङ्गेनागतः <३> <३.अनुगतः> भूमिमिमाम् । एष च दर्शनात् प्रभृति प्रकृत्या मे निष्कारणबन्धुनां गतः, परित्यक्तसकलासङ्गनिष्ठुरामपि मे <४> <४.सविशेषैः> सविशेषस्वभावसरलैर्गुणैराकुष्य <५> <५.आक्रम्य> चित्तवृत्तिं वर्त्तते, दुर्ल्लभो हि दाक्षिण्यपरवशो निर्निमित्तमित्रमकृत्रिमहृदयो विदग्धजनः <१> <१.विदग्धो जनः> यतो दृष्टवैवेमम् अहमिव त्वमपि निर्माणकौशलं प्रजापतेः, निःसपत्नताञ्च रूपस्य, स्थानाभिनिवशित्वञ्च लक्ष्म्याः, सद्भर्त्तृतासुखञ्च पृथिव्याः, सुरलोकातिरिक्तताञ्च मर्त्त्यलोकस्य, सफलताञ्च मानुषीलोचनानाम्, एकस्थानसमागम्ञ्च सर्वकलानाम, ऐश्वर्य्यञ्च सौभाग्यस्य, अग्राम्यताञ्च मनुष्याणां ज्ञास्यसीति बलादानीतो ऽयम् । कथिता चास्य मया बहुप्रकारं <२> <२.बहुकरं> प्रियसखी । तदपूर्वदर्शनो ऽयमिति विमुच्य लज्जाम्, अनुपजातपरिचय इत्युत्सृज्य अविश्रम्भताम्, अविज्ञातशील इत्यपहाय शङ्काम्, यथा मयि तथात्रापि वर्त्तितव्यम् <३> <३.प्रवर्त्तितव्यम्> । एष ते मित्रञ्च बान्धवश्च परिजनश्चऽ इत्यावेदिते तया, चन्द्रापीडः प्रणाममकरोत् । कृतप्रणामञ्च तं तदा कादम्बर्य्यास्तिर्य्यग्विलोकयन्त्याः सस्नेहमतिदीर्घलोचनापाङ्गभागं गच्छतस्तारकस्य <१> <१.अतिदीर्घलोचनाया अपाङ्गभागं गच्छतस्तारकस्य लोचनस्य अतिदीर्घलोचनयोरपाङ्गभागम्> श्रम-सलिल लव-विसर इवानन्दबष्पजबिन्दुनिकरो निपपात । त्वरितमभिप्रस्थितस्य धूलिरिव सुधाधवला स्मितज्योत्स्ना विससार । सम्मान्यतामयं हृदयरुचिरो जनः प्रतिप्रणामेनेति शिरो वक्तुमिवैका भ्रूलता समुन्ननाम । अङ्गुलिविवरविनिःसृतमरकताङ्गुलीयकमयूखलेखो <२> <२....लेखाबिभ्रम...अङ्गुलीयकलेखः...> विभ्रम-गृहीतताम्बूलवीटिक इव करो जृम्भारम्भमन्थरं मुखमुतससर्प । स्नवत्स्वेदजलधौतलावण्यनिर्म्मलेषु चास्याःसंक्रान्त <१> <१.स्तम्भसंक्रान्त...> -प्रतिबिम्बतया सञ्चरन्मूर्त्तिर्मकरकेतुरिवावयवेष्वदृश्यत चन्द्रापीडः । तथाहि, शिञ्जन्मणिनूपुरपुटेन <२> <२....मणिक्यनूपुर> भुवम् <३> <३.मणिभवम्> आलिखताङ्गुष्ठेनाहूत इव चरणनखेषु निपपात । दर्शनातिरभसप्रधावितेन गत्वा हृदयेनानीत-इव स्तनाभ्यन्तरे ससदृश्यत । विकचकुवलयदामदीर्घया दृष्ट्या च निपीत इव कपोलतले समलक्ष्यत । सर्वासामेव च तदा तासां कन्यकानां तिर्य्यक्, पश्यन्तीनां तं कुतूहलादपाङ्गचुम्बिन्यो निर्गन्तुकामा <४> <४.अपाङ्गचुम्बिन्या दष्ट्या निर्गन्तुकामा इव> इव कर्णपूरमधुकरैः समं बभ्रुमुस्तरलास्तारकाः ।

कादम्बरी तु सविभ्रम-कृत-प्रति-प्रणामा <५> <५....कृतप्रणामा> महाश्वेतया सह पर्यङ्के निषसाद । ससम्भ्रमं <१> <१.ससम्भ्रमपरिजनोपनीतायाञ्च> परिजनोतायाञ्च शयनशिरोभागनिवेशितायां धवलांशुकप्रच्छदपटायां <२> <२.अत्र विविधरत्नप्रभाभासितायाम्ऽ इति क्वचित् पाठो दृश्यते> हेमपादाङ्कितायां पीठिकायां चन्द्रापीडः समुपाविशत् । महाश्वेतानुरोधेन च विदितकादम्बरीचित्ताभिप्रायाः संवृत-मुख-न्यस्त-दत्तशब्द-निवारण-संज्ञाः प्रतीहार्य्यो वेणुरवान् वीणाघोषांन् गीतध्वनीन् मागधीजयशब्दांश्च सर्वतो निवारयाञ्चक्रुः । त्वरितपरिजनोपनीतेन च सलिलेन कादम्बरी स्वयमुत्थाय महाश्वेतायाश्चरणौ प्रक्षाल्योत्तरीयांशुकेनापमृज्य पुनः पर्य्यङ्कमारुरोह । चन्द्रापीडस्यापि कादम्बर्य्याः सखी रूपानुरूपा जीवितनिर्विशेषा सर्वविश्रम्भभूमिर्मदलेखेति नाम्ना बलादनिच्छतो ऽपि प्रक्षालितवती चरणौ । महास्वेता तु कर्णाभरणप्रभावषिण्यंसदेशे <३> <३....अपाङ्गदेशे> सप्रेम-पाणिना स्पृशन्ती, मधुकरभर-पर्य्यस्तञ्च कर्णावतंससमुत्क्षिपन्ती, चामरपवनविधुति <४> <४....विधूति...> पर्य्यस्ताञ्च <५> <५....पर्य्यत्तालक...> अलकवल्लरीमनुष्वजमाना कादम्बरीमनामयं पप्रच्छ । सा तु सखीप्रेम्णा गृहनिवासेन कृतापराधेवानामयेनैव लज्जमाना कृच्छ्रादिव कुशलमाचचक्षे । समुपजातशोकापि च तस्मिन् काले <१> <१.इह "तस्मिन् कालेऽ इति क्वचित्पुस्तके नावलोक्यते> महाश्वेतामुखनिरीक्षणतत्परापि मुहुर्मुहुरपाङ्ग-विक्षेप-प्रचलित-तरल-तर-तारशारोदरं <२> <२....सारोदरं> चक्षुर्मण्डलितचापेन भगवता कुसुमधन्वना बलान्नीयमानं चन्द्रापीडपीडनायेव <३> <३....पीडनयेव, चन्द्रापीडपीडनादेव, चन्द्रापीडं प्रति> न शशाक निवारयितुम् । तेनैव क्षणेन तेनासन्नसखोकपोलसंक्रान्तेनेर्ष्याम् <४> <४.इर्ष्ययार् इर्ष्या> , रोमाञ्च-भिद्यमान-कुचतट <५> <५.क्वचित् "तटऽ इति पदं नोपलभ्यते> -नशयत्-प्रतिबिम्बेन विरहव्यथाम्, स्वेदार्द्र <६> <६.विरहव्यथास्वेदार्द्र...> -वक्षःस्थल घटितशालभञ्जिकाप्रतिमेन सपत्नीरोषं <१> <१.सपत्नीरोषात्> निमिषता दौर्भाग्यशोकम्, आनन्दजलतिरोहितेनान्धतादुःखमभजत सा । मुहूर्त्तापगमे च ताम्बूलदानोद्यतां महाश्वेता तामभाषत <२> <२.तां महाश्वेतां समभाषत> -ठसखि! कादम्बरि! सम्प्रतिपन्नमेव <३> <३.क्वचिदेव पाठो नास्ति> सर्वाभिरेवास्माभिः <४> <४.सर्वाभिरस्माभिः, सर्वाभिरेवास्माभिरभिनव...> अयमभिनवागतश्चन्द्रापीड आराधनीयः, तदस्मै तावद्दोयतां ताम्बूलम् <५> <५.क्वचित् "ताम्बूलम्ऽ इति पदं न दृश्यते> ऽ इत्युक्ता च किञ्चिद्विवर्त्तितावनमितमुखी <६> <६....आनमितमुखी> शनैरव्यक्तमिव "प्रियसखि! लज्जे ऽहमनुपजापरिचया प्रागल्भ्येनानेन, गृहाण, त्वमेवास्मै प्रयच्छऽ इत्युवाच <७> <७.सा ताम्> । पुनः <८> <८.कादम्बरी तु> पुनरभिधीयमाना च तया कथमपि ग्रम्येव चिराद्दानाभिमुखं <९> <९.चिरेण> मनुश्चक्रे । महाश्वेतामुखादनाकृष्टदृष्टिरेव <१०> <१०.अनाकर्षितदृष्टिरेव> वेपमानाङ्गयष्टिराकुललोचना <११> <११.आमुकुलितलोचना, आकुलितलोचना> स्थूलस्थूलं निश्वसती <१२> <१२.निःश्वसन्ती> निजशरप्रहारमूच्छिता मन्मथेन स्नपितेव स्वेदजलविसरैः, स्वेदजलविसरनिमज्जनभयेन च हस्तावलम्बनमिव याचमाना, साध्वसपरवशा पतामीति लगितुमिव <१> <१.विलगितुभिव, लपितुमिव, तापितुमिव> कृतप्रयत्ना प्रसारयामास ताम्बूलगर्भ हस्तपल्लवम् । चन्द्रापीडस्तु जयकुञ्जरकुम्भस्थलास्फालन-संक्रान्त सिंदूरमिव स्वभावपाटलं, धनुर्गुणकर्षणकृतकिणश्यामलम्, कचग्रहाकृष्टि-रुदितारिलक्ष्मी-लोचन-परामर्श-लग्नाञ्जनबिन्दुमिव, विसर्पन्नखकिरणतया अतिरभसेन प्रधाविताभिरिवं विवर्धिताभिरिव प्रहसिताभिरिवाङ्गुलीभिरुपेतम्, स्पर्शलोभाच्च तत्कालकृत-सन्निवेशाः सरागाः पञ्चापीन्द्रियवृत्तीरपरा इवाङ्गुलीरुद्वहन्तम् <३> <३.अपराङ्गुलीः,...वृत्तीरिवाङ्गुलीः...> प्रसारितवान् पाणिम् । तत्र च सा तत्काल-सुलभ <१> <१.क्वचित् "सुलभऽ इति पदं नास्ति> -विलास-दर्शन-कुहूहलिभिरिव कुतो ऽप्यागत्य सर्वरसैरधिष्ठिता <२> <२....अधिष्ठितेनान्यनिबद्धलाक्ष्यशून्य...> । तेनानिबद्धलक्ष्यता शून्यप्रसारितेन, चन्द्रापीडहस्तान्वेषणायेव पुरःप्रवर्त्तित-नखांशुनिवहेन, वेपथुचलितवलयावलीवाचालेन सम्भाषणमिव कुर्वता हस्तेन, स्वेदसलिलपातपूर्वकं "गृह्यतामयं मन्मथेन दत्तो दासजनःऽ इत्यात्मानमिव प्रतिग्राहयन्ती, "अद्य प्रभृति भवतो हस्ते वर्त्ततेऽ इति जीवितमिव स्थापयन्ती, ताम्बूलमदात् । आकर्षन्ती <३> <३.आकर्षयन्ती> च करकिसलयं भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ।

अथ सहसैव त्वरितगतिः, त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमाङ्कुरानुकारिचञ्चुपुटेन <१> <१....अनुकारिणा चञ्चुपुटेन> मरकतद्युतिपक्षतिना मन्थरगतेन शुकेनानुबध्यमाना, <२> <२.मन्धरगमनेन शुकेनानुगम्यमाना> कुमुद-केसरपिञ्जरतया चरणयुगलस्य, चम्पककलिकाकारतया च मुखस्य, कुवलयदलनीलतया च पक्षद्युतीनाम्, कुसुममयीवागत्य सारिका सक्रोधमवादीत्-भर्त्तृदारिके! कादम्बरि! कस्मान्न निवारयस्येनमलीकसुभगाभिमानिनमतिदुविनीतं <३> <३.दुर्विनीतं> मामनुवध्नन्तं विहङ्गापसदम् <४> <४.विहङ्गमापसदम्> । यदि मामनेन परिभूयमानामुपेक्षसे ततो ऽहं नियतमात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेनऽ इत्येवमभिहिता च तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता"किमियं वदतिऽ इति मदलेखां पप्रच्छ । सा <५> <५.त्वकः> चाकथयत्-"एषा भर्तृदुहितुः सखी <६> <६.क्वचित् सखीति पदं न दृश्यते> कादम्बर्य्याः कालिन्दीति नाम्ना सारिका, एतस्य <१> <१.इदमस्य च> परिहासनाम्नः शुक्सय भर्त्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्युषसि कादम्बर्य्यास्ताम्बूलकरङ्कवाहिनीमिमां तमालिकामेकाकिनीं <२> <२.तरलिका...> किमपि पाठयन् दृष्टो यतः, ततः प्रभृति सञ्जातेर्ष्या कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदतीऽति <३> <३.क्वचित् "इतिऽ इति पदं नावलोक्यते> । एतदाकर्ण्य स्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत्-"अस्त्येषा कथा, श्रूयत एवैतद्राजकुले कर्णपरम्परया, परिजनो ऽप्येवं मन्त्रयते, <४> <४.आमन्त्रयते, अप्येवं मन्त्रयति एवम्, अपि मन्त्रयते> बहिरपि जनाः कथयन्ति, एवं दिगन्तरेष्वप्ययमालापो वर्त्तत एव <५> <५.एवम्> , अस्माभिरप्येतदाकर्णितमेव, "यथा किल देव्याः कादम्बर्य्यास्ताग्बूलदायिनी <६> <६.वाहिनीं> तमालिकां <७> <७.तरलिकां> कामयमानः परित्यक्तनिजकलत्रो निस्त्रपया <८> <८.निस्त्रपः> अनया सह, देव्यास्तु कादम्बर्य्याः कथमेतद् युक्तं यन्न निवारयतीमां चपलां दुष्टदासीम् । अथवा देव्यापि कथितैव निःस्नेहता <१> <१.निस्नेहता> प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहङ्गाय प्रयच्छन्त्या किमिदानीमियं <२> <२.क्वचिदिह"तपस्विनोऽ इत्यधिक पाठः समुपलभ्यते> करोतु, यदेतत् सापत्न्यकरणंनीरीणां प्रधानं कोपकारणम्, अग्रणीर्विरागहेतुः, परं परिभस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगारिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः अनशनं वा नाङ्गीकृतम् । न ह्येवंविघम् <३> <३.न ह्येकम्> अपरमस्ति योषितां लघिम्नः कारणम् । यदि चेयमीदृशे ऽप्यपराधे अनुनीयमाना <४> <४.अभिभवनिरास्याम्, अभिभवनिरस्या> अनेन प्रत्यासत्तिमेष्यति । तदा धिगिमाम् अलमनया, दूरतो वर्जनीयेयम्, अभिभवनिरास्या <५> <५.अभिभवनिरास्याम्, अभिभवनिरस्या> , । क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यतिऽ इत्येवमभिहितवति तस्मिन् सर्वास्ताः सह कादम्बर्य्याः क्रीडालापभाविताः <६> <६....भाषिताः> जहसुरङ्गनाः । परिहासस्तु तस्य नर्म्मभाषितमाकर्ण्य जगाद-धूर्त्ते! राजपुत्र! निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः, इयमपि जानात्येव परिहासजल्पितानि, अस्या अपि राजकुलसम्पर्कचतुरामतिः । विरम्यताम्, अभूमिरेषा भुजङ्ग-भङ्गि-भाषितानाम्, इयमेव हि वेत्ति मञ्जुभाषिणी कालञ्च कारणञ्च प्रमाणञ्च विषय्च प्रस्तावञ्च कोपप्रसादयोः इति ।

अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत्-"आयुष्मति! देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयतेऽ । एवमभिहिता च गन्तुकामा "सखि! चन्द्रापीडः क्वास्ताम्ऽ इति कादम्बरीमपृच्छत् । असौ तु "न पर्य्याप्तमनेकस्त्रीहृदयसहस्नावस्थानेन <१> <१.ननु पर्य्याप्तमेवानेकस्त्रीहृदयस्रावस्थानमनेन> ?ऽ इति मनसा विहस्य प्रकाशमवदत्-"सखि! महाश्वेते! किं त्वमेवमभिदधासि, दर्शनादारभ्य शरीरस्याप्ययमेव प्रभुः, किमुत भवनस्य विभवस्य परिजनस्य वा, यत्रास्भै रोचते <२> <२....शरीरस्याप्यहं न विभुः किमुन भवनस्य परिजनस्य वा । यत्रासौ रोचते...> प्रियसखीहृदयाय वा, तत्रायमास्ताम्ऽ इति । तच्छुत्वा महाश्वेतावदत्-"अत्रैव <३> <३.महाश्वेता तदत्रैव च> त्वत्प्रासादसमीपवर्त्तिनि प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्ऽ इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ ।

चन्द्रापीडो ऽपि तयैव सह <१> <१.तथा सहैव> निर्गत्य विनोदनार्थं <२> <२.विनोदार्थं> वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदरक्रीडारागिणीभिश्च अष्टापदपरिचयचतुराभिश्च चित्रकर्म्मकृतश्रमाभिश्च सुभाषित पाठिकाभिश्च <३> <३.दुरोदरेत्यारभ्य पाठिकाभिश्चेत्यन्तं यावत् पाठः क्वचिन्न दृश्यते> कादम्बरीसमादिष्ट-प्रतीहारी-प्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकणोपदिश्यमानमार्गः क्रीडापर्वतमणिमन्दिर <४> <४.गृहम्> मगात् । गते च तस्मिन् गन्धर्वराजपुत्री विसर्ज्य सकलं सखीजनं परिजनञ्च <५> <५.सकलसखीजनञ्च> परिमित-परिचारिकाभिरनुगम्यमाना प्रसादमारुरोह । तत्र <६> <६.ततः> च शयनीये निपत्य दूर <७> <७.अदूर...> -स्थिताभिर्विनयनिभृताभिः <८> <८.विधृताभिः> परिचारिकाभिर्विनोद्यमानः <९> <९.परिचयचतुराभिरुपास्यमानापि> कुतो ऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन् काल"चपले! किमिदमारब्धम्ऽ इति निगृहीतेव लज्जया, "गन्धर्वराजपुत्रि! कथमेतद् युक्तम्?ऽ इत्युपालब्धेव विनयेन, "अयमसावव्युत्पन्नो बालभावः क्व गतःऽ इत्युपहसितेव मुग्धतया, "स्वैरिणि! मा कुरु यथेष्टमेकाकिन्यविनयम्ऽ इत्यामन्त्रितेव कुमारभावेन, "भीरु! नायं कुलकन्यकानां क्रमःऽ इति गर्हितेव महत्त्वेन,"दुर्विनीते! रक्षाविनयम्ऽ इति तर्जितेवाचारेण, "मूढे! मदनेन <१> <१.मूठ! निगृह्यतां मदनेन> लघुतां नीतासिऽ इत्यनुशासितेवा <२> <२.लघुतां नीतासि मदनेनेति शापितेव> भिजात्येन, "कुतस्तवेयं तरलहृदयता <३> <३.तरलता> ऽ इति धिक्कतेव धैर्य्येण, "स्वच्छन्दचारिणि! अप्रमाणीकृताहं त्वयाऽ इति निन्दितेव कुलस्थित्वा, अतिगुर्वी लज्जामुवाह । समचिन्तयच्चैवम्-"अगणितसर्वशङ्कया <४> <४.अगणितसर्वशङ्कां> तरलहृदयतां दर्शयन्त्या अद्यमया किं कृतमिदं मोहान्धया <५> <५.साहसिकतया> तथाहि, अदृष्टर्वो ऽयमिति साहसिकया <६> <६.साहसिकतया> मया न शङ्कितम् । लघुहृदयां मां लोकः <७> <७.अयं> कलयिष्यतीति निर्ह्रिकया नाकलितम् । कास्य चित्तवृत्तिरिति मूढया <८> <८.मया> न परीक्षितम् । दर्शनानुकूलाहमस्य नेति वा तरलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम्, गुरुजनान्न त्रस्तम्, लोकापवादान्नोद्विग्नम्, तथा च महाश्वेतातिदुःखितेति <१> <१.दुःखितेति> निर्दाक्षिण्य्या <२> <२.दाक्षिण्यया> नापेक्षितम्, आसन्नवर्त्तितसखीजनो ऽप्युपलक्षयतीति मन्दया न लक्षितम्, पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयो ऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता कसलकलाकुशलाः सख्यो वा राजकुलसञ्चारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । रिदृशेष्वतिनिपुणतरदृष्टयो ऽन्तःपुरदास्यः <३> <३.निपुणदृष्टय> । सर्वथा हतास्मि मन्दपुण्या, मरणं मे ऽद्य श्रेयो न लज्जाकरं जीवितम् । श्रुत्वैतं <४> <४.श्रुत्वैतद्वृत्तान्तं> वृत्तान्तं किं वक्ष्यत्यम्बा, ततो वा, गन्धर्वलोको वा । किं करोमि, को ऽत्र प्रतीकारः, केनोपायेन स्खलितमिदं प्रच्छादयामि, कस्य वा चापलिमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि, क्व वानेन दग्वहृदयेन पञ्चबाणेन न खलु जानाभि गृहीता गच्छामि <५> <५....दग्धहृदयेन गृहीता गच्छामि, दग्धहृदया पञ्चबाणेन गच्छामि> । तथा महाश्वेताव्यतिकरेण प्रतिज्ञा कृता प्रियसखीनां पुरो मन्त्रितम्, तथा च केयूरकस्य हस्ते <१> <१.केयूरकहस्ते> सन्दिष्टम् । न खलु जानामि मन्दभागिनी शठविधिना वा, उत्सन्नमन्मथेन वा, पूर्वकृतापुम्यसञ्चयेन वा, मृत्युहतकेन वा, अन्येन वा केनाप्ययमानीतो मम विप्रलम्भकश्चन्द्रापीडः । को ऽपि वा न कदाचिद् दृष्टो नानुभूतो न श्रुतो न चिन्तितो नोत्प्रेक्षितो मां विडम्बयितुमुपागतः <२> <२.उपन्यस्तः, उपनतः> , यस्य दर्शनमात्रेणैव <३> <३.दर्शनमात्रकेणैव> संयम्य दत्तेवेन्द्रियैः, शरपञ्जरे निक्षिप्य समर्पितेन मन्मथेन, दासीकृत्यापनीतेवानुरागेण, गृहीतगुमपणेन <४> <४.गृहीतमुल्येन गुणगणेन, गुणपणेन> विक्रीतेव हृदयेन, उपकरणीभूतास्मि <५> <५.अशरणीभूतास्मि> । न मे कार्यं तेन चपलेनेति क्षणमिव सङ्कल्पकरोत् । कृतसङ्कल्पा च, अन्तर्गतेन "मिथ्याविनीते! यदि मया न कृत्यम्, एष गच्छामिऽ इति हृदयोत्कम्पचलितेन परिहसितेव चन्द्रापीडेन, तत्परित्यागसङ्कल्प-समकालप्रस्थितेन कण्ठलग्नेन पृष्टेव जीवितेन, "अविशेषज्ञे! पुनरपि प्रक्षालितलोचनया दृश्यतामसौ जनः प्रत्याख्यानयोग्यो न वेऽति तत्कालागतेनाभिहितेव बाष्पेण, अपनयामि ते साहसुभिर्धैर्य्यावलेपऽमिति निर्भर्त्सितेव मनोभुवा, पुनररि तथैव चन्द्रापीडाभिमुखहृदया बभूव । तदेव मस्तमितप्रतिसमाधानबलाबलात् <१> <१....बलात्प्रेमावेशेन> प्रेमावेशनास्वतन्त्रीकृता परवशेवोत्थाय जालवातायनेन तमेव क्रीडापर्वतम् <२> <२.क्रीडापर्वतकम्> अवलोकयन्त्यतिष्ठत् । तत्रस्था च सा तमानन्दजलव्यवधानोद्विग्नेव स्मृत्या ददर्श, न चक्षुषा । अङ्गुलीगलितस्वेदपरामर्शभीतेव चिन्तया लिलेख, न चित्रतूलिकया । रोमाञ्चतिरोधानशङ्कितेव हृदयेनालिलिङ्ग, न वक्षसा । तत्सङ्गमकालातिपातासहेव मनो गमागमाय <१> <१.गमाय, गमनागमने> नियुक्तवती, न परिजनम् । चन्द्रापीडो ऽपि प्रविशअय स्वच्छन्दं <२> <२.स्वच्छं> कादम्बरीहृदयमिव द्वितीयं मणिगृहम्, शिलातलास्तीर्णायामुभयत उपर्य्युपरि निवेशित-बहूपधानायां कुथायां निपत्य केयूरकेणोत्सङ्गे <३> <३.उत्सङ्गेन> गृहीतचरणयुगलस्ताभियथादिष्टेषु भूमिभागेषवपिष्टाभिः कन्यकाभिः परिवृतो दोलायमानेन चेतसा चिन्तां विवेश । किं तावदस्या गन्धर्वराजदुहितुः कादम्बर्य्याः सहभुव एते विलासा एवेदृशाः सकललोकहृदयारिणः, आहोस्विदनाराधितप्रसन्नेन भगवता मकरकेतुना मयिनियुक्ताः, येन मां सास्रेण सरगेणाकूणितत्रिभागेण <४> <४.कूणित> हृदयान्तःपतत्स्मर-शर-कुसुम-रजोरूषितेनेव चक्षुषा तिर्य्यग्विलोकयति । मद्विलोकिता च धवलेन स्मितालोकेन दुकूलेनेव लज्जयात्मानमावृणोति । मल्लज्जाविवर्त्तमानवदना च प्रतिबिम्बप्रवेशलोभेनेव कपोलदर्पणमर्पयति । मदवकाशदायिनो हृदयस्य प्रथमाविनयलेखामिव कररुहेण शयनाङ्के लिखति । मत्ताम्बूलवीटिकोपनयनखेद-विधूतेन <१> <१....विधुतेन> रक्तोत्पल-भ्रम-भ्रमद्भ्रमरवृन्देन <२> <२.रक्तोत्पलभ्रमद्भ्रमरवृन्देन> करतलेन स्विन्नं <३> <३.खिन्नं> मुखमिव <४> <४.मुखमियं> गृहीततमालपल्लवेनेव वीजयतिऽ । पुनश्चाचिन्तयत्-"प्रायेण मानुष्यकसुलभा लघुता मिथ्यासङ्कल्पसहस्रैरेवमायास्य मा <५> <५.एवं मां> विप्रलभते, लुप्तविवेको यौवनमदो मदयति मदनो वा । यतस्तिमिरोपहतेव यूनां दृष्टिरल्पमपि कालुष्यं <१> <१.कलुषं> महत् पश्यति । स्नेहलवो ऽपि यौवनमदेन दूरं विस्तार्य्यते <२> <२.विसार्यते> स्वयमुत्पादितानेकचिन्ताशताकुला कविमतिरिव तरलता न किञ्चिन्नोत्प्रेक्षते । निपुणमन्मथ <३> <३....सदन...> -गृहीता चित्रवर्त्तिकेव तरुमचित्तवृत्तिर्न किञ्चिन्नालिखति । सञ्जातरुपाभिमाना कुलटेवात्मसम्भावना न क्वचिन्नात्मानमर्पयति । स्वप्न इवाननुभूतमपि <४> <४.अनुभूतमपि> मनोरथो दर्शयति । इन्द्रजालपिच्छिकेवासम्भाव्यमपि प्रत्याशा पुरः स्तापयति । भूयश्च चिन्तितवान्-"किमनेन वृथैव मनसा खेदितेन, यदि सत्यमेवेयं धवलेक्षणा मय्येवं जातचित्तवृत्तिः <१> <१.जातवृत्ति> तदा न चिरात् स एवैनामप्रार्थितानुकूलो मन्मथः प्रकटीकरिष्यति, स एवास्य संशयस्य च्छेत्ता भविष्यतिऽ इत्यवधार्य्योत्थायोपविश्यच ताभिः कन्यकाभिः सहाक्षैर्गेयैश्च <२> <२.लयैश्च> विपञ्जीवाद्यैश्च पाणिविकैश्च स्वरसन्देहविवादैश्च सुभाषितगोष्ठीभिश्चान्यैश्च <३> <३.क्वचित् "सुभाषितगोष्ठीभिश्चन्यैश्चऽ इति पाठो नास्ति> तैस्तैरालापैः सुकुमारैः कलाविलासैः क्रीडन्नासाञ्चक्रे । मुहूर्त्तञ्च स्थित्वा निर्गम्योपवनालोकनाकुतूहलक्षिप्तचित्तः <४> <४.पर्वत> क्रीडापर्वतकशिखरमारुरोह ।

कादम्बरी तु तं <५> <५.तातं> दृष्ट्वा चिरयतीति महाश्वेतायाः किल वर्त्मावलोकयितुं <६> <६.क्वचिदिह "उद्यताऽ इत्यधिकः पाठः> विमुच्य तं गवाक्षम् <७> <७.विमुच्यतां गवाक्षमित्युक्त्वा> अनङ्गक्षिप्तचित्ता सौधस्योपरितनं शिखरमारुरोह <८> <८.तलं कैलाशशिखरमिव गौर्यरुरोह> । तत्र च विरलपरिजना सकल <९> <९.क्वचित्, "सकलऽ पदं न दृश्यते> शशिमण्डलपाण्डुरेणातपत्रेण हेमदण्डेन <१> <१.विरचितहेमदण्डेन> निवार्यमाणातपा, चतुर्भिर्बालव्यजनैश्च फेनशुचिभिरुद्धूयमानैरुपवीज्यमाना, शिरसि, कुसुमगन्धलुब्धेन भ्रमता भ्रमरकुलेन दिवापि नीलावगुण्ठनेनेव <२> <२.नीलावगुण्ठनेव> चन्द्रापीडभिसरणवेशाभ्यासमिव कुर्वती <३> <३....वेषाभ्यस्यन्ती,...वेशाभ्यासं कुर्वती, कैलासशिखर इव गौरी इत्यपि क्वचिदधिकः पाठः> , मुहुश्चामरशिखां समासज्य, मुहुश्छत्रदण्डमवलम्ब्य, मुहुस्तमालिकास्कन्धे करौ विन्यस्य, मुहुर्मदलेखां परिष्वज्य <४> <४....सखी परिष्वज्य> मुहुः परिजनान्तरितसकलदेहा नेत्रत्रिभागेण <५> <५....नेत्रत्रिभागेणावलोक्य> , मुहुरावलितत्रिवलीवलया परिवृत्य, मुहुः प्रतीहारीवेत्रलताशिखरे कपोलं निधाय, मुहुर्निश्चलकरविधृतामधरपल्लवे वीटिकां विनिवेश्य <६> <६.निवेश्य> , मुहुरुद्गीर्णोत्पलप्रहार <७> <७.उद्गूर्णकर्णोत्पल...उद्गीर्णकर्णोत्पल> -पलायमान-परिजनानुसरण-दत्त-कतिपयपदा विहस्य, तं विलोकयन्ती तेन च विलोक्यमाना, महान्तमपि कालमतिक्रान्तं नाज्ञासीत् । आरुह्य च प्रतीहार्या निवेदितमहाश्वेताप्रत्यागमना तस्मादवततार । स्नानादिषु मन्दादरापि महाश्वेतानुरोधेन दिवसव्यापारमकरोत् । चन्द्रापीडो ऽपि तस्मादवतीर्य प्रथमविसर्जितेनैव कादम्बरीपरिजनेन निर्वर्त्तितस्नानविधिर्निरुपहत <१> <१.निवर्त्तित...> -शिलातलाच्चिताभिमतदैवतः <२> <२....शिलार्च्चित...> क्रीडापर्यतक एव सर्वमाहारादिकमहःकर्म चक्रे ।

क्रमेण च कृताहारः क्रीडापर्वतकप्राग्भागभजि, मनोहारिणि, हारीतहरिते, <३> <३.हरिण...> हरिणीरोमन्थफेनशीकरासारे, सीरायुध-हल-भय-निश्चलकालिन्दी-जलत्विपि, तरुणी-चरणालक्तकरस-शोण-शोचिषि, सुकुमरजः-सिकतिल-तले, तलामण्डपोपगूढे, शिखणिडि-चरणालक्तकरस-शोण-शोचिषि, सुकुमरजः-सिकतिल-तले, लतामण्डपोपगूढे, शिखण्डि-ताण्डव-सङ्गीतगृहे, मरकत-शिलातले समुपविष्टः <४> <४.उपविष्टः> दृष्टवान् सहसैवातिबहलधाम्ना धवलेनालोकेन जलेनेव निर्वाप्यमाणं दिवसम्, मृणालवलयेनेव <५> <५.मृणालधवलेनेव मृणालवनेनेव> पीयमानमातपम्, क्षीरोदेनेव-प्लाव्यमानां महीम्, चन्दनरसवर्षेणेव सिच्यमानान् दिगन्तान् <१> <१.दिगन्तरान्> सुधयेव विलिप्यमानमम्बरतलम् । आसीञ्चास्य मनसि-किमु खलु-भगवनोषधिपतिरकाण्ड <२> <२.भगवनौषधिपतिः, केतकीगर्भपत्रपाण्डुरो भग...> एव शीतांशुरुदितो भवेत्, उत यन्त्रविक्षेपविशीर्यमाण-पाण्डुर-जल-धारा-सहस्राणि <३> <३.पण्डुरधारासहस्राणि पारदरसधाराः जलधाराः> धारागृहामि मुक्तानि, अहोस्विदनिल-विकीर्यमाणशीकर-धवलित-भुवनाम्बरसिन्धुर्धरातलमवतीर्णेति <४> <४.कुतूहलाद्धरातलम्> । कुतूहलाच्च <५> <५.क्वचित् "कुतूहलात्ऽ इति नास्ति> आलोकानुसारप्रहितचक्षुरद्राक्षीत् । अनल्पकन्यकाकदम्बपरिवृतां ध्रियमाणधवलातपत्रामुद्धूयमानचामरद्वयां कादम्बरीप्रतीहार्या <६> <६.कादम्बरीं प्रतीहार्या> वामपाणिना वेत्रलतागर्भेणार्द्र वस्त्रशकलावच्चन्नमुखं चन्दनानुलेपनसनाथं नारिकेल <१> <१.नारिकेर...> -समुद्रकमुद्वहन्त्या दक्षिणकरेण दत्तहस्तावलम्बाम्, केयूरकेण च निश्वासहार्ये <२> <२.निश्वासहार्ये> निर्मोकशुचिनी धौते कल्पलतादुकूले दधता निवेद्यमानमार्गाम्, मालतीकुसुमदामाधिष्ठित-करलतया च तमालिकयानुगम्यमानामागच्छन्तीं मदलेखां तस्याश्च समीपे तरलिकाम्, तया च सितांशुकोपच्छदे पटलके गृहीतं धवलताकारणमिव क्षीरोदस्य, सहभुवमिव चन्द्रमसः, मृणालदण्डमिव नारायणनाभिपुण्डरीकस्य, मन्दरक्षोभविक्षिप्तमिवामृतफेनपिण्डनिकरम्, वासुकिनिर्म्मोकमिप मन्थनश्रमोज्झितम्, हासमिव श्रियः <३> <३.क्वचित् "श्रियऽ इति पदं न दृश्यते> कुलगृहवियोगगलितम्, मन्दर-मथन-विखण्डिताशेष-शशिकला-खण्डसञ्चयमिव संहृतम्, प्रतिमागततारागणमिव <४> <४.प्रतिमातारागणमिव तारागणमिव> जलधि <५> <५.जलनिधि...> -जलादुद्धृतम्, दिग्गज-कर-शीकरासारमिव पुञ्जीभूतम् <१> <१.दिग्गजसीकरासारपुञ्जीभूतम्> , नक्षत्रमालाभरणमिव मदद्विपस्य, शरन्मेघशकलैरिव <२> <२.शरच्छकलैरिव, शरन्मेषशकलैः> कल्पितम्, कादम्बरी-रूप-वशीकृत-कमुनिजन-हृदयैरिव निर्मितम्, गुरुमिव सर्वरत्नानाम्, यशोराशिमिवैकत्र घटितं सर्वसागराणाम् <३> <३.क्वचित् "सर्वसागराणाम्ऽ, इति नावलोक्यते> , प्रतिपक्षाभिव नलिनी-दल-गलज्जलबिन्दु-विलासतरलम्, उत्कण्ठितमिव मृणालवलयधवलकरम्, शरच्छशिनमिव घन-मुक्तांशु-निवह-धवलित-दिङ्मुखम्, मन्दाकिनीप्रवाहमिव <५> <५.मन्दाकिनीमिव> सुरयुवतिकुचपरिमलवाहिनम्, प्रभावर्षिणमतितारं हारम् । दृष्ट्वा चायमस्य चन्द्रापीडश्चन्द्रातपद्युतिमुषः <१> <१....मुखः> धवलिम्नः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण <२> <२.समुचितेन...> धवलिम्नः कारणमिति मनसा निश्चित्य दूरादेव प्रत्युत्थानादिना समुचितोपचारक्रमेण <२> <२.समुचितेन...> मदलेखामापतन्ती <३> <३.आयान्तीम्> प्रतिजग्राह <४> <४.जग्राह> । सा तु तस्मिन्नेव मरकतग्रावणि मुहुर्त्तमुपविश्य स्वयमुत्थाय तेन चन्दनाङ्गरागेणानुलिप्य ते च द्वे दुकूले परिधाप्य तैश्च मालतीकुसुमदामभिरारचितशेखरं कृत्वा तं हारमादाय चन्द्रापीडमुवाच-"कुमार! तवेयमपहस्तिताहङ्कारकान्ता <५> <५.अपद्वसि दिङ्कारकाःता> पेशलता प्रीतिपरवशं <६> <६.परवशं किमिव> जनं कमिव न कारयति? प्रश्रय एव ते ददात्यवकाशमेवंविधानाम् । अनया चाकृत्या कस्यासि न जीवितस्वामी? अनेन चाकारणाविष्कृतवात्सल्येन चरितेन कस्य न बन्धुत्वमध्यारोपयसि? एषा च ते प्रकृतिमधुरा व्यवहृतिः कस्य न वयस्यतामुत्पादयति? कं <७> <७.कस्य> वा न सामाश्वासयन्त्यमी <८> <८.समावासयन्त्यमी> स्वभावसुकुमारवृत्तयो भवद्गुणाः? त्वन्मूर्त्तिरेवात्रोपालम्भमर्हति <१> <१.उपलम्भम्> , या प्रथमदर्शन एव विश्रम्यमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रथमदर्शन एव विश्रम्भमुपजनयति । इतरथा हि त्वद्विधे सकलभुवनप्रथितमहिम्नि प्रयुज्यमानं सर्वमेवानुचितमिवाभाति । तथाहि, सम्भाषणमप्यधःकरणमिवापतति, आदरो ऽपि प्रभुताभिमानमिवानुमापयति, स्तुतिरप्यात्मोत्सेकमिव सूचयति, उपचारोपि, चपलतामिव प्रकाशयति, प्रतीरप्यनात्मज्ञतामिव ज्ञापयति, विज्ञापनापि प्रागल्भ्यमिव जायते <२> <२.ज्ञायते> , सेवापि चापलमिव दृश्यते, दानमपि परिभव इति भवति । अपि च स्वयं गृहीतहृदयाय किं दीयते, जीवितेश्वराय <३> <३.आयत्तजीवितार्थायः> किं प्रतिपाद्यते प्रथमकृतागमनमहोपकारस्य का ते प्रत्युपक्रिया, दर्शनदत्तजीवितफलस्य सफलमागमनं केन ते क्रियते । प्रमयिताञ्चानेन व्यपदेशेन दर्शयति कादम्बरी, न विभवम् । अप्रतिपाद्य हि परस्वता सज्जनविभवानाम् । आस्तां तावद्विभवः, भवादृशस्य दास्यमप्यङ्गीकुर्वाणा नाकार्यकारिणीति नियुज्यते <१> <१.गृह्यते> , दत्त्वात्मानमपि वञ्चिता न भवति, जीवनमप्यर्पयित्वा न पश्चात्तप्यते । प्रणयिजनप्रत्याख्यानपराङ्मुखी च दाक्षिण्यपरवती <२> <२.परवशा> महत्ता सताम् <३> <३.महताम्> । न च तादृशी भवति याचमानानान्, यादृशी ददतां लज्जा, यत्सत्यम् <४> <४.यत्तु सत्यम्> अमुना व्यतिकरेण कृतापराधमिव त्वय्यात्मानमवगच्छति कादम्बरी । तदयममृतमथनसमुद्भूतानां <१> <१.उद्धतानाम्> सर्वरत्नानामेकः शेष <२> <२.एकशेष इति> इति शेषनामा <३> <३.लब्धनामा> हारो ऽमुनैव हेतुना बहुमतो भगवता अम्भसाम्पत्या गृहमुपगन्ताय प्रचेतसे दत्तः, पाशभृतापि गन्धर्वराजाय, गन्धर्वराजेनापि कादम्बर्ये, तयापि त्वद्वपुरस्यानुरूपमाभरणस्येति विभावयन्त्या नभस्तलमेवोचितं सुधासूतेर्धाम <४> <४.सुधास्रुतो धाम्नः> न धरेत्यवधार्य्यानुप्रेषितः । यद्यपि निजगुण <५> <५.गुण...> गणाभरणभूषिताङ्गयष्टयो भवादृशाः क्लेशहेतुमितरजनबहुमतमाभरणभारमङ्गेषु नारोपयन्ति, तथापि कादंम्बरीप्रीतिरत्र कारणम् । किं न कृतमुरसि शिलाशकलं कौस्तुभाभिधानं लक्ष्म्याः सहजमिति बहुमानमाविष्कुर्वता भगवता शार्ङ्गपाणिना <६> <६.शार्ङ्गिणा> ! न च <७> <७.नापि> नारायणो ऽत्रभवन्तमतिरिच्यते, नापि कोस्तुभमणिरणुनापि गुणलवेन शेषमतिशेते न, चापि कादम्बरीमाकारानुकृतिकलयाप्यल्पीयस्या लक्ष्मीरनुगन्तुमलम् । अतोर्ऽहतीयमिमं बहुमानं त्वत्तः । नचाभूमिरेषा प्रीतिप्रसारस्य । नियतञ्च भवता भग्नप्रणया <१> <१.लग्नप्रणया> महाश्वेतामुपालम्भसद्दस्रैः <२> <२.महाश्वेताम्> <३> <३.स्वात्मानम्> खेदयित्वात्मानमुत्स्रक्ष्यति । अतएव महाश्वेता <४> <४.महाश्वेतया> तरलिकामपीमं हारमादाय त्वत्सकाशं प्रेषितवती <५> <५.अनुप्रेषिता> । तयापि कुमारस्य सन्दिष्टमेव "न खलु महाभागेन मनसापि कार्यः कादम्बर्याः प्रथमप्रणयप्रसरभङ्गःऽ इत्युक्त्वा च ताराचक्रमिव चामीकराचलस्य तटे तं तस्य वक्षःस्थले बबन्ध ।

चन्द्रापीडस्तु विस्मयमानः प्रत्यवादीत्-"मदलेखे! किमुच्यते <६> <६.उच्यसे> , निपुणासि, जानासि ग्राहयितुम् <७> <७.कथयितुम्> उत्तरावकाशमपहरन्त्या कृतं वचसि कौशलम् । आये मुग्धे! के वयमात्मनः? के वा वयं ग्रहणस्याग्रहणस्य <१> <१.ग्रहणाग्रहणस्य> वा? गता <२> <२.गता> खल्वियमस्तं कथा । सौजन्यशालिनीभिर्भवतीभिरुपकरमीकृतो ऽयं जनो यथेष्टमिष्टेष् वा <३> <३.अनभीष्टेषु वा> व्यापारेषु विनियुज्यताम् । अतिदक्षिणायाः खलुदेव्याः कादम्बर्याः निर्दक्षिण्यमपि <४> <४.निर्दाक्षिण्या अपि> गुणा न कञ्चिन्न दासीकुर्वन्तिऽ इत्युक्त्वा च कादम्बरीसम्बद्धाभिरेव कथाभिः सुचिरं स्थित्वा विसर्जयाम्बभूव मदलेखाम् ।

अनतिदूरङ्गतायाञ्च <५> <५.अनतिचिरम्> तस्यां क्रीडापर्वतकगतम् <६> <६.क्रीडापर्वतगतम्> उदयगिररिगतमिव <७> <७.उदयगताम्> चन्द्रमसं चन्दनदुकूलहारधवलं चन्द्रापीडं द्रष्टुं समुत्सारित <८> <८.उत्सारित...> -वेत्र-च्छत्र-चामर-चिह्ना निषिद्धाशेषपरिजनानुगमना <९> <९.क्वचित् "अनुगमानाऽ इति पदं न दृश्यते> तमालिकाद्वितीया चित्ररथसुता पुनरपि तेदव सौधशिखरमारुरोह । तत्रस्था च पुनस्तथैव विविध-विलास-तरङ्गितैर्विकारिविलाकितैः <१०> <१०.तरङ्गिभिः, तरङ्गितैर्विलोकितैः, विकारिभिर्विलोकितैः> जहारास्य मनः । तथाहि, <११> <११.ठमुहुर्मुहुःऽ इति क्वचित्> मुहुर्नितम्बबिम्बन्यस्तवामहस्तपल्लवा प्रावृतांशु कानुसार <१> <१.अंसप्रावृत...> प्रसारित-दक्षिमकरा निश्चलतारका लिखितेव, मुहुर्जृम्भिकारम्भदत्तोत्तानकरतलतया तद्गोत्रस्खलनभिया निरुद्धवदनेव <२> <२.गोत्रस्खलनभयनिरुद्धवदनेव> , मुहुरंशुकपल्लव-ताडित-निःश्वासामोद <३> <३...निःश्वासामोदः...> -लुब्ध-मधुकर-मुखरतया प्रस्तुताह्वानेव, मुहरनिलगलितांशुक-सम्भ्रम <४> <४....सम्भ्रमद्विगुणितभुजलतावृतपयोधरतया, संवरणसम्भ्रम...> -द्विगुणीकृतभुजयुगल-प्रावृत-पयोधरतया दत्तालिङ्गनसंज्ञेव, मुहुः केशपाशाकृष्ट-कुसुम-पुरिताञ्जलि-समाघ्राण-लीलया कृतनमस्कारेव, मुहुरुभय-तर्जनी-भ्रमित-तर्जनी-भ्रमित-मुक्ताप्रालम्बतया <५> <५....प्रलम्बतया> निवेदितहृदयोत्कलिकोद्गमेव, मुहुरुपहारकुसुमस्खलन-विधुत-करतलतया <६> <६.करतया> कथितकुसुमायुधशरप्रहारवेदनेव, मुहुर्गलित-रशना-निगड <१> <१....निविड...> -नियमितचरणतया <२> <२.....पतित...> संयम्यार्पितेव मन्मथेन, <३> <३.मुहुर्मुहुर्विचलित> मुहुश्चलितोरुविधृतदुकूला क्षितितलदोलायमानांशुकैकदेशाच्छादितकुचा, चकित-परिवर्त्तन-त्रुट्यत्त्रिवलीलता, <४> <४.समस्त...> अंशस्रस्तचिकुरकला-सङ्कलनाकुल-करकमला <५> <५.करतला> , कटाक्ष-क्षेप-धवलीकृतकर्णोत्पलं <६> <६....कर्णोत्पल...> <७> <७.विलक्ष्यमाणस्मितधूलिधूसरकपोलम्; विलक्षस्मितसुधाधूलिधूसरितैककपोला, विलक्ष्य चास्मितसुधाधुलि...> विलक्षस्मितसुधाधूलि-धूसरितकपोलं साचीकृत्य <८> <८.साची कृतवदनम्...> , वदनमनेकरस-भङ्गि-भङ्गुरं <९> <९.भ्रूभङ्गि...> विलोकयन्ती, तावदवतस्थे यावदुपसंहृता <१०> <१०....उपसंहता...> लोको दिवसो बभूव ।

अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरेः सकल-लोकचक्रवालचक्रवर्त्तिनि <१> <१.सकलचक्रवाकचक्रवालहृदयचक्रवर्त्तिनि, चक्रवालचित्तवर्त्तिनि> भगवति पूष्णि <२> <२.उष्णदोधितौ> , क्रमेण च दिनपरिलम्बनरोषरक्तभिः कामिनीदृष्टिभिरिव संक्रमितशोणिम्नि व्योम्नि, संहृतशोचिषि जाते जरठ-हारीत-हये हरितजिनि, रवि <३> <३.हरितवाजि... जनित> -विरह मीलितसरोज-संहतिषु हरितायमानेषु कमलवनेषु श्वेतायमानेषु कुमुदषण्डेषु <४> <४.तत्कालनिनर्त्तितोपात्तभुजसहस्रविस्तारितसर्वपुरस्कृतगजवम्रणेव> लोहितायमानेषु दिङ्मुखेषु <५> <५.निजसुहृदमृतमूर्त्तिसमालोकनाशया प्रहर्षसन्दर्शितस्मितेष्विवोन्मुखेषु धवलायमानेषु कुमुदखण्डेषु> , नीलायमाने शर्वरीमुखे, शनैः शनैश्च पुनर्दिनश्री-समागमाशाभिरिवानुरागिणीभिः सहैव दीधितिभिरदर्शनतामुपगते भगवति गभस्तिमालिनि, तत्कालविजृम्भितेन च कादम्बरीहृदयरासागरेणेव <१> <१....रागरससागरेणेव> आपूरिते सन्ध्यारागेण जीवलोके, कुसुमायुधानल-दह्यमानहृदय <२> <२....चक्रवाकहृदय....> -सहस्रधूम इव जनितमानिनीनयनवारिणि <३> <३....नयनासारवारिणि> विस्तीर्य्यमाणे तरुणतमालत्विषि तिमिरे, दिक्करि-करावकीर्ण-शीकरासार <४> <४....आकीर्ण....> इव श्वेतायमानतारागणे गगने <५> <५.गगने जाते> , जातायाञ्चादर्शनक्षमायां वेलायां सौधशिखरादवततार कादम्बरी, क्रीडापर्वतकनितम्बाच्च चन्द्रापीडः । ततो ऽचिरादिव <६> <६.नचिरादिव> गृहीतपादः प्रसाद्यमान इव कुमुदिनीभिः, कलुषमुखीः कुपिता इव प्रसादयन्नाशाः, प्रबोधाशङ्कयेव परिहरन् सुप्ताः कमलिनीः, लाञ्छनच्छलेन निशामिव हृदयेन समुद्वहन्, रोहिणीचरणताडनलग्नमलक्त-करसमिवोदयरागं दधानः, तिमिरनीलाम्बरां <१> <१.नीलाम्बरवराम्> दिवमभिसारिकामिवोपसर्पन्ऽ अतिवल्लभतया विकिरन्निव सौभाग्यम्, उदगाद्भगवानीक्षणोत्सवः । उच्छ्रिते <२> <२.उदिते च> च कुसुमायुधाधिराज्यैकातपत्रे कुमुदिनीवधूवरे विभावरीविलासदन्तपत्रे श्वेतभानौ धवलितदिशि, <३> <३.क्वचित् "दन्तिऽ पदं नोपलभ्यते> दन्तिदन्तादिवोत्कीर्णे भुवने, चन्द्रापीडश्चन्द्रातपनिरन्तरतयैव कुमुदमय्या इव <१> <१.कुमुद इव> गृहकुमुदिन्याः कल्लोल-धौत <२> <२.धूत> सुधा-धवल-सोपाने तनु-तरङ्ग-तालवृन्त-वातवाहिनि सुप्तहंसमिथुने, विरह-वाचाल <३> <३....वाचालित...> -चक्रवाक-युगले तीरे, कुमुददलावलीभिः पर्यन्तलिखितदन्तपत्र-लतम् <४> <४....लतादन्तुरम्> , अवदातसिन्दुवारदामोपहारम्, हरिचन्दनरसैः प्रक्षालितम्, कादम्बरीपरिजनोपदिष्टम्, मुक्ताशिलापट्टं चन्द्रशीतलमधिशिश्ये । तत्रस्थस्य चास्यागत्याकथयत् केयूरकः-"देवी कादम्बरी देवं द्रष्टुमागताऽ इति ।

अथ चन्द्रापीडः समम्भ्रममुत्थायागच्छन्तीम्, अल्पसखीजनपरिवृताम्, अपनीताशेषराजचिह्नाम्, इतरामिव, एकावलीमात्राभरणाम्, अच्छाच्छेन चन्दनरसेन धवलीकृततनुलताम्, एककर्णावसक्तदन्तपत्राम्, इन्दुकलाकलिकाकोमलं कर्णपूरीकृतं कुमुददलं दधानाम्, ज्योत्स्नाशुचिनी कल्पद्रुमहुकूले बिभ्रतीम्, तत्कालरमणीयेन वेशेन साक्षादिव चन्द्रोदयदेवताम्, मदलेखया दत्तहस्तावलम्बां कादम्बरीमपश्यत् । आगत्य च सा प्रीतिपेशलतां दर्शयन्ती प्राकृतेव <१> <१.प्राकृते> परिजनोचिते भूतले समुपाविशत् । चन्द्रपीडो ऽपि "कुमार! अध्यास्यतां शिलातलमेवऽ इत्यसकृदनुबध्यमानो ऽपि महदेखया भूमिमेवाभजत । अथ <२> <२.क्वचित् "अथऽ इति न विद्यते> सर्वासु चासीनासु तासु <३> <३.क्वचिच्च "तासुऽ इत्यपि नोपलभ्यते> मुहुर्त्तमिव स्थित्वा वक्तुमुपच्क्रमे चन्द्रापीडः-"देवि! दृष्टिपातमात्रप्रीते <४> <४.दृष्टिमात्रप्रीते> दासजने सम्भाषणादिकस्यापि प्रसादस्य नास्त्यवकाशः, किमुतैतावते ऽनुग्रहस्य । न खलु चिन्तयन्नपि निपुणं तमात्मनो गुणलवमवलोकयामि, यस्यायमनुरूपो ऽनुग्रहातिरेकः । अतिसरला तवेयमपगताभिमानमधुरा च सुजनता, यदभिनवसेवकजने ऽप्येवमनुरुध्यते । प्रायेण <५> <५.क्वचिदिह "चऽकारो ऽधिको दृश्यते> मामुपचारहार्यमदक्षिणं देवी मन्यते । धन्यः खलु परिजनस्ते, यस्योपरि नियन्त्रणा स्यात् । आज्ञासंविभागकरणोचिते भृत्यजने क इवादरः परोपकारोपकरणं शरीरम् <१> <१.शरीरकम्> , तृण-लव-लघु च जीवितमपत्रेपे <२> <२.अपि त्रपे तव प्रतिपत्तावुपायनीकर्त्तुम्, अत्र ये तत् (त्वत्) प्रतिपत्तिभिरुपायनीकर्त्तुमागतास्ते> त्वत्प्रतिपत्तिभिरुपायनीकर्त्तुमागतायास्ते । वयमेतेशरीरमिदमेतज्जीवितमेतानीन्द्रियाणि, एतेषामन्यतरदारोपय <३> <३.अन्यतरमारोपय> परिग्रहेण गरीयस्त्वम्ऽ इति ।

अथैवंवादिनो ऽस्य वचनमाक्षिप्य मदलेखा सस्मितमवादीत्-"कुमार! भवतु, अतियन्त्रणया खिद्यते खलु सखी कादम्बरी <४> <४.सव्रीडा कादम्बरी> , किमर्थञ्चैवमुच्यते, सर्वमिदमन्तरेणापि वचनमनया परिगृहीतम्, किं पुनरमुनोपचारफल्गुना वचसा सन्देहदोलामारोप्यतेऽइति । स्थित्वा च कञ्चित् कालं कृतप्रस्तावा "कथं राजा तारापीडः, कथं देवी विलासवती, कथमार्यः शुकनासः, कीदृशी चोज्जयिनी, कियत्यध्वनि सा च, कीदृग भारतं वर्षम्, रमणीयो वा मर्त्त्यलोकःऽ इत्यशेषं पप्रच्छ । एवंविधाभिश्चान्यभिः कथाभिः सुचिरं स्थित्वोत्थाय कादम्बरी केयूरकं चन्द्रापीडसमीपशायिनं समादिश्य परिजनञ्च, शयनसौधशिखरमारुहोह । तत्र च सितदुकूलवितानतलास्तीर्णं शयनीयमलञ्चकार । चन्द्रपीडो ऽपि तस्मिन्नेव शिलातले निरभिमानतामभिरूपतामतिगभीरताञ्च कादम्बर्याः, निष्कारणवत्सलताञ्च महाश्वेतायाःसुजनताञ्च मदलेखायाः, महानुभावताञ्चः परिजनस्य, अतिसमृद्धिञ्च गन्धर्वराजलोकस्य रम्यताञ्चकिम्पुरुषदेशस्य मनसा भावयन् केयुरकेण संवाह्यमानचरणः क्षणादिव क्षणदां क्षपितवान् । अथ क्रमेण कादम्बरीदर्शन <१> <१....जागरखिन्नः> -प्रजागरखिन्नः स्वप्तुमिव ताल-तमाल-ताली-कदलीकन्दलिनीं <१> <१.अविरल> प्रविरल-कल्लोलानिल-शीतलां वेलावनराजिमवततार तारापतिः । अभ्यर्णविरहविधुरस्य च कामिनीजनस्य निश्वसितैरिव <२> <२.निःश्वसितैरिव> उष्णैर्म्लानिमनीयत चन्द्रिका । चन्द्रापीडविलोकनारुढमदनेव कुमुददलोदरनीतनिशा पङ्कजेषु निपपात लक्ष्मीः । क्षणदापगमे च स्मृत्वा कामिनीकर्णोत्पल-प्रहाराणाम् <३> <३....प्रहारान्, स्मृतकामिनीकर्णोत्पलप्रहारेषु> उत्कण्ठितेष्विव क्षामतां व्रजत्सु पाण्डुतनुषु <४> <४.क्वचिद् "वासऽ इति पदन्न दृश्यते> वासगृहप्रदीपेषु, अनवरतशर-क्षेप-खिन्नानङ्ग-निश्वास <५> <५....निःश्वास...> -विभ्रमेषु <६> <६.भ्रमत्सु> वहत्सु <७> <७.क्वचित् "तरुऽ इतिपदं न विद्यते> तरुलता-कुसुमपरिमलेषु <८> <८.आमोदिषु> प्रभातमातरिश्वसु, मन्दरगिरिलतागृहगमनानि च <१> <१.सुमन्दरलतागृहनानि च> भियेव भजन्तीष्वरुणोदयोपप्लविनीषु तारकासु, क्रमेण च समुद्गते <२> <२.समुद्गतचक्रवाक...> चक्रवाक-हृदय-निवास-लग्नानुरागमिवालोहितं <३> <३.लोहितं> मण्डलमुद्वहनि सवितरि, चन्द्रापीडः शिलातलादुत्थाय प्रक्षालितमुखकमलः कृतसन्ध्यानमस्कृतिर्गृहिताम्बूलः <४> <४.आबद्धशेखरो गृहीतताम्बूलः> ठकेयूरक! विलोकय देवी कादम्बरी प्रबुद्धा न वा, क वा तिष्ठितिऽ <५> <५.अवतिष्ठति> इत्यवोचत् । गतप्रतिननिवृत्तेन च तेन "मन्दरप्रासादस्याधस्तादङ्गनसोधवेदिकायां महाश्वेतया सहावतिष्ठितेऽ इत्यावेदिते गन्धर्वराजतनयामालोकयितुमाजगाम । ददर्श च <६> <६.धवलभस्मललाटिकाभिः> धवलभस्मकृतललाटिकाभिः <७> <७.अक्षमाला...> अक्षमालिका-परिवर्त्तन-प्रचल-करतलाभिः पाशुपतव्रतचारिणीभिर्धातुरागारुणाम्बराभिश्च <८> <८.धारिणीभिः> परिव्राजिकाभिः,-परिणत-तालफल-वल्कल-लोहित-वस्त्राभिश्च रक्तपटव्रतवाहिनीभिः सित-वसननिबिड-निबद्ध-स्तन-परिकराभिश्च श्वेतपटव्यजनाभिः <१> <१....व्यञ्जनाभिः> जटाजिन-मौञ्जी <२> <२.क्वचित् "मौर्ञ्जीऽ पदन्नास्ति> -वल्कलाषाढधारिणीभिर्वर्णिचिह्नाभिस्तापसीभिः, साक्षादिव मन्त्रदेवताभिः पठन्तीभिर्भगवत <३> <३.शौद्धोदनेः> -स्त्र्यम्बकस्याम्बिकायाः कार्त्तिकेयस्य <४> <४.विश्रवस्य> विष्टरश्रवसः कृष्णस्य <५> <५.अर्जुनस्य, जिनस्य> आर्यावलोकितेश्वरस्यार्हतो विरिञ्चस्य <६> <६.विश्रवणस्य, वैश्वदेवस्य मार्त्तण्डस्य विरिञ्चस्य> पुण्याः स्तीतीरुपास्यमानाम्, अन्तःपुराभ्यर्हिताश्च सादरं नमस्कारैराभाषणैरभ्युत्थानैरासन्नवेत्रासनदानैश्च <७> <७.क्वचित् "दर्शनागतेऽति पाठो न विद्यते> दर्शनागतगन्धर्वराजबान्धववृद्धाः समानयन्तीं महाश्वेताम्, पृष्ठतश्च समुपविष्टेन किन्नरमिथुनेन <८> <८....मिथुनकेन> मधुकर <९> <९.क्वचित् "मधुकरऽ इति पदं न दृश्यते> मधुराभ्यां वंशाभ्यां दत्ते ताने <१०> <१०.स्थानके, ताले> कलगिरा गायन्त्या नारददुहित्रा <११> <११....दुहित्रा च सावित्र्या> पठ्यमाने च सर्वमङ्गलमहीयसि महाभारते दत्तावधानाम्, पुरोधृते <१२> <१२.पुरो विधृते परिजनेन> च मणिदर्पणे <१३> <१३.दर्पणे> ताम्बूलराग <१> <१.बहलताम्बूलराग....> -बद्धकृष्णिकान्धकारिताभ्यन्तरं दशनज्योत्स्ना-सिक्तमुन्मृष्ट <२> <२.उत्सृष्ट....> -मधूच्छिष्ट-पट्ट-पाटलमधरं <३> <३....पट्टपाण्डुरमधरं> विलोकयन्तीम्, शैवलतृष्णया-कर्णपूर-शिरीष-प्रेषितोत्तान-विलोचनेन बद्धमण्डलं भ्रमताभवनकलहंसेन प्रभातशशिनेव क्रियमाण-गमन-प्रणाम-प्रदक्षिणां कादम्बरीञ्च । समुपसृत्य कृतनमस्कारस्तस्यामेव सुधावेदिकायां <४> <४.क्वचित् "सुधाऽ इति पदं नावलोक्यते> विन्यस्तमासनं भेजे । स्थित्वा च कञ्चित् कालं महाश्वेताया वदनं विलोक्य स्फुरितकपोलोदरं मन्दस्मितमकरोत् । असौ तु तावतैव विदिताभिप्राया कादम्बरीमब्रवीत्-"सखि! भवत्या गुणैश्चन्द्रापीडश्चन्द्रकान्त इव चन्द्रमयूखैराद्रीकृतो न शक्नोति वक्तुम् । जिगमिषति खलु कुमारः, पृष्ठतो दुःखमविदितवृत्तान्तं राजचक्रमास्ते । अपि च युवयोर्दूरस्थितयोरपि स्थितेयमिदानीं कमलिनीकमलबान्धवयोरिव कुमुदिनीकुमुदनाथयोरिव प्रीतिराप्रलयात् । अतो ऽभ्यनुजानातु <१> <१.अनुजानातु> भवतीऽ इति । अथ कादम्बरी "सखिऽ <२> <२.सखि स्वाधीनः> ! महाश्वेते! स्वाधीनो ऽयं सपरिजनो जनः कुमारस्य स्व इवान्तरात्मा, क इवात्रानुरोधःऽ इत्यभिधाय प्रथमं महाश्वेताम्, ततः कादम्बरीम्, तस्याश्च प्रेमस्निग्धेन चक्षुषा मनसा च गृह्यमाणः-"देवि! किं ब्रवीमि, बहुभाषिणः <३> <३.बहुभाषिमे! । न श्रद्दधाति लोकः, स्मर्त्तव्यो ऽस्मि परिजनकथासुऽ इत्यभिधाय कन्यकान्तःपुरान्निर्जगाम कादम्बरीवर्जः अशेषः कन्यकाजनो <४> <४....वर्जो ऽवशेषः वर्जमशेषकन्यकाजनः, वर्जमशेषस्तु कन्याजनः> गुणगौरवाकृष्टः परवश इव तं व्रजन्तमाबहिस्तोरणादनुवव्राज । निवृत्ते च कन्यकाजने केयूरकेणोपनीतं वाजिनमारुह्य <१> <१.अधिरुह्य> गन्धर्वकुमारकैस्तैरनुगम्यमानो हेमकूटात् प्रवृत्तो गन्तुम् । गच्चतश्चास्य चित्ररथतनया न केवलमन्तबहिरपि सैव सर्वाशानिबन्धनमासीत् । तथाहि, तन्मयेव मानसेनासह्यविरहदुःखानुशयलग्नामिव पृष्ठतः, कृतमार्गगमननिरोधामिव पुरस्तात्, वियोगाकुलहृदयोत्कलिकावेशोत्क्षिप्तामिव <२> <२....आवेशक्षिप्तामिव आवेशविक्षिप्तामिव> नभसि, सम्यगालोकयितुं वदनं विरहातुरमानसामिवावस्थितामुरःस्थले, तामेव मृगलोचनां <३> <३.क्वचित् "मृगलोचनाम्ऽ इति पदन्न विद्यते> ददर्श । क्रमेण च प्राप्य महाश्वेताश्रममच्छोदसरस्तीरे सन्निविष्टमिन्द्रायुधखुरपुटानुसारेणैवागतमात्मस्कन्धावारमपश्यत् । निवर्तिताशेषगन्धर्वकुमारश्च सानन्देन सकुतूहलेन सविस्मयेन च स्कन्धावारवर्तिना जनेन प्रणम्यमानः स्वभवनं विवेश । सम्मनिताशेषराजलोकश्च <१> <१.संमानितप्रत्यक्षीकृताशेषः...संभावितप्रत्यक्षीकृतराजसंमानितराज...> वैशम्पायनेन पत्रलेखया च सह "एवं महाश्वेता, एवं कादम्बरी, एवं मदलेखा, एवं तमालिका, एवं केयूरकःऽ इत्यनयैव कथया प्रायो दिवसमनैषीत् । कादम्बरीरूपदर्शनद्विष्टयेव <२> <२....विद्विष्टेव> नास्य पुरेल <३> <३.पुरे> प्रीतिमकरोत् राजलक्ष्मीः । तामेव च धवलेक्षणामाबद्धरणरणकेन चेतसा चिन्तयतो जाग्रत एवास्य सा <४> <४.क्वचित् "सेऽति न विद्यते> जगाम रात्रिः । अपरेद्युश्च समुत्थिते भगवति रवौ, आस्थानमण्डपगतस्तद्गतेनेव मनसा सहसैव प्रतीहारेण सह प्रविशन्तं <५> <५.संप्रविशन्तम्> केयूरकं ददर्श । दूरादेव च क्षितितलस्पशिंना मौलिना कृतपादपतनम्, "एह्येहिऽ इत्युक्त्वा प्रथममाङ्गविसर्पिणा चक्षुषा, ततो हृदयेन, ततो रोमोद्गमेन, पश्चाद्भुजाभ्यां प्रधावितः प्रसृतम् <६> <६.निभृतम्, प्रथितम्, पथि तमा...> आलिलिङ्ग गाढम् । <७> <७.समुपावेशयत्> उपावेशयच्चैनमात्मनः समीप एव, पप्रच्छ च स्भितसुधाधवलीकृताक्षरं क्षरत्प्रीतिद्रवमयमिव वचनमादृतः "केयूरक! कथय कुशलिनी देवी ससखीजना सपरिजना कादम्बरी, भगवती महाश्वेता चऽ इति असौ तु तेन राजसूनोः प्रीतिप्रकर्षजन्मना स्मितेनैव स्नपित इवानुलिप्त इव सद्य एवापगताध्वखेदः प्रणम्यादृततरमवोचत् <१> <१.आदृततरमेवावोचत्> -ठअद्य कुशलिनी, यामेवं देवः पृच्छतिऽ इत्यभिधायापनीयार्द्रवस्त्रावगुण्ठितं <२> <२.आर्द्रकर्पटावगुण्ठितम्, आर्द्रवस्त्रकर्पटावगुण्ठितम्> बिससूत्रसंयतमुखमार्द्रचन्दन-पङ्कन्यस्त-बाल-मृणाल-वलय-मुद्रं नलिनीपत्रपुटमदर्शयत् । उद्घाट्य च तत्र कादम्बरीप्रहितान्यभिज्ञानान्यदर्शयत् । तद्यथामरकतहरिन्ति व्यपनीतत्वञ्चि चारुमञ्जरीभाञ्जि क्षीरिणि पूगीफलानि, शुककामिनीकपोलपाण्डूनि ताम्बूलीदलानि, हरचन्द्रखण्डस्थूलशकलञ्च कर्पूरम्, अतिबहल-मृगमदामोदमनोहरञ्च मलयजविलेपनम् । अब्रवीच्च-"चूडामणिचुम्बिना <१> <१.क्वचित् "विवरऽ इति पदं नोपलभ्यते> कोमलाङ्गुलिविवरविनिर्गत-लोहितांशुजालेनाञ्जलिना देवमर्चयति देवी कादम्बरी, महाश्वेता च सकण्ठग्रहेण कुशलवचसा, पर्यस्त-शिखण्ड-माणिक्य-ज्येत्स्ना-स्नपित-ललाटेन च नमस्कारेण मदलेखा, क्षितितलघटितसीमन्त-मकरिकाकोटिकोणेन सकलकन्यालोकश्च, सचरणरजःस्पर्शेन च पादप्रणामेन तमालिकाऽ । सन्दिष्टञ्च तव महाश्वेतया--"धन्याः खलु ते, येषां न गतो ऽसि चक्षुषोर्विपयं <२> <२.अविपयं> तथा नाम समक्षं भवतस्ते तुहिनशीतलाश्चन्द्रमया इव गुणा विरहे विवस्वन्मया इव संवृत्ताः <३> <३.विनिवृत्त...> स्पृहयन्ति खलु जनाः कथमपि दैवोपपादितायामृतोत्पत्तिवासरायैवातीतदिवसाय । त्वया वियुक्तं <४> <४.विनिवृत्त...> निवृत्त-महोत्सवालसमिव <५> <५.महोत्सवानन्दम्> वर्त्तते गन्धर्वराजनगरम् । जानासि च मां कृतसकलपरित्यागम्, तथाप्यकारणपक्षपतिनं भवन्तं द्रष्टुमिच्छत्यनिच्छत्यनिच्छन्त्या अपि मे बलादिव हृदयम् । अपि च बलवदस्वस्थशरीरा कादम्बरी, स्मरति च स्मेराननं स्मरहकल्पं त्वाम्, अतः पुनरागमनगौरवेणार्हसीमां गुणवदभिमानिनीं कर्त्तुम् । उदारजनादरो हि अहुमानमारोपयति । अवश्यं सोढव्या चेयमस्मद्विधजन-परिचकदर्थना कुमारेण, भवत्सुजनतैव जनयत्यनुचितसन्देशप्रागल्भ्यम् । एष देवस्य शयनीये विस्मृतः शेषो हारः प्रहितःऽ <१> <१.क्वचित् "प्रहितऽ इति नास्ति> इत्युत्तरीयपटान्तसंयतं सूक्ष्मसूत्रविवर <२> <२.सूक्ष्मवस्त्रविवर...> -निःसृतैरंशुसन्तानैः संसूच्यमानं विमुच्य चामरग्राहिण्याः करे समर्पितवान् । अथ चन्द्रापीडः "महाश्वेताचरणाराधनतपःफलमिदं यदेवं परिजने ऽप्यनुस्मरणादिकं ग्रसादबारमतिमहान्तमारोपयति देवी कादम्बरीऽ इत्युक्त्वा तत्सर्वं शिरसि कृत्वा स्वयमेवे जग्राह । तेन च कादम्बर्याः कपोललावण्येनेव गलितेन, स्मितालोकेनेव <१> <१.स्मितावलोकेनेव> रसतामुपनीतेन, हृदयेनेव द्रुतेनेव गुणगणेनेव निस्यन्दितेन <२> <२.विस्पन्दितेन> स्पर्शवता ह्लादिना सुरभिणा च विलेपनेन विलिप्य तमेव कण्ठे हारमकरोत् । आगृहीतताम्बूलश्च मुहूर्त्तादिवोत्थाय वामबाहुना स्कन्धदेशे समवलम्ब्य <३> <३.अवलम्ब्य> केयूरकम्, ऊर्ध्वस्थित एव कृतयथाक्रियमाणसम्मानमुदितं प्रधानराजलोकं विसृज्य शनैः शनैर्गन्धमादनं करिणं द्रष्टुमयासीत् । तत्र च स्थित्वा क्षणमिव तस्मै स्वयमेव निजनखांशुजालजटिलं समृणालमिव शुष्कशष्पकवलमवकीर्य वल्लभतुरङ्ग <४> <४....तुरङ्गम...> -मन्दुराभिमुखः प्रतस्थे, गच्छंश्चोभयतः किञ्चित् किञ्चिदिव तिर्यग्वलितवदनः परिजनं विलोकयाम्#अबभूव । अथ चित्तज्ञैः प्रतीहारैः प्रतिषिद्धानुगमने निखिले समुत्सारिते परिजने केयूरकद्वितीय एव मन्दुरां प्रविवेश । उत्सारणभयसभ्रान्तलोचनेषु प्रणम्यापसृतेषु मन्दुरापालेषु, इन्द्रायुधस्य पृष्ठावगुण्ठनपटं किञ्चिदेकपार्श्वे <१> <१.इन्द्रायुधपृष्ठावगुण्ठनपटं किञ्जिदेकपार्श्वेगलितं किञ्चिदेकपार्श्वे> गलितं समीकुर्वन्नुत्सारयंश्च कूणितनेत्रत्रिभागस्य <२> <२.कूणितनेत्रत्रिभागां> दृष्टिनिरोधिनीं कुङ्कुमकपिलां केसरसटां खुरधारिणी <३> <३.खुरधोरणी...> -विन्यस्तचरणो लीलामन्दं मन्दुरादारुदत्तदेहभरः सकुतूहलमुवाच-"केयूरक! कथय, मन्निर्गमादारभ्य को वा वृत्तान्तो गन्धर्वराजकुले? केन वा व्यापारेण वासरमतिनीतवी <४> <४.अवसरमतिनीतवती> गन्धर्वराजपुत्री? किं वाकरोन्महाश्वेता? किमभाषत वा मदलेखा? के वाभवन्नालापाः परिजनस्य? भवतो वा को व्यापार आसीत्? आसीद्वा काचिदस्मदाश्रयिणी कथा?ऽ केयूरकस्तु सर्वमाचचक्षे-"देव! श्रूयताम्, निर्गते त्वयि हृदय-सहस्र-प्रयाण-पटहकलकलमिव नूपुरचक्र <५> <५....नव...> -क्वणितेन कन्यकान्तःपुरे <६> <६.कुर्वन्ती> कुर्वति, देवी कादम्बरी सपरिजना सौधशिखरमारुह्य तुरगधूलिरेखाधूसरं देवस्यैव गमनमार्गमालोकितवती । तिरोहितदर्शने च देवे, मदलेखास्कन्धनिक्षिप्तमुखी प्रीत्या तं दुग्धोदधिधवलैः प्लावयन्तीव दृष्टिपातैः, सीतातपत्रापदेशेन शशिनेर्ष्यया निवार्यमाणरविकरस्पर्शा <१> <१....किरणस्पर्शा> सुचिरं तत्रैव स्यितवती । तस्माच्च कथमपि सखेदमवतीर्य क्षणमिवावस्थानमण्डपे <२> <२.आस्थानमण्डपे> स्थित्वोत्थाय स्खलनभियेव निवेद्यमानोपहारकुसुमा शब्दायमानैर्मधुकरैः, जलधारा-धवल-नख-मयूखोन्मुखानामनुगलं <३> <३.अनुपलम्> गलद्भिर्वलयैः कण्ठ बन्धानिवोपपादयन्ती केकारवोद्विग्ना भवनशिखण्डिनाम्, पदे पदे च कुसुमधवलान् करेण गृहलतापल्लवान् <४> <४.क्वचिद् "गृहऽ पदं नास्ति> मनसा च देवस्य गुणगणानवलम्बमाना तमेव क्रीडापर्वतकमागतवती, यत्र स्थितवान् देवः । तमुपेत्य च "देवेनात्र मरकतशिला-मकरिकाप्रणाल-प्रस्रवण-सिच्यमानहरित <१> <१.क्वचित् "हरितऽ इति पदं न दृश्यते> -लतामण्डपे शीकरिणि <२> <२.सीकरिणि> शिलातले स्थितम्, अत्र गन्धोदक-परिमललीनालिजाल-जटिलशिलाप्रदेशे स्नातम्, अत्र कुसुमधूलि-सिकतिले <३> <३.सिकताकर्द्दमनीलगिरि....> गिरि-नदिकातटे <४> <४.गिरिनदीकाननतटे> भगवानच्चितः शूलपाणिः, अत्र ह्रेपित-शशधर-रोचिषि स्फाटिक <५> <५....स्फटिक...> -शिलातले भुक्तम्, अत्र संक्रान्त-चन्दन-रस-लाञ्छने मुक्ताशैलशिलापट्टे <६> <६....शिलापट्टशयनीये> सुप्तम्ऽ इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिह्नानि पश्यन्ती क्षपितवती दिवसम् । दिवसावसाने च कथमपि महाश्वेताप्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिशिलावेश्मन्याहारमकरोत् । अस्तुमुपगते भगवति रवौ, उदितेचन्द्रमसि तत्रैव कञ्चित्कालं स्थित्वा चन्द्रकान्तमयीव चन्द्रोदये प्रत्यार्द्रीकृततनुश्चन्द्रबिम्बप्रवेशभयेनेव करौ कपोलयोः कृत्वा किमपि चिन्दतन्ती, मुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमल-नखनिपतित-शशिप्रतिमाभर-गुरूणीव कृच्छ्रादुद्क्षिपन्ती, लीला-मन्थर-गमन-पटूनि पदानि शय्यागृहमगात् । शयन-निक्षिप्ते <१> <१.क्षिप्त> -गात्रयष्टिश्च, ततः प्रभृति प्रबलया शिरोवेदनया विचेष्टमाना, दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना केनाप्याधिना <२> <२.व्याधिना> मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्द्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उपसि च मामाहूय देवस्य वार्त्ताव्यतिकरोपलम्भाय३> <३.उपालम्भाय> सोपालम्भमादिष्टवतीऽ । <४> <४.क्वचित् "अथऽ इत्यधिकः पाठ उपलभ्यते> चन्द्रापीडस्तदाकर्ण्य जिगमिषुः "अश्वो ऽश्वऽ इत वदन् <५> <५.वदन् पूर्ववृत्तचमत्कृतचेताः> भवनान्निर्ययौ । आरोपितपर्याणञ्च त्वरित-तुरग <६> <६.क्वचित् "तुरगऽ इति नोपलभ्यत> -परिचारकोपनीततमन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावार स्थापयित्वा <१> <१.संत्थापयित्वा> वैशम्पायनम्, अशेषं परिजनं <२> <२.अशेषपरिजनम्> निवर्त्त्य च अन्युरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूटं ययौ । आसाद्य च कादम्बरीभवनद्वारमवततार <३> <३.अवततर तुरगात्> । अवतीर्य च <४> <४.क्वचित् चकारो नास्ति> द्वारपालार्पिततुरङ्गः कादम्बरी-प्रथम-दर्शन-कुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य "क्व देवी कादम्बरी तिष्ठितिऽ इति सम्मुखागतमन्यतमं वर्षवरम् <५> <५.वर्षधरम्> अप्राक्षीत् । कृतप्रणामेन च तेन " देव! मत्तमयूरस्य <६> <६.नृत्यनन्मयूरस्य> क्रीडापर्वतकस्याधस्तात् कमलवनदीघिकातीरे विरेचितं हिमगृहमध्यास्तेऽ इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किञ्चिदध्वानम्, मरकतहरितानां कदलीवानानां <७> <७.कदलदलानाम्> प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श । तेषाञ्च मध्ये निरन्तर-नलिनी-दलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमार्द्रांशुकच्छलेनाच्छोदजलेनेव संवीतम्, वाहुलताविधृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभिश्चैकश्रवणाश्रयेस्ताटङ्कीकृतैः <१> <१.तालङ्कीकृतैः ताडङ्कीकृतैः> केतकीगर्भदलैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारविन्दानि बद्धसौभाग्यपदानीव <२> <२....पट्टानीव> दधानम्, कृतचन्दनबिन्दुविशेषकांश्च दिवापि स्पर्शलोभस्थितेन्दुप्रतिबिम्बानिव कपोलानुद्वहन्तम् <३> <३.कपोलफलकाम्> , अपहृताशेषशिरीपसौभाग्याभिः शैबलमञ्जरीभिः कृतकर्णपूरम्, कर्पूरधूलिधसरेषु मलयज-रस-लव-लुलितेषु <४> <४.ललितेषु> वकुलावलीवलयेषु <५> <५.बकुलावलिषु, कुवलयावलिषु, ललितकुलवलयेषु> स्तनेषु <६> <६.प्रयोधरेषु> न्यस्तनलिनीपत्रप्रावरणम्, अनवरत-चन्दन-चर्च्चा-प्रणयन <७> <७.प्रणय> -पाण्डुरैः सन्ताप-रोष-मृदित-चन्दूकरैरिव <१> <१....आरक्तचन्द्रकरैरिव, सन्तापरोषप्रकटित...> करैः कल्पितमृणालदण्डानि बिसतन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैकुमुदैः कुवलयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुमुमस्तबकैश्चातपत्रीकृतैर्निवारितातपम्, जलदेवतानामिव समूहम्, वरुणाश्रियामिव समूहम्, शरदामिव समाजम्, सरसीनामिव गोष्ठीबन्धनम्, शिशिरोपचारनिपुणं कादम्बर्याः शरीरपरिचारकं <२> <२.शरीरपरिचारिकाप्रायम्> शरीरप्रायं परिजनमद्राक्षीत् । तेन च प्रणम्यमानः पदानखपतनभयादिव <३> <३.पादतलपतन..., पादनखतपनदाहभयादिव> त्वरितापसृतेन दीयमानमार्गः, चन्दनपङ्ककृतवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितस्न्धुवार <४> <४....सिन्दुवार...> -कुसुममम्ञ्जरीचामराणां लम्बितस्थूलमल्लिकामुकुलहाराणामाबद्धलवङ्ग <१> <१.लविङ्ग...> -पल्लव-चन्दन-मालिकानां दोलायमानकुमुददामध्वजानां मृणालवेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव <२> <२....प्रकृतिभिरिव> द्वारपालिकाभिरधिष्ठितानां कदलीतोरणानां तलेन प्रविश्य सर्वन्तो निसृष्टदृष्टिर्दृष्टवान् । क्वचिदुभय-तट-निखात <३> <३....अन्तर्निखात...> -तमालपल्लव-कृत-वनलेखाः कुमुद <४> <४.कुमुदवन...> -धूलि-बालुका-पुलिन-मालिनीश्चन्दनरसेन प्रवर्त्त्यमाना गृहनदिकाः, क्वचिन्निचुल-मञ्जरी-रचित-रक्त-चामराणां जलार्द्र <५> <५.जलार्द्रीकृत> वितानकानां तलेषु ससिन्दूरकुट्टिमेषु <६> <६.सिन्दूर> अस्तीर्यमाणानि रक्तपङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभिर्त्तीनि <७> <७.स्पर्शानुमेयभित्तीनि, स्पर्शानुमेयरम्यस्थितिप्रदेशानि> , स्फटिकभवनानि <८> <८.अभ्र(अभ्रक) भवनानि> क्वचिच्छिरीषपक्ष्मकृतशाद्वलानां मृणालधारागृहाणां शिखरमारोप्यमाणानां धारा-कदम्ब-धूलिधूसरितानां <१> <१....धूसरितानि, ...धूसराणाम्> यन्त्रमयूरकाणां कदम्बकानि, क्वचित् सहकार-रससिक्तैः <२> <२.सहकारतरुसक्तैः> जम्बूपल्लवैराच्छाद्यमानाभ्यन्तराः पर्णशालाः, क्वचित् क्रीडितकृत्रिम-करि-कलभ-यूथकाकुलीक्रियमाणाः काञ्चनकमलिनीकाः <३> <३....कमलिनीकाः> , क्वचिद्-गन्धोदककूपेषु बद्धकाञ्चन-सुधा-पङ्क-कामपीठेषु-स्थूल-विसलता-दण्ड- <४> <४....दण्डारकाणि> घटितारकाणिकृतक <५> <५.कनककेतक..., कृतकेतक...> -केन-जल-जल-द्रोणिकानि <६> <६.दलद्रोणिकानि> कुवलयावलीरज्जुभिर्ग्रथ्यमानानि पत्र <७> <७.कमलपत्र...> -पुट-घटी-यन्त्रकाणि, क्वचित् स्फटिकबलाकावली <८> <८.वलाकावलीः> वान्त-वारिधारा-लिखितेन्द्रायुधाः सञ्चार्यमाणा मायामेघमालाः, क्वचिदुपान्त प्ररूढ <९> <९....रूढ...> -पाण्डु <१०> <१०.क्वचित् "पाण्डुऽ इति पदन्न विद्यते> यवाङ्कुरासु <१> <१.सितरक्त, तरत्तरुण> तरुम-मालती-कुङ्मल-दन्तुरित-तरङ्गासु हरिचन्दन-द्रव-वापिकासु शिशिरीक्रियमाणा हारयष्टीः, क्वचिन्मुक्ताफलक्षोद-रचितालबालकान् अनवरतस्थूल <२> <२.अनवरत-चन्दनस्थूल...> जलबिन्दु-दुद्दिनमुत्सृजतो यन्त्रवृक्षकान्, क्वचिद्विधुत-पक्ष निक्षिप्त-शीकरानीत-नीहारा भ्रमन्तीर्यन्त्रमयीः पत्रशकुनिश्रेणीः, क्वचिन्मधुकर-किङ्किणी-कङ्क्तिपटुतर-रवाबध्यमानाः <३> <३....पटुतरवाध्यमानाः, पटुतरावध्यमानाः> कुसुमदामदोलाः क्वचिदुदरारूढ-निर्गतोन्नाल <४> <४....निर्गतोत्ताल...> -नलिनी-च्छद-च्छादितमुखान् प्रवेश्यमानान् शातकुम्भकुम्भान् <५> <५.शातकुम्भान्> , क्वचिद्धटित-कदली-गर्भस्तम्भदण्डानि बध्यमानानि <६> <६....दण्डनिबध्यमानाचारु...> चारुवंशाकृतीति कुसुमस्तबकातपत्राणि, क्वचित् कर-मृदित-कर्पूर-पल्लव-रसेनाधिवास्यमानानि बिसतन्तुमयान्यंशुकानि, क्वचिल्लवलीफलद्रवेणार्द्रीयमाणान् तृणशून्य <१> <१.तृणशूक...> -मञ्जरीकर्मपूरान्, क्वचिदम्भोजिनी-दल-व्यजनैर्वोज्यमानान् उलपभाजनभाजः <२> <२....भाजान्> शीतौषधिरसान्, अन्यांश्चैवंप्रकारान् शिशिरोपचारोपकरणकल्पनाव्यापारान् <३> <३....परिकल्पनाव्यापारान्> परिजनेन कृतान् क्रियमाणांश्च वीक्षमाणः, हिमगृहकस्य मध्यभागं हृदयामेव हिमवतः जलक्रीडागृहमिव प्रचेतसः, जनमभूमिमिव सर्वचन्द्रकलानाम्, कुलगृहमिव सर्वचन्दनवनदेवतानाम्, प्रभवमिव सर्वचन्द्रमणीनाम्, निवासमिव सर्वमाघमासयामिनीनाम्, सङ्केतसदनमिव संवप्रावृषाम्, ग्रीष्मोष्मापनोदनोद्दंशमिव <४> <४.अपनोदोद्देशमिव> सर्वनिम्नगानाम्, वडवानलसन्तापापनोदननिवासमिव सर्वसागराणाम्, वैद्युत-दहन-दाह-प्रतीकारस्थानमिव सर्वजलधराणाम्, इन्दु-विरह-दुःसह-दिवसातिवाहन-स्थानामेव कुमुदिनीनाम्, हरहुताशनानेर्वापणक्षेत्रमिव मकरध्वजस्य <१> <१.मकरध्वजस्य सदनमिव वनदेवतानाम्> दिनकरकैरपि सर्वतो जलयन्त्र-धारासहस्र-समुत्सारितैरतिशीतस्पर्शभयनिवृत्तैरिव परिहृतम् अनलैरपि कदम्ब-केसरोत्करवाहिभिः कण्टकितैरिवानुगतम्, कदलीबनैरपि पवनचलितदलैर्जाड्यजनितवेपथुभिरिव परिवारितम्, अलिभिरपि कुसुमामोदमदमुखराबद्धदन्तवीणैरिव वाचालितम्, लताभिरपि निरन्तर <२> <२.क्वचित् "निरन्तरऽ इति पदं न दृश्यते> -मधुकर-पटल-जटिलाभिर्गृहीतनीलप्रावरणकाभिरिव विराजितमाससाद । क्रमेण च तत्रान्तर्बहिश्चातिबहलेन पिण्डहार्येणेवोपलिप्यमानो ऽतिशीतलेन स्पर्शेनामन्यतात्मनो मनश्चन्द्रमयम्, कुमुदमयानीन्द्रियाणि, ज्योत्स्नामयान्यङ्गानि, मृणालिकामयीं धियम् । अगणयच्च हारमयान् <१> <१.नीहारमयान्> अर्ककिरणान्, चन्दनमयमातपम्, कर्पूरमयं पवनम्, लदकमयं कालम्, तुषारमयं त्रिभुवनम् । एवंविधस्य च तस्यैकदेशे सखीकदम्बपरिवृताम्, अशेषसरित्परिवारामिव भगवतीं गङ्गां हिमवतो गुहातलगताम् <२> <२.गृहाचलगताम्, महीतले पतिताम्> कुल्याभ्रमि-भ्रमितेन कर्पूररसस्रोतसा कृतपरिवेषाया मृणालदण्डमण्डपिकायास्तले कुसुमशयनमधिशयानाम्, हाराङ्गद-वलय-रशाना-नूपुरैर्मृणालमयैर्निगडैरिव संयतामीर्ष्यया <३> <३.इवेर्ष्यया> मन्मथेन, चन्दनधवले स्पृष्टामिव ललाटे शशलाञ्छनेन, बाष्पवारिवाहिनि चुम्बितामिव चक्षुषि वरुमेन, वर्द्धितनिश्वास <४> <४.निःश्वास...> -मरुति दष्टामिव <५> <५.दृष्टाम्> मुखे मातरिश्वना, सन्तापप्रतप्तेष्वध्यासितामिवाङ्गेषु पतङ्गन <१> <१.अनङ्गेन> , कन्दर्पदाहदीपिते गृहीतामिव हृदये हृतभुजा, स्वेदिनि परिष्वक्तामिव वपुषि जलेन <२> <२.जलदेव> , दैवतैरपि विलुप्यमानसौभाग्यमिव सर्वशः, हृदयेन सह प्रियतमसपीपमिवोपगतैरङ्गैरुपजनितदौर्बल्याम्, आश्यान-चन्दनपाण्डुरञ्च रोमाञ्चमनवरतहारस्पर्शलग्नं मुक्ताफलकिरमपुञ्जम् <३> <३....निकरपुञ्जम्> इवोद्वहन्तीम्, स्वेदशीकरिणीञ्च कपोलपाली पक्षपवनेन वीजयद्भिरनुकम्प्यमानामिवावतं सकुसुममधुकरैः, अवतंस-कुसुम <४> <४.क्वचित् "कुसुमऽ पदं न विद्यते> -मधुकर-रव- <५> <५....रवदव-दहन...> दहनदग्धमिव श्रोत्रमपाङ्गनिर्गतेनाश्रुस्रोतसा सिञ्चन्तीम्, अतिप्रवृत्तस्य चाश्रुमो निर्वाहप्रणालिकामिव कर्पूरकेतकीकलिकां कर्णे कलयन्तीम्, आयत-श्वास-विधुति-तरलितेन च सन्तापभय-पलायमानेन देहप्रभावितानेनेवांशुकेन विमुच्यमानकुचकलसाम्, आपतत्-प्रचलचामर-प्रतिबिम्बश्च <१> <१.आपतत् प्रबलचामरः...., क्वचित्तु चकारो नास्ति> कुचकलसयुगलं प्रियान्तिकगमनौत्सुक्यकृत पक्षमिव करतलेन निरुन्धतीम्, मुहुर्मुहुर्भुजलतया तुषारशिलभञ्जिकामालिङ्गन्तीम्, मुहुः कपोलफलकेन कर्पूरपुत्रिकामाश्लिष्यन्तीम् <२> <२.निरुधन्तीम्> मुहुश्चरणारविन्देन चन्दनपङ्कप्रतियातनामामृशन्तीम् <३> <३.आमृषन्तीम् । आस्पृशन्तीम्> , स्तनसंक्रान्तेनात्ममुखेनापि कुतूहलिनेव परिवृत्य विलोक्यमानाम्, कर्णपूरपल्लवेनापि स्वप्रतिबिम्बपल्लवशायिनाऽ सोत्कण्ठेनेव चुम्ब्यमानकपोलफलकाम्, हारैरपि मुक्तात्मभिर्मदनपरवशैरिव प्रसारितकरैरालिङ्ग्यमानाम्, मणिदर्पणमुरसि निहितं "नोदेतव्यमद्य त्वयाऽ इति जीवितस्पर्शमयं <२> <२.विनोदितव्यमेतत् त्वयाद्य> शपथं शशिनमिव <३> <३.जीवनस्य समयं शशिनम्, जीवनस्पर्शसमयं शशिनम्> कारयन्तीम्, करिमीमिव सम्मुखागतप्रमदवनगन्धवारणप्रसारितकराम्, प्रस्थितामिवानभीष्टदक्षिणवातमृगागमनाम्, मदनाभिषेकवेदिकामिव कमलावृत चन्दनधवलपयोधरकलसावष्टब्धपार्श्वाम्, आकाशकमलिनीमिव स्वच्छाम्बरतलदृश्यमानमृणालकोमलोरुमूलाम्, कुसुमचापलेखामिव <१> <१.कुसुमचापचापलेखामिव> मदनारोपित-गुणकोटिकान्ततराम्, मधुमासदेवतामिव शिशिरहारिणीम्, मधुकरीमिव कुसुममार्गणाकुलाम्, चन्दनविलेपनामनङ्गरागिणीञ्च, ब्रालां <२> <२.कान्ताम्> मन्मथजननीञ्च मृणालिनीमभ्यंर्थिततुषारस्पर्शाञ्च कादम्बरीं व्यलोकयत् । अथ सा यथादर्शनमागत्यागत्य चन्द्रापीडागमनमावेदयन्तं परिजनमुत्तरलतारकेण <१> <१.क्वचित् "तारकेणऽ इत्यनन्तरं "कथयऽ इत्यधिकः पाठो दृश्यते> चक्षुषा विलोक्य <२> <२.क्वचित् "विलोक्यऽ इति पदं नोपलभ्यते> ठकथय किं <३> <३.कथं सम्यक्> सत्यमागतो दृष्टस्त्वया, कियत्यध्वनि क्वासौऽ इति प्रतिमुखं निक्षिप्तनामाक्षरं <४> <४.निक्षिप्तेनाक्षरं, निक्षिप्तेन चक्षुषानक्षरम्> पप्रच्छ । प्रवर्द्धमान <५> <५.वर्द्धमानः> -धवलिम्ना चक्षुषा दृष्ट्वा च सम्मुखमापतन्तं तं दूरादेव वरारोहा, नवग्रहा करिणीवोरुस्तम्भविधृता विचेष्टमानाङ्गी, कृसुमशयनपरिमलोपगतैः परवशा मुखरैर्मधुकरकुलै <६> <६.जालैः> रिवोत्थाप्यमाना <७> <७.आच्छाद्यमाना> , ससम्भ्रमच्युतोत्तरीया <८> <८....उत्तरीयका, उत्तरीयांशुका> हारकिरणानुरसि कर्त्तुमिच्छन्ती, मणिकुट्टिमनिहितेन वामकरतलेन हस्तावलम्बनं निजप्रतिमामिव याचमाना स्रस्त केशकलाप-संयमनश्रमितेन गलत्स्वेदसलिलेन दक्षिणकरेणाभ्युक्ष्येव <१> <१.समभ्युक्ष्येव> आत्मानमर्पयन्ती, चलित <२> <२.वलित...> -त्रिकताम्यत्त्रिवली-तरङ्गीत <३> <३.ताम्रत्रिवली तरङ्गिणी...> -रोमराजितया निष्पीड्यमानेव सर्वरसाननङ्गेन, अन्तःप्रविष्टललाटिका चन्दनरसमिश्रमिव <४> <४....चन्दनरसानिव, ...रसमिश्रम्, सरान्> चक्षुषा <५> <५.चक्षुर्भ्याम्> क्षरन्ती शिशिरमानन्दजलम्, आनन्द <६> <६.नन्द...> -वारिबिन्दुवेणिकया चलितावतंस <७> <७.घटितावतंस> -धूलिधूसरं प्रियप्रतिमाप्रवेशलोभेनेव कपोलफलकं प्रक्षालयन्ती, ललाटिकाचन्दनभरेणेव किञ्चिदधोमुखी तत्क्षणमपाङ्ग-भाग-पुञ्जित <८> <८....युञ्जित...> -तारकया तन्मुखलग्नयेव दीर्घस्य दृष्ट्याकृष्यमाणा कुसुमशयनादुत्तस्थौ । चन्द्रापीडस्तु समुपसृत्य पूर्ववदेव तां महाश्वेताप्रणामपुरःसरं दर्शितविनयः प्रणनाम । कृतप्रतिप्रणामायाञ्च तस्यां पुनस्तस्मिन्नेव कुसुमशयने समुपविष्टायां <१> <१.उपविष्टायां> प्रतिहार्या समुपनीतां <२> <२.उपनीतां> जाम्बूनदमयीमासन्दिकां रोचिष्णु-रत्न-प्रत्युप्तपादां पादेनैवोत्सार्य क्षितावेवोपाविशत् । अथ केयूरकः "देवि! देवस्य चन्द्रापीडस्य प्रसादभूमिरेषा पत्रलेखा नाम ताम्बूलकरङ्कवाहिनीऽ इत्यभिधाय पत्रलेखामदर्शयत् । अथ कादम्बरी दृष्ट्वा ताम् "अहो! मानुषीषु पक्षपातः प्रजापतेःऽ इति चिन्तयाम्बभूव । कृतप्रणामाञ्च तां सादरम् "एह्येहिऽ इत्यभिधायात्मनः समीपे सकुतूहलपरिजनदृश्यमानां <३> <३.सकुतूहलं परिजनेन> पृष्ठतः समुपावेशयम् । दर्शनादेवोपारूढप्रीत्यतिशया च <४> <४.क्वचित् द्विरुक्तिर्नास्ति> मुहुर्मुहुरेनां सोपग्रहं करकिसलयेन पस्पर्श । चन्द्रापीडस्तु सपदिकृतसकलागमनोचितोपचारस्तदवस्थां चित्ररथतनयामालोक्याचिन्तयत्-"अतिदुर्विदग्धं हि मे हृदयमद्यापि न श्रद्दधाति । भवतु, पृच्छामि तावदेनं निपुणालापेनेतिऽ । <१> <१.प्रकाशं वाचम्> प्रकाशमब्रवीत्-"देवि! जानामि <२> <२.जानासि> कामरतिं निमित्तीकृत्य प्रवृत्तो ऽयमविरलसन्तापतीव्रो व्याधिः <३> <३.अविचलसन्तापतन्त्रो व्याधिः> । सुतुनु! सत्यं न तथा त्वामेष व्यथयति यथास्मान् <४> <४.तामयं व्यथयति यथा माम्> । इच्छामि देहदानेनापि <५> <५.अनङ्गदेवतानुभूते> स्वस्थामत्रभवतीं कर्त्तूम् । उत्कम्पिनीमनुकम्पमानस्य कुसुमेषुपीडया पतितामवेक्षमाणस्य पततीव मे हृदयम् । अनङ्गदे तनुभूते <६> <६.अनङ्गदेवतानुभूते> ते भुजलते गाढसन्तापया <७> <७.गाढसन्तापतया> च दृष्ट्या वहसि स्थलकमलिनीमिव <१> <१.स्थलकमलिनीव> रक्ततामरसाम् । दुःखितायाञ्च <२> <२.दुःखितायामपि> त्वयि परिजने ऽपि चानवरतकृताश्रुबिन्दुपातेन वर्त्तते मुक्ताभरणता । गृहाण स्वयंवरार्हाणि <३> <३.क्वचित् "मङ्गलऽ पदं न दृश्यते> मङ्गलप्रसाधनानि । सकुसुमशिलीमुखाहि शोभते नवा लताऽ इति <४> <४.अपि च अनवरत..., परिजनो ऽपि चानवरतकृताश्रुबिन्दुपातेन वर्त्तते । मुक्ताभरणतां गृहाण । ....कुसुमशिलीमुखान्तर्हिता शोभते यथा लता इति> । अथ कादम्बरी बालतया स्वभावमुग्धापि कन्दर्पेणोपदिष्टयेव प्रज्ञया तमशेषसस्याव्यक्तव्याहारसूचितम् <५> <५.अस्य वक्त्रसूचितम्> अर्थं मनसा जग्राह, मनोरथानान्तु तावता भूमिमसम्भावयन्ती शालीनताञ्चावलम्बमाना तूष्णीमेवासीत् । केवलमुत्पादितान्यव्यपदेशा तत्क्षणं तमाननामोदमधुकरपटलान्धकारितं <१> <१....अन्धकारितं मुखं> द्रष्टुमिवस्मितालोकमकरोत् । ततो मदलेखा प्रत्यवादीत्-"कुमार <२> <२.सुकुमार> ! किं कथयामि, दारुणो ऽयमकथनीयः खलु सन्तापः । अपि च <३> <३.सुकुमार...> कुमारभावोपेतायाः किमिवास्या यन्न सन्तापाय । तथाहि, मृणालिन्याः शिशिरकिसलयमपि हुताशनायते, ज्योत्स्नाप्यातपायते, ननु किसलयतावृन्तवातैर्मनसि जायमानं किं न पश्यसि <४> <४.पश्यति> खेदम्? धीरत्वमेव प्राणसन्धारणहेतुरस्याःऽ इति । कादम्बरी तु हृदयेन <५> <५.कादम्बरीहृदयेन> तमेव मदलेखालापमस्य प्रत्युत्तरीचकार । चन्द्रापीडो ऽप्युभयथा धटमानार्थतया सन्देहदोलारूढेनैव चेतसा महाश्वेतया सह प्रीत्युपचयचतुराभिः कथाभिः <१> <१.मधुमालापगर्भाभिः कथाभिः> महान्तं कालं <२> <२.कालञ्च> स्थित्वा तथैव महता यत्नेन मोचयित्वात्मानं स्कन्धावारगमनाय कादम्बरीभवनान्निर्ययौ । निर्गतञ्च तं तुरङ्गममारुरुक्षन्तं पश्चादागत्य केयूरको ऽभिहितवान्-"देव! मदलेखा विज्ञापयति-"देवी कादम्बरी <३> <३.क्वचित् "खलुऽ इत्यधिकः पाठः> प्रथमदर्शनजनितप्रीतिः पत्रलेखां निवर्त्तमानामिच्छति, पश्चाद्यास्यातिऽ इति श्रुत्वा देवः प्रमाणम्ऽ । इत्याकर्ण्य चन्द्रापीडः "केयूरक! धन्या स्पृहणीया च पत्रलेखा, यामेवमनुबध्नाति, दुर्लभो देवीप्रसादः प्रवेश्यताम्ऽ इत्यभिधाय पुनः स्कन्धावारमेवाजगाम <५> <५.अभिजगाम, जगाम> । प्रविशन्नेव पितुः समीपादागतमभिज्ञाततरम् <६> <६.अभिजाततरम्> आलोखहारकमद्राक्षीत् । धृततुरङ्गमश्च प्रीतिविम्फारितेन चक्षुषा दूरादेवापृच्छत्-"अङ्ग! कच्चित् कुशली तातः सह सर्वेण परिजनेन, अम्बा च सर्वान्तपुरैःऽ इति । अथासावुपसृत्य प्रणामानन्तरं-"देव! यथाज्ञापयसिऽ इत्यभिधाय लेखद्वितयमर्पयाम्बभूव । युवराजस्तु शिरसि कृत्वा स्वयमेव च तदुन्मुच्य क्रमशः पपाठ- "स्वस्ति, उज्जयिनीतः सकल-राजन्य-शिखण्ड-शेखरीकृत-चरणारविन्दः परममाहेश्वरो महाराजाधिराजो देवस्तारापीडः सर्वसम्पदामायतनं चन्द्रापीडमुदञ्चच्चारु-चूडामणि-मरीचिचक्र-चुम्बिन्न्युत्तमाङ्गे चुम्बन्नन्दयति । कुशलिन्यः प्रजाः, किन्तु <१> <१.किन्नु> कियानपि कालो भवतो ऽदृष्टस्य <२> <२.दृष्टस्य भवतोत्कृष्टस्य> गतः <३> <३.क्वचित् "गतऽ इति न विद्यते> , बलदुत्कण्ठितं <४> <४.क्वचित् "देवीसमेतम्ऽ इत्यधिकः पाठः> नो हृदयम्, देवी च सहान्तःपुरैर्म्लानिमुपनीता, अतो लेखवाचन-विरतिरेव <५> <५.यतस्ततो लेखवाचनविरतिरेव> प्रयामकालतां <६> <६.प्रयाणकालता, प्रयाणकारणता> नेतव्येऽति <७> <७.क्वचित् "कल्याणिनाऽ इत्यधिकः पाठः> । शुकनासप्रेषिते द्वितीये ऽप्यमुमेवार्थ लिखिलमवाचयत् । अस्मिन्नेवावसरे समुपसृत्य वैशम्पायनो ऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयत् । अथ "यथाज्ञापयति तातःऽ इत्युक्त्वा तथैव <८> <८.तथैव च> तुरगाधिरूढः प्रयाणपट८मवादयत् <९> <९.अदापयत्> । समीपे स्थितञ्च <१०> <१०.समीपस्थितञ्च, समीपावस्थितञ्च> महताश्वीयेन <११> <११.महता श्वेतीयेन> परिवृतं महाबलाधिकृतं बलाहकपुत्रं मेघनादनामानमादिदेश"भवता पत्रलेखया सहागन्तव्यम्, नियतञ्च केयूरकस्तानादायैतावतीं भूमिमागमिष्यति <१> <१.इति> , तन्मुखेन विज्ञाप्या प्रणम्य देवी कादम्बरी नन्वियं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया च <२> <२.क्वचित् चकारो नास्ति> दुर्ग्रहा प्रकृतिर्मर्त्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम् । एवं गच्छता मयात्मनो नीतः स्नेहः कपट-कूट-जालिकताम्, प्रापिता भक्तिरलीक-काकु-करण-कुशलताम्, पातितमुपचारमात्रमधुर <३> <३.उपचारमधुरप्रकाशितमुपचारामा...> -धूर्ततायामात्मार्पणम्, प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम् । आस्तां तावदात्मा, अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता । जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपातिताः <४> <४.अभूमिपाता> व्यर्थाः प्रसादामृतदृष्टयो <५> <५....वृष्टयः> महताम् । न खलु देवीं प्रति प्रबललज्जातिभारमन्थरं मे हृदये यथा महाश्वेतां प्रति । नियतमेनामलीकाध्यारोपमवर्णितास्मद्गुमसम्भारामंस्थानपक्षपातिनीमसकृदुपालप्स्यते देवी । तत् किं करोमि, गरीयसी गुरोराज्ञा प्रभवति <१> <१.प्रभवति हि> देवमात्रकस्य <२> <२.देवमात्रस्य हि देवमात्रकस्य> , हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं <३> <३.दास्यपट्टं> देव्याः । न दत्तमस्याटविकस्य गौल्मिकेनेव <४> <४.आटविकगौल्मिकेनेव, देव्या हस्ते न दत्तमस्याटविकगौल्मिकेनेव> देवीप्रसादेन गन्तुम्, सर्वथा गतो ऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतो ऽसज्जनकथा <५> <५.प्रसङ्गतो जनकथा...> -कीर्त्तनेषु स्मर्त्तव्यः खलु चन्द्रापीडचण्डालः <६> <६.क्वचित् "चण्डालऽ पदं न विद्यते> । मा चैवं मंस्थाः, यथआ जीवन्पुनर्देवीचरणारविन्द-वन्दनानन्दमनुभूय <७> <७....चरणारविन्दमननुभूय> स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्तदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशल कादम्बरीपरिजनः, रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटःऽ इति । एवमादिश्य तम्-"सुहृदादि <१> <१.सुहृदापि> -साधनमक्लेशयता शनैः शनैर्गन्तव्यम् <२> <२.आगन्तव्यम्> इत्युक्त्वा वैशम्पायनं स्कन्धावारभारे <३> <३....भरे> न्ययुङ्क्त स्वयमपि च तथारूढ एव गमनहेला-हर्ष-हेषारवकम्पित-कैलासेन खुर-ताण्डव-खण्डितभुवा कान्त-कुन्त-लता-वनवाहिना तरुण-तुरगप्रायेण <४> <४.खुरपातनताण्डव-खण्डित-भूमण्डलेन तुरगप्रायेण> अश्वसैन्येनानुगम्यमानस्तमेव लेखहारकं पर्याण-लग्नमभिनवकादम्बरीवियोगशून्येनापि हृदयेनोज्जयिनीवार्त्तां <१> <१.उज्जयिनीमार्गं> पृच्छन् प्रतस्थे । क्रमेण चातिप्रवृद्धप्रकाण्ड-पादप-प्रायया, मालिनीलतामण्डपैः <२> <२....मण्डलैः> मण्डलिततरुषण्डया, गजपति <३> <३.वनगजपति...> -पातित-पादप-परिहार-वक्रीकृतमार्गया <४> <४.पथया> , जन <५> <५.अजन...> -जनित-तृण-पर्ण-काष्ठ-कोटि-कूट-प्रकटितवीरपुरुष <६> <६....पुरुषहृदय....> -घातस्थानया, महापादप-भूतलोत्कीर्ण-कान्तार-दुर्गया, तृषित-पथिक-खण्डित-दलोज्झितामलकीफल-निकरया, विकसित-करञ्ज-मञ्जरी <७> <७.कपिकच्छूच्छुरितमञ्जरी> -रजो-विच्छुरित-तटैस्तट-तरु-बद्ध-पाटच्चरकर्पटध्वज <८> <८.तटबद्ध...जरत्कर्पट...> -चिह्नेरिष्टकास्थित <९> <९.इष्टकचित....> -शुष्क-पल्लव-विष्टरानुमित-पथिक-विश्रान्तैर्विश्रान्तकार्पटिक-प्रस्फोटित <१> <१....प्रस्फुटित, स्फोटित...> -चरणधूलि <२> <२.धूलि...> -धूसर-किसलय-लाञ्छितोपकण्ठैः पत्रसङ्करासुरभीकृताशिशिरपङ्किलविवर्णास्वादुजलैर्व्रतति-ग्रन्थि-ग्रथित-पर्णपुट-तृण- <३> <३.तृणोलुपपुलाक...> -चिह्नानुमे <४> <४.अनुमितप्रमेयः> यैर्जरत्कान्तारकूपैरसुलभ-सलिलतया अनभिलपितोद्देशया, मधु-बिन्दु-स्यन्दिसिन्दुवार <५> <५....सिन्धुवार...> -वनराजि-रजोधूसरित-तीराभिश्च कुञ्जकलताजालकैर्जटिलीकृत <६> <६.कुब्जक...> -सैकताभिः अध्वगोत्खात-बालुका कूपिकोपलभ्यमान <७> <७....कृपकोपलभ्यमान...> -कलुष-स्वल्प-सलिलाभिः शुष्क-गिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुट <८> <८.कुक्कुटकुल....> -कौलेयकरटितानुमीयमान-गुल्मगहन-ग्रामटिकया <९> <९.ग्रामया> शून्यया दिवसमटव्या गत्वा, परिणते रविबिम्बे <१०> <१०.परिणतरविबिम्बे> , बिम्बा <११> <११.सन्ध्यारुणा> रुणातपविसरे वासरे, निःशाखीकृत <१> <१.निःशाखीकृतैः> -कदम्ब-शाल्मली-पलाश-बहुलैः शिखर-शेषैक-पल्लव-विडम्बितातपत्रैः पादपैः, ऊर्ध्वस्थित <२> <२.ऊर्ध्वीकृतप्ररोहस्थूलस्थित,...अर्द्धेद्धृतप्ररोहन्मूल-स्थूलस्थाणुग्रन्थि ...> -प्ररोह-स्थूल-स्थाणु-मूल-ग्रन्थि-जटिलैश्च हरिताल-कपिल-पक्ववेणु-विटपपटल-रचित <३> <३.विटपिपटलरचित, विटपिदल...विटपदल..., विटपरचित> -वृतिभिर्मृग-भय-तृणपुरुषकैर्विपाकपाण्डुभिः फलितैः <४> <४.फलिनैः> प्रियङ्गुप्रायैरटवीक्षेत्रैर्विरलीकृते वजप्रदेशे <५> <५.विरलीकृतवनप्रदेशे> चिरप्ररूढस्य <६> <६.दूरत एवाचिर...> रक्तचन्दनतरोरुपरि बद्धम्, सरस-पिशित-पिण्डनिभैरलक्तकैः, अभिनवशोणितारुणेन रक्तचन्दनरसेन चार्द्रमा <७> <७.अभिनवशोणितारुणेन> जिह्वा <८> <८.रसेन आर्द्रजिह्वा...> -लता-लोहिनीभि रक्तपताकाभिः, केशकलापकान्तिना च कृष्ण चामरावचूलेन प्रत्यग्रविशसितानां जीवानामिवावयवैरुपरचित-दण्ड-मण्डनम्, परिणद्ध-वराटक-घटितबुदार्द्धचन्द्र-खण्ड-खचितम्, सुतमहिष-रक्षणावतीर्ण-दिनकरावतारित-शशिनेव विराजितशिखरम्, दोलायित-शृङ्ग-सङ्गि-लोहशृङ्खलावलम्बमान <२> <२....लोहशृङ्खलमाला...> -घर्घर-रव-घोरघण्टया च घटित-केसारि-सटा-रुचिर-चामरया काञ्चनत्रिशूलिकया लिखतनभस्तलम् <३> <३....नभःस्थलम्> , इतस्ततः पथिकपुरुषोपहार-मार्गमिवावलोकयन्तं <४> <४.किञ्चिदध्वानं> महान्तं रक्तध्वजं दूरत-एव ददर्श । तदभिमुखश्च कञ्चिदध्वानं <५> <५.किञ्चिदध्वानं> गत्वा, केतकी-सूची-षण्ड-पाण्डुरेण <६> <६.केतकीसूचित-खण्डपाण्डुना च> वन द्विरद-दन्त-कपाटेन <७> <७.कवाटेन> परिवृताम्, लोहतोरणेन च रक्त <१> <१.नवरक्त...> -चामरावलिपरिकरां कालायस-दर्पणमण्डलमालां शबरमुखमालामिव कपिलकेशभीषणां बिभ्राणेन सनाथीकृतद्वारदेशाम्, अभुमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया <२> <२.रक्तचन्दननिहित> रुधिरारुण-यम-करतलास्फालितेनेव शोणित-लव- <३> <३....नव...> -लोभलोलशिवालिह्यमान <४> <४.शिवालिह्यमान> -लोहितलोचनेन <५> इ५.लोहित> लोहमहिषेणाध्यासिताञ्जनशिलावेदिकाम्, क्वचिद्रक्तोत्पलैः शबरनिपातितानां वनमहिषाणामिव लोचनैः क्वचिदगस्तिकुसुमकुङ्मलैः <६> <६.अगस्तिकुङ्मलैः अगस्त्यतरुकुङ्मलैः> केसरिणामिव करजैः क्वचित् किंशुककुसुमकुङ्मलैः शार्दूलानामिव सरुधिरैर्नखरैः, कृतपुण्यपुष्पप्रकराम् <७> <७....प्रकोपहाराम्> , अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकुटैः पल्लवितामिव सरसजिह्वाच्छोदशतैः कुसुमितामिव रक्तनयनसहस्रैः फलितामिव मुण्डमण्डलैरुपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिरन्तर-निलीन <१> <१.शाखान्तरालनिलीन...> -रक्त-कुक्कुट-कुलैः श्वभयात् <२> <२.कुक्कुटकुलैश्च भयात्...> अकाल-दशित-कुसुमस्तबकैरिव रक्तशोकविटपैर्विभूषिताङ्गनाम्, बलि-रुधिर-पान-तृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्काज्वरकम्पितैरिव कदलिकावनैर्भयोत्कण्ठितैरिव श्रीफलतरुषण्डैस्त्रासोर्द्ध्वकेशैरिव खर्जूरवनैः <३> <३.खर्जूरैः> समन्ताद्गनीकृताम्, विदलित-वन-करि-कुम्भ-विगलित-मुक्ताफलानि रुधिरारुणानि बलि-सिक्थं <१> <१.वनकरिकुम्भविदलितमुक्ताफलानि, विदलितवनकरिकुम्भविगलितरक्तमुक्ताफलानि नवरुधिरारुणावलि> -लुब्ध-मुग्ध-कृकवाकु-ग्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीडद्भिः केशरि-किशोरकैरशून्योददेशाम्, प्रभूत-दर्शनोद्भूत-मृर्च्छापतितेनेव प्रतिबिम्बितेनास्तताम्रेण सवित्रा ताम्रतरीकृतैः <२> <२.अन्तरीकृतैः> क्षतज-जल-प्रवाहैः <३> <३.क्षतजलप्रवाहैः> पिच्छिलीकृताजिराम्, अवलम्बमान-दीप-धूप <४> <४....दीपधूम> -रक्तांशुकेन ग्रथित-शिखि-गल-वलयावलिना <५> <५.वलयावलम्विना> पिष्ट-पिण्ड-पाण्डुरित <६> <६.पिष्टाण्डुरित...> -घन-घण्टामालभारिणा <७> <७.मालाभारिणा> त्रापुष-सिंह-मुख-मध्यस्थित-स्थूल-लोह-कण्टकं दत्त <८> <८....कण्टकदत्त...> -दन्त-दण्डार्गलं लसत्पीतनील <९> <९.गलत्पीतलसत्...> -लोहित-दर्पण <१०> <१०.तर्पण> -स्फुरित-बुद्धबुदमालं कपाटपट्टद्वयं <११> <११.कपाटपटद्वयं> दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्, अन्तःपिण्डिकापीठपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरलक्तक <१> <१....अलक्तकपुटैः, अलक्तकपटैः, अलक्तकरसरक्तपुटैः> -रस-रक्त-पटैरविरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबिम्बानाञ्च शिरश्छेदलग्न-केशजालकानामिव <२> <२.कलापानाम्> <३> <३.असिपरशु...> परशुपट्टिशप्रभृतीनांर जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया <४> <४.बहलबद्ध...> पातालगृहवासिनीम् <५> <५.पातालनिवासिनीम्, पातालगुहावासिनीम्...> इवोपलक्ष्यमाणाम्, रक्तचन्दन-खचित-स्फुरत्फल <६> <६.स्फुरत्फलक> -पल्लव-कलितैश्च बिल्वपत्रदामभि <७> <७.बिल्वदामभिर्ः> -बालकमुण्डप्रालम्बैरिव कृतमण्डनाम् <८> <८.कृतमण्डलाम्> , शोणितताम्र <९> <९.शोणिताताम्र...> , कदम्ब-स्तबक-कृतार्च्चनैश्च पशूपहार-पटह-पटु-रटितरसोल्लसित <१> <१.अविरतपशूपहारपटहपटुरचितरसोत्तम्भित...> रोमाञ्चैवाङ्गैः <२> <२. ...चाङ्गैः> क्रूरतामुद्वहन्तीम्, चारु-चामीकर-पट्ट <३> <३....पट....> -प्रावृतेन च ललाटेन शबर सुन्दरी-रचित-सिन्दूर-तिलक-बिन्दुना <४> <४.दाडिमी....> दाडिम-कर्णपूर-प्रभा-सेक-लोहितायमान-कपोलभित्तिना रुधिर-ताम्बूलारुणिताधरपुटेन भृकुटि-कुटिल-बभ्रु-नयनेन <५> <५.भ्रुकुटिकुटिलभ्रूणा रक्तनयनेन, भृकुटिकुटिलबभ्रुणा रक्तनयनेन, भ्रकुटि...> मुखेन कुसुम्भ-पाटलितदुकूल <६> <६.पाटलित्मुखदुकूल> -कलितया च देहलतया महाकालाभिसारिकावेशविभ्रमं बिभ्रतीम्, सम्पिण्डित-नीलगुग्गुलु <७> <७....गुग्गुल....> धूपधूमारुणीकृताभिश्च प्रचलन्तीभिर्गर्भगृहदीपिकालताभिरङ्गुलीभिरिव <८> <८....विरचिताङ्गुलीभि...> मर्हिषासुरशोणित-लवालोहिनीभिः स्कन्धपीठ-कण्डूयन-चलित-त्रिशूलदण्ड-कृतापराधं वनमहिषमिव तर्जयन्तीम्, <९> <९.प्रवल...> प्रलम्ब-कूर्च्चधरैश्छागैरपि धृतव्रतैरिव, स्फुरदधरपुटैराखुभिरपि जपपरैरिव, कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव <१> <१.प्रतिशयनैरिव> ज्वलित-लोहित-मृर्द्ध-रत्न-रश्मिभिः कृष्णसर्पैरपिशिरोधृतमणिदीपकैरिवाराध्यमानाम्, सर्वतः कठोरवायसगणेन च रटता <२> <२.रुवता> स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूलैः शिराजालकैर्गौधा-गोधिका <३> <३.शिराजलैर्गोधार-...गोधालिकां, गोधारगृहगौधिका गोधारगोधिका> -कृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मी <४> <४.लक्ष्मी> -समुत्खात-लक्षणस्थानैरिव <५> <५.विस्फोटक> विस्फोटव्रणबिन्दुभिः कल्मापितसकलशरीरेण, कर्णावतंससंस्थापितया च चूडया रुद्राक्षमालिकामिव <६> <६.क्वचित् "इवऽ शब्दो नास्ति> दधानेन, अम्बिकापाद-पतन-श्याम-ललाट-वर्द्धमानार्बुदेन <१> <१...बुद्बुदेन> , कुवादि <२> <२.कुवादिक...कुवादी...> -दत्त सिद्धाञ्जनदानस्फुटितैक <३> <३....स्फीटितैक..., सिद्धाञ्जनस्फुटितैक...> -लोचनतया त्रिकालमितरलोचनाञ्जनदानादर <४> <४.आरब्ध> -श्लक्ष्णीकृत-दारुशलाकेन, प्रत्यहङ्कटुकालावु-स्वेद-प्रारब्धदन्तुरताप्रतिकारेण, कथञ्चिदस्थान-दत्तष्टका-प्रहारतया शुष्कैक <५> <५.कथञ्चिच्छुष्क> -भुजोपशान्त-मर्दन-व्यसनेन, उपर्युपर्यविश्रान्त <६> <६.उपर्यविश्रान्त...> -कटुकवर्त्ति-प्रयोग-वर्द्धिततिमिरेण, अश्मभेद-संगृहीत-वराहदंष्ट्रेण, इङ्गुदीकोपकृतौषधाञ्जनसंग्रहेण, सूची-स्यूत-सिरा-सङ्कोचित-वाम-कारङ्गुलिना,कौशेयक-कोपावरण <७> <७.कौशेयकास्तरण...> -क्षतिव्रणितचरणाङ्गुष्टकेन, असम्यक्कृत-रसायनानीताकालज्वरेण, जरां गतेनापि दक्षिमापथाधिराज्यवरप्रार्थना-कदर्थित दुर्गेण, दुःशिक्षित-श्रमणादिष्ट <१> <१....श्रवणादिष्ट...> -तिलकाबद्धविभवप्रत्यशेन, हरित-पत्ररसाङ्गार-मसी <२> <२....मषी....> -मलिन-शम्बूकवाहिना, पट्टिका-लिखित-दुर्गस्तोत्रेण, धूम-रक्तालक्तकाक्षर-तालपत्रकुहक-तन्त्र <३> <३.कुतकुहकतन्त्रयन्त्रमन्त्र> -पुस्तिका-संग्राहिणा, जीर्ण-पाशुपतोपदेश <४> <४.जीर्णमहार्पाशुपतोपदेश> -लिखित-महाकालमतेन, आविर्भूत-निधि-वाद-व्याधिना, सञ्जात-धातुवाद-वायुना, लग्नासुर-विवर-प्रवेश-पिशाचेन, प्रवृत्तयक्ष-कन्यका-कामित्व-मनोरथ-व्यामोहेन, वर्द्धितान्तर्धान-मन्त्रसाधनसंग्रहेण <१> <१....अन्तर्धानमन्त्रसंग्रहेण> , श्रीपर्वताश्चर्यवार्त्तासहस्राभिज्ञेन, असकृदभिमन्त्रित-सिद्धार्थक-प्रहति-प्रधावितैः <२> <२.आहतिधावितैः> पिशआचगृहीतकैः करतलताडन-चिपटीकृत <३> <३....निवडीकृत...> -श्रवणपुटेन <४> <४.श्रवणनासापुटेनाप्ययुक्त> , अविमुक्त <५> <५.अनवमुक्त,...अवमुक्त...> -शैवाभिमानेन, दुर्गृहतालाबुवीणावादनोद्वेजितपथिक-परिहृतेन, दिवसमेव <६> <६.दिवसमशकक्वरणितानुकारिणा स्वरेण> मशकक्वणितानुकारि किमपि कम्पितोमाङ्गं गायता, स्वदेशभाषा-निबद्ध भागीरथी-भक्ति-स्तोत्र-नर्त्तकेन, गृहीत-तुरगब्रह्मचर्यतया अन्यदेशागतोषितासु <७> <७....आगतासु> जरत्प्रव्रजितासु <८> <८.प्रव्राजिकासु> बहुकृत्वः सम्प्रयुक्त-स्त्रीवशीकरणचूर्णेन, अतिरोषणतया कदाचिद् दुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन <९> <९.आखुपुष्पिका...> चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कदाचिन्निवार्यमाणा वास-रुषिताध्वगारब्ध-बहु-बाहुयुद्ध-पात-भग्न पृष्ठकेन <१> <१.कदाचिन्निवार्यमाणासिताध्वगप्रारब्धबहुबाहुयुद्धपातभग्नपृष्ठेन, कदाचिदनवरताभुजाशिखरलोहिना शिरःकम्पनवक्रितभ्रूग्रीवेण> , कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात प्रधावित-स्खलिताधोमुख-पात-स्फुटित शिरःकपालभुग्न-ग्रीवेण, कदाचिज्जनपदकृत <२> <२....जनपदकृत...> -नवागतापरधार्मिकादरमत्सरोद्वद्धात्मना <३> <३....उद्वहात्मना> , निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दमन्द-सञ्चारिणा <४> <४.मन्दं मन्दं सञ्चारिणा> , बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताद्दारिणा, अनेकशः फल-पातन कुपित-वानर-नखोल्लेख-च्छिद्रितनासापुटेन, बहुशः कुसुमावचय-चलित-भ्रमर-सहस्र-दंश-शीर्णोकृत-शरीरेण <१> <१.असारीकृत...> , सहस्रशः शयनीकृतासंरकृत-शून्यदेवकुल-कालसर्पदष्टेन, शतशः श्रीफलतरु-शिखर-च्युति-चूर्णितोत्तमाङ्गेन, असकृदुत्सन्न-देवमातृ-गृह-वास्यृक्ष-नख <२> <२....वासिऋक्षनख...> जर्जरित-कपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्त-खण्ड-खट्वारोपित-वृद्धदासी-विवाह-प्राप्तविडम्बनेन, अनेकायतन-प्रतिशयित-निष्फलोत्थानेन, दौःस्थित्यमिपि <३> <३.दौस्थित्यमपि> विविध-व्याधि-परिवृतं स्वकुटुम्बमिवोद्वहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्रोधमप्यनेकदण्डाघात <४> <४....अभिघात....> -निर्मितबहुगात्रगण्डकं <५> <५....गण्डूकं> फलितमिव प्रकाशयता, क्लेशमपि सर्वावयवज्वलिदीपिका-दाह-व्रण-विभावितं बहुमुखमिव प्रकटयता, परिभवमपि निष्कारणाक्रुष्ट <१> <१....आकृष्ट...> -जनपददत्त-पदाकृष्टि-शत-सम्प्रवाहमिव <२> <२....शतं प्रवाहमिव, ...शतं सप्रवाहमिव> दधानेन, शुष्कवनलता-विनिर्मित-बृहतसुसुमकरण्डकेन, वेणुलता-रचित-पुष्प-पातनाङ्कुशिकेन, क्षणमप्यमुक्त-काल-कम्बल-खण्डखेलेन <३> <३.क्षणमप्यामुक्तकालकम्बलखण्डलोलेन> , जरद्द्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरोचयत् <४> <४.आवासम् अरचयत्> । अथावतीर्य तुरगात् प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः प्रणम्य <५> <५.प्रशस्तदेशदर्शन> प्रशान्तोद्देशदर्शनकुतूहलेन परिभ्रमन्नुच्चैरारटन्तमाक्रोशन्तञ्च कुपितं द्रविडधार्म्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानो ऽपि सुचिरं जहास । न्यवारयच्च तेन सार्द्ध प्रराब्धकलहान् <१> <१.संरब्धकलहान्, समारब्धक...> उपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय क्रमेम जन्मभूमिं जातिं विद्याञ्च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम्, अतीत-स्वशौर्यरूपविभववर्णनवाचालेन तेन <२> <२.अतीतस्वसौन्दर्यरूपविभववर्मनावाचालेन> सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य विनोदनतामिवागात् <३> <३.तच्चरितं विनोदनताम्> । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् । अस्तमुपगते च भगवति सप्तसप्तौ, आवासितेषु यथासम्पन्न-पादपतलेषु राजसूनुषु, शाखांवसक्तापनीतपर्यणेषु <४> <४.शाखावसक्ततपनीयपर्याणेषु> क्षितितल-लुण्ठनपांशुल <५> <५....लुठन> -सटावधूननानुमितोत्साहेषु गृहीत-कतिपय-शष्प-कवलेषु पीतोदकेषु स्नानार्द्रपृष्ठतया विगतश्रममेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजि-समीप-विरचित-पर्णसंस्तरे <१> <१....प्रस्तरे, स्रस्तरे> च दिवस-गमन-खिन्न <२> <२.खिन्नेषु> -परिवर्त्तितयामिके <३> <३....परिकल्पितयामिके> सुषुप्सति सैनिकजने, कृत-बहु-पावकप्रभा-पीत-तमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहार <५> <५....प्रतिहार...> -निवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम्, अरतिगृहीतश्च विसर्जयाम्बभूव राजलोकम्, अतिवल्लभानपि नाललाप पार्श्वस्थान्, निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किम्पुरुषविषयम्, अनन्येचताः सस्मार हेमकूटस्य <६> <६.उत्कण्ठितो ऽचिन्तयत्> , निष्कारण- <७> <७.उत्कण्ठितो ऽचिन्तयत्> बान्धवतामचिन्तयन्महाश्वेतापादानाम् <८> <८.प्रसादानाम्> , जीवितफलमभिललाष <९> <९.जीवितमिव> पुनः पुनः कादम्बरीदर्शनम्, अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय, तमालिकां द्रष्टुमाचकाङ्क्षः, केयूरकागमनमुत्प्रैक्षत, हिमगृहकमपश्यत्, <१> <१....प्रस्तरे, स्रस्तरे> उष्णमायतं पुनरुक्तं <२> <२.मुहुर्निशश्वास> निशश्वास बबन्ध चाधिकां <३> <३.बबन्ध बान्धववेभ्यश्चाधिकां> प्रीति शेषहारे, पश्चात् स्थितां पुण्यभागिनीममन्यत पत्रलेखाम्, एवञ्चानुपजातनिद्र एव तामनयन्निशाम् । उवसि चोत्थाय तस्य जरद्द्रविडधार्मिकस्येच्छया <४> <४.स्वेच्छाविसृष्टः> निसृष्टैर्धनविसरैः पूरयित्वा मनोरथम्, <५> <५.मनोरथानभिमतेष्वतिरमणीयेषु मनोरथमभिमतेष्व...> अभिमतमभिरमणीयेषु प्रदेशेषु निवसन्नल्पैरेवाहोभिरुज्जयनीमाजगाम । आकस्मिकागमनप्रहृष्टसम्भ्रान्तानां पौराणामर्घकमलानीव नमस्काराञ्जलिसहस्राणि प्रतीच्छन्नतर्कित एव विवेश <६> <६.अविवेश> नगरीम् । अहमहमिकया च प्रधावितादतिहर्षरसविह्वलात् परिजनात् <७> <७.प्रधावितानतिरभसहर्षविह्वलान् परिजनान्> -ठदेव! द्वारि चन्द्रापीडो वर्त्ततेऽ इत्युपलभ्यास्य पिता निर्भरानन्दमन्दगमनो मन्दर इव क्षीरोदजलमुत्तरीयांशुकममलमागलितमाकर्षन्, प्रहर्षनेत्रजलबिन्दुवर्षी <८> <८.क्वचित् मुक्तपदं नास्ति> मुक्तमुक्ताफलासार इव कल्पपादपः, प्रत्यासन्नवर्त्तिभिर्जरापाण्डुमौलिभिश्चन्दनविलेपनैरनुपहतक्षौमधारिभिः <१> <१.धारिमिर्हारिभिः> केयूरिभिरुष्णीषिभिः किरीटिभिः शेखरिभिर्बहुकैलासामिव बहुक्षीरोदामिव क्षितिं दर्शयद्भिः प्रतिपन्नासि-वेत्र-च्छत्र-केतु-चामरैरनुगम्यमानो राजसहस्रैश्चरणाभ्यामेव प्रत्युज्जगाम । <२> <२.क्वचित् "चन्द्रपीडो ऽपीऽति नोपलभ्यते> चन्द्रापीडो ऽपि <३> <३.दृष्ट्वा च> दृष्ट्वा पितरं दूरादेवावतीर्य वाजिनश्चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन "एह्येहिऽ <४> <४.आदरादाहूय> इत्याहूय पित्रा <५> <५.सुचिरं गाढमुपगूढः> गाढमुपगूढः सुचिरं परिष्वज्य तत्कालसन्निहितानाञ्च <६> <६.माननीयाममात्यानां महीपतिनां च> माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया <७> <७.प्रत्युद्गमाभिनन्दितागमनः> प्रत्युद्गम्याभिनन्दितागमनः कृतागमनमङ्गलाचारो दिग्विजयसम्बद्धाभिरेव कथाभिः कञ्चित्कालं स्थित्वा शुकनासं द्रष्टुमाययौ । तत्राप्य मुनैव क्रमेण सुचिरं स्थित्वा निवेद्य वैशम्पायनं स्कन्धावारवर्त्तनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश इव क्रिया निरवर्त्तयत् । अपराह्णे निजमेव भवनम् अयासीत् । तत्र च रणरणक-खिद्यमान-मानसः कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तीनगरं वा सकलमेव महीमण्डलं शून्यममन्यत । ततो गन्धर्वराजपुत्रीवार्त्ताश्रवणोत्सुकश्च महोत्सवमिवर् इप्सितवरप्राप्तिकालमिव अमृतोत्पत्तिसमयमिव पत्रलेखागमनं प्रत्यपालयत् । ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत्, उपानयच्चैनाम् । कृतनमस्काराञ्च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः प्रकृतिवल्लभामपि कादम्बरीसकाशात् प्रसादलब्धापरसौभाग्यामिव वल्लभतरतामुपागतामुत्थायातिशयदर्शितादरमालिलिङ्ग पत्रलेखाम्, मेघनादञ्च प्रणतं पृष्टे करकिसलयेन पस्पर्श । समुपविष्टश्च <१> <१.समपविष्टश्च समुपविष्टां च, समुपविष्टां च ताम्> अब्रवीत्-"पत्रलेखे! कथय, तत्रभवत्या महाश्वेतायाः समदलेखाया देव्याः कादम्बर्याश्च कुशली वा सकलः तमालिका-केयूरकादि <१> <१.केयूरकादिः, केयूरकादिकः> परिजनः?ऽ इति । साब्रवीत्-"देव! यथाज्ञापयसि भद्रम् । त्वामर्च्चयति <२> <२.त्वामेव> शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरीऽ इति । एवमुक्तवतीं पत्रलेखामादाय मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन् कुतूहलम्, अतिप्रीत्या दूरमुत्सारितपरिजनः प्रविश्यागारप्ररूढायाः <३> <३.अगारमचिरप्ररूढायाः> स्थलकमलिन्याः पृथुभिरुन्नालैः षलाशैरुपरचितातपत्रकृत्यायाः <४> <४.विरचितातपत्रकृत्यस्य> अध्यास्य मधअयभागमन्यतरस्य मरकतपताकायमानस्य पत्रमण्डपस्य <५> <५.शयनमण्डपस्य तालस्य तले> तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत्-"पत्रलेखे! कथय, आगते मयि <६> <६.क्वचित् "आगते मयीऽति पाठो न विद्यते> कथमसि स्थिता? कियन्ति वा दिनानि? को वातिशयेनास्मान् स्मरति <७> <७.यो वातिशयेन तव स्मरति यस्य वा त्वयि गरीयसी प्रीतिरस्तीति> ? कस्य वा <८> <८.इह "मयीऽ इत्यधिकः पाठः> गरीयसी प्रीतिःऽ इति । एवं पृष्टा च व्यजिज्ञपत्-"देव! दत्तावधानेन श्र्यताम्, यथा स्थितास्मि, यावन्ति वा दिनानि, यादृशो वा देवीप्रसादः, यथा बा गोष्ठ्यः समभवन्, यादृश्यश्च कथाः समजायन्त, यो वातिशयेन तव स्मरति, यस्य वा त्वयि गरीयसी प्रीतिरस्तीऽति । "ततः खल्वागते देवे केयूरकेण सह प्रतिनिवृत्याहं <१> <१.प्रतिनिवृत्ता> तथैव कुसुमशयनीयसमीपे समुपाविशम्, अतिष्ठञ्च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना, प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः <२> <२.करपल्लवम्> , नामाक्षरेषु वाणो, प्रीतौहृदयं देठयाः सकलमेव तं दिवसमभवत् अपराह्ले च मामेवावलम्ब्य निष्क्रम्य हिमगृहकात् सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र सुधाधवलां कालिन्दीजलतरङ्गमय्येव मरकतसोपानमालया प्रमदवनवेदिकामध्यारोहत् <३> <३.आरुहोह> । तस्याञ्च मणिस्तम्भावष्टम्भस्थिता <४> <४.आलोकयन्त्येव> स्थित्वा च मुहूर्त्तमिव हृदयेन सह दीर्घकालमवधार्य किमपि व्याहर्त्तुमिच्छन्ती निश्चलधृततारकेण निष्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् । विलोकयन्त्येव <५> <५.आलोकयन्त्येव> च कृतसङ्कल्प मदनाग्निं प्रवेष्टुमिच्छन्ती सस्नाविव स्वेदाम्भसः स्नोतसि <१> <१.स्वेदाम्भःस्रोतसि> , स्रोतसेव तरलीकृता समकम्पत, कम्पिताङ्गी च पतनमियेवागृह्यत विषादेन । अथ मया विदिताभिप्रायया तन्मुख-विनिवेशित-निष्कम्प-नयन-दत्तावधानया "आज्ञापयऽ इति विज्ञापिते निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जया आत्मप्रतिमामपि <२> <२.मत्प्रतिमाम्> लिखित-मणिकुट्टिमेन चरणाङ्गुष्ठेनापक्रमायेवामृशन्ती, भवनकलहंसान् कुट्टिमोल्लेखमुखर-नूपुरेण चरणारविन्देन विसर्जयन्ती, कर्णोत्पलमधुकरानपि स्विद्यद्वदनव्यजनीकृतेन <३> <३.स्विद्यद्वदनब्यजनक्षिप्तेन> अषुतरस्सवेनोत्सारयन्ती, ताम्बूलवीटिकाशकलमुत्कोचामिव दन्तखण्डितं शिखण्डिने ददती, <४> <४.उपवनल...> वनदेवताश्रवणशङ्कितेव मुहुर्मुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्मकिञ्चिदपि लज्जाकलितगद्गदा <१> <१.लज्जाकुलितगद्गदतया> गदितुम् । प्रयत्नतो ऽपि चास्या <२> <२.क्वचित् "अस्याःऽ इति पदं न विद्यते> निःशेषं ज्वलता मदनानलेनेव दग्धा <३> <३.दग्ध्वा> , प्रवहता नयनोदकेनेवोढा, प्रविशद्भिर्दुःखैरिवाक्रान्ता, पतद्भिः कुसुमचापशरैरिव शकलीकृता <४> <४.कीलिता> , निष्पतद्भिर्निश्वसितैरिव <५> <५.निःश्वसितैरिव, श्वसितैरिव> निर्वासिता, हृदयवर्त्तिभिश्चिन्ताशतैरिव विधृता <६> <६.आवृता> , निश्वासपायिभिः <७> <७.निःश्वासपायिभिः, निश्वासपातिभिः> मधुकरकुलैरिव निपीता, न प्रावर्त्तत वाणी । केवलं दुःखसहस्रगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुद्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव <८> <८.लज्जापि लज्जां लीलापि लीलां विनयोपदेशम्> लज्जापि लज्जालीलाम्, विनयो ऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विभ्रमो ऽपि विभ्रमिताम्, विषादो ऽपि विषादिताम्, विलासो ऽपि विलासम् । तथाभूता च "देवि! किमिदम्ऽ इति विज्ञापिता मया प्रमृज्य लोहितायमानोदरे लोचने दुःखप्रकर्षेणात्मनः समुद्वन्धनायेव मृणालकोमलया बाहुलतया वेदिकाकुसुमपालिकाग्रथित-कुसुममालामवलम्ब्य समुन्नतैकभ्रलता मृत्युमार्गम् <१> <१.मृत्युपाशम्> इवावलोकयन्ती दीर्घमुष्णञ्च निश्वसितवतो । तद्दुःखमुत्प्रेक्षमाणया च <२> <२.तद्दुःककारणं ततो दुःख> कथनाय पुनः पुनरनुबध्यमाना मया व्रीडया नखमुख-विलिखितकेतकीदला <३> <३....विलिखितैककेतकीदला> लिखित्वेव वक्तव्यमर्पयन्ती विवक्षास्फुरिताधरा निश्वासमधुकरानिवोपांशु सन्दिशन्ती क्षितितल-निहित-निश्चल-नयना सुचिरमतिष्टत् । क्रमेण च भूयो मन्मुखे निधाय दृष्टिं पुनः <४> <४.पुरनथापूर्यमाण> पुनरप्यापूर्यमाणलोचनच्युतैर्मदनानलधूमधूसरां वाचमिव प्रक्षालयन्ती बाष्पजलबिन्दुभिः, बाष्पजलबिन्दुव्याजेन च विलक्ष-स्मितस्फुरितैर्दशनांशुभिः साध्वस-विस्मृतान् पूर्वान् <१> <१.अपूर्वान्> अभिधेयवर्णानिव ग्रथ्नतो कथमपि व्यादाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम्-"पत्रलेखे! वल्लभतया तस्मिन्न स्थाने न तातो नाम्बा न महाश्वेता न मदलेखा न जीवितम्, यत्र मे भवतीदर्शनात्प्रभृति प्रियासि । न जाने केनापि कारणेनापहस्तित <२> <२.अप्रहस्तित...> -सकलसखीजनं त्वयि विश्वसिति <३> <३.निःश्वसिति> मे हृदयम् । कमपरमुपालभे, कस्य वान्यस्य कथयापि परिभवम्, केन वान्येन साधारणीकरणीकरोमि दुःखम् । दुःखभारमिममसह्यम्द्य <४> <४.क्वचित् दुःखभारमसह्यम्ऽ इत्येव पाठः> निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते, स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतान्यहृदयेन । कथमिव मादृशीरजनिकर-किरणावदातं कौलीनेन <१> <१.कालीनच> कलङ्कयिष्यति कुलम्, कुलक्रमागताञ्च लज्जां परित्यक्ष्यति, अकन्यकोचिते <२> <२.अन्यकन्यकोचिते, अन्यकन्यकाजनोचिते> वा चापले चेतः प्रवर्त्तयिष्यति । साहं न सङ्कल्पिता पित्रा, न दत्ता मात्रा <३> <३.सा चाहमसंकल्पिता मात्रा पित्रा न दत्ता> , नानुमोदिता गुरुभिः, त किंञ्चित् सन्दिशामि, न किञ्चित् प्रेषयामि, नाकारं दर्शयामि, कातरेव <४> <४.कातरा च इतरेव> अनाथेव नीचेव <५> <५.कातरा चानाथेन> बलादवलिप्तेन <६> <६.अविलिप्तेव> गुरुगर्हणीयतां <७> <७.गुर्वी गर्हणीयताम्> नीता कुमारेण चन्द्रापीडेन । कथय, महतां किमयमाचारः, किं परिचयस्येदं फलम्, यदेवमभिनव-बिस-किसलय-तन्तु-सुकुमारं मे मनः परिभूयते । अपरिभवनीयो <८> <८.अनभिभवनीयः परिभवनीयः> हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो-हृदयम् । आदौ विनयादिकं कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि । तदामन्त्रयेभवतीं पुनर्जन्मान्तरसमागमाय, नहि मे त्वत्तो ऽन्ता प्रियतरा । प्राणपरित्यागप्रायश्चित्तेन प्रक्षालयाम्यात्मनः कलङ्कम्ऽ । इत्यभिधाय तूष्णीमभूत् । अहन्तु यत्सत्यमविदितबृत्तान्ततया ह्रितेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती-"देवि! श्रोतुमिच्छामि, आज्ञापय किं कृतं देवेन चन्द्रापीडेन, को वापराधः समजनि, केन वा खल्वविनयेव खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः? । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि पश्चात् समुत्स्रक्ष्यति देवी जीवितम्ऽ <१> <१.समुत्स्रक्ष्यामि जीवितम्, समुत्स्रक्ष्यति जीवितम्> इति । एवमिहिता च पुनरवदत्-"आवेदयामि ते, अवहिता शृणु-स्वप्नेषु प्रतिदिवसम् <२> <२.प्रतिदिनम्> आगत्यागत्यमे हरस्यसन्देशेषु निपुमधूर्त्तः <३> <३.निपुणे धूर्त्तेः> पञ्जरशुकसारिका दूतीः करोति <४> <४.पञ्जरशुकं सारिकां च दूतीकरोति> । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः सङ्केतस्थानानि लिखति । स्वेदप्रक्षालिताक्षरानपि निपतित <१> <१.अश्रुबद्ध> -साञ्जनाश्रुबिन्दु-पङ्क्ति-कथितात्मावस्थान् <२> <२.अवस्थानान्> मनोहरान् संमोहाशानुवर्त्तिनो मदनलेखान् प्रेषयति । निजानुरागेणेव <३> <३.निजानुरागेण...रसेनेव> बलाद्रञ्जयत्यलक्तरकसेन चरणीं । अविनयनिश्चेतनो <४> <४.नखेषु> नखप्रतिबिम्बितगात्मानं बहु मन्यते । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुक-दशाप्रतिहत-गमनाया गृहीतेव <५> <५.सखीभिः> लतासखीभिः अर्पिताया मिथ्याप्रगल्भः पराङ्मुखाया <६> <६.पराङ्मुखपरिष्वङ्गम्> परिष्वङ्गम् आचरति । स्तनस्थले मे लिखन् <७> <७.पत्रलेखा> पत्रलतां कुटिलतामिवानृजुप्रकृतिः प्रकृतिमुग्धं मनः शिक्षयति । हृदयोत्कलिकातरङ्गवातैरिव शीतलैर्मुखमरुद्भिः श्रमजल-शीकर-तारकितावलीकचाटुकारः कपोलौ वीजयति । स्वेदसलिल-शिथिलित-ग्रहण-गलितोत्पलशून्येनापि करेण यवाङ्कुरानिव <१> <१.यवाङ्कुरविकरानिव> नखकिरणान् शुद्धान् दुर्विदग्धः कर्णपुटीकरोति । वल्लभतर-बाल-बकुल-सेक-कालकवलीकृतान् सुरागण्डूषान् सकचग्रहमसकृद्धृष्टो <२> <२.सकचग्रहणगणितचेष्टः पातुं प्रार्थयते> मां पाययति । भवनाशोकतरुताडनोद्यतान् पादप्रहारान् दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथ-मूढ-मानसञ्च कथय हे पत्र लेखे! केन प्रकारेण निश्चेतनो निषिध्यते । प्रत्याख्यानमपीर्ष्यां सम्भावयति, आक्रोशमाप परिहासमाकलयति, असम्भाषणमपि मानं मन्यते, दोषसङ्कीर्त्तनमपि स्मरणोपायमवगच्छति, अवज्ञानमप्यनियन्त्रणं प्रणयमुत्प्रेक्षते, <३> <३.अवज्ञामपि निर्यन्त्रणप्रणयम्...> लोकापवादमपि यशो गणयतिऽ इति । तामेवंवादिनीमाकर्ण्य प्रहर्षरसनिर्भरा मनस्यकरवम्-"अहो! चन्द्रापीडमुद्दिश्य सुदूरमाकृष्टा खल्वियं मकरकेतुना । यदि च सत्यमेव <१> <१.एवं तदा> कादम्बरीव्याजेन साक्षान्मनोभवचित्तवृत्तिः प्रसन्ना <२> <२....मनोभवे चित्तवृत्तिः प्रसक्ता> देवस्य चन्द्रापीडस्य, ततः सहजैः सादरं संवर्द्धितैः प्रत्युपकृतमस्य गुणैः, यशसा धवलिताः ककुभः, यौवनेन रतिरससागरतरङ्गैः पातिता रत्नवृष्टिः, <३> <३.विलासैः> यौवनविलासैर्लिखितं नाम शशिनि, सौभाग्येन प्रकाशिता निजश्रीः, लावण्येनैन्दवीभिरिव वृष्टममृतं कलाभिः । तथा च चिराल्लब्धः कालो मलयानिलेन, समासादितो ऽवसरश्चन्द्रोदयेन, प्राप्तमनुरूपं फलं <४> <४....मनुरूपफलं, प्राप्तरूपं फलम्> मधुमासकुसुमसमृद्ध्या, गतो मदिरामददोषो <५> <५.मदिरारसदोषः> गुणताम्, दर्शितं मुखं मन्मथयुगावतारेणेऽति । अथाहं प्रकाशं विहस्याब्रवम्-"देवि! यद्येवम्, उत्सृज कोपम्, प्रसीद, नार्हसि कामापराधेन <१> <१.कामापराध> देवं दूषयितुम् । एतानि खलु कुसुमचापस्य <२> <२.खलु खलस्य कुसुमचापस्य> चापलानि शठस्य, न देवस्य । इत्येवमुक्तवतीं मां पुनः सकुतूहला सा प्रत्यभाषत-"यो ऽयं कामो वा को ऽपि वा <३> <३.कामः को ऽपि वा> कथय कानि कान्यस्य रूपाणीऽति । तामहं व्यजिज्ञपम्-"देवि! कुतो ऽस्य रूपम्? अतनुरेष हुताशनः । तथाहि, अप्रकाशयन् <४> <४.प्रकाशयन्> ज्वालावलीः सन्तापं जनयति, अप्रकटयन् धूमपटलमश्रु पातयति, अदर्शयन् भस्मरजोनिकरं पाण्डुतामाविर्भावयति । न च तद्भूतमेतावति त्रिभुवने, अस्य शरशरव्यतां <५> <५.शरव्यतां> यन्न यातं याति यास्यति वा । को वास्मान्न <६> <६.को वास्य भ्रश्यति> त्रस्यति, गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्तया <१> <१.चिन्ताप्रिय!> प्रियमुखचन्द्रसहस्राणि <२> <२.क्वचित् "चन्दऽ पदं न विद्यते> सङ्कटमम्बरतलम् <३> <३.चिन्ताप्रियमुखसहस्रसङ्कटम्, चिन्ताप्रियमुखचन्द्रसहस्राणि> , लिखन्तीनां दयिताकारानविस्तीर्णं महीमण्डलम्, गणयन्तीनां वल्लभगुणानल्पीयसी संख्या, <४> <४.वल्लभगुणानसंख्यान्> शृण्वतीनां <५> <५.प्रियतमकथामबहुभाषिणी सरस्वती, <६> <६.अबहुभाषिणीं सरस्वतीम्> ध्यायन्तीनां प्राणसमसमागमसुखानि ह्रसीयान् कालो हृदयस्यापततिऽ इति । एतदाकर्ण्य च क्षणं विचिन्त्य प्रत्यवादीत्-"पत्रलेखे! यथा कथयसि, तथा जनो ऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा <७> <७.कुमारपक्षपातिना पञ्चशरेण> । यान्यस्यैतानि रूपाणि समधिकानि वा तानि मयि वर्त्तन्ते । हृदयादव्यतिरिक्तसि, इदानीं भवतीमेव पृच्छामि । उपदिश <१> <१.क्वचित् त्वमिति नास्ति> त्वम्, यदत्र मे साम्प्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च मे <२> <२.अपि च गुरु...> गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति <३> <३....मे हृदयम्> हृदयम्ऽ इति । एवंवादिनीं भूयस्तामहमेवमवोचम्-"अलमलमिदानीं देवि! किमनेनाकारणमरणानुबन्धेन <४> <४.वरीरु! अनाराधित...> , अनाराधितप्रसन्नेन कुसुमशरेम भगवता ते वरो दत्तः । का चात्र गुरुजनवक्तव्यता, यदा खलु कन्यकां गुरुरिव पञ्चशरः सङ्कल्पयति, मातेवानुमोदते, <५> <५.तरुणतारत्युपचारम्> भ्रातेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुमतायां <६> <६.तरुमतारत्युपचारम्> रत्युपचारं शिक्षयति । कति वा <७> <७.किमिव, कति च> कथयामि ते याः स्वयं वृतवत्यः पतीन् । यदि च नैवम्, अनर्थक एष तर्हिधर्मशास्त्रोपदिष्टः स्वयंवरविधिः । तत् प्रसीद, देवि! अलममुना <१> <१.अलं मरणानु...> मरणानुबन्धेन, शपे <२> <२.शपामि> ते पादपङ्कजस्पर्सेन, सन्दिश, प्रेषय माम्, यामि, आनयामि देवि! ते <३> <३.सन्दिश माम्, याम्यानयामि तं देवं चन्द्रापीडं ते दयदयितम्> हृदयदयितम्ऽ । इत्येवमुक्ते मया प्रीतिद्रवार्द्रया दृष्ट्या पिबन्दीव मां निरुध्यमानैरपि मकरके तुशर-शतजर्जरितां <४> <४.जर्जरिता> भित्त्वेव लज्जां लब्धान्तरैर्निपतद्भिः <५> <५.निष्पतद्भिः> अनुरागविभ्रमैराकुलीक्रियमाणा, प्रियवचनश्रवणंप्रीत्या च <६> <६.स्वेदश्लिष्टम्> स्वेदाश्लिष्टम्, उत्क्षिप्य रोमाञ्चजालकेन दधतीवोत्तरीयांशुकम्, प्रेङ्खत्कुण्डलमाणिक्य पत्र मकर-कोटि-लग्नञ्च शशिकिरणमयं <७> <७.मरणाय पाशमिव> मरणपाशमिव मकरकेतुना निहितं कण्ठेहारमुन्मोचयन्ती, प्रहर्षविह्वलान्तःकरणापि कन्यकाजनशहजां <८> <८.आलम्ब्य> लज्जामिवालम्ब्य शनैः शनैरवदत् <९> <९.शनैरवदत्> -ठजनामि ते गरीयसीं प्रीतिम्, केवलमकठोर-शिरीष <१०> <१०.पक्ष्म> -पुष्प-मृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो वालभावभाजः कुमारीलोकस्य । साहकारिण्यस्ताः, याः स्वयं सन्दिशन्ति समुपसर्पन्ति वा । स्वयं साहसं सन्दिशन्ती <१> <१.सन्दिशन्ति, दिशन्ती> बाला जिह्नेमि । किं वासन्दिशामि । अतिप्रियो ऽसीति पौनरुक्त्यम्, तवाहंप्रियात्मेति <२> <२.प्रिया नेति> जडप्रश्नः, त्वयि गरीयाननुराग इति वेश्यालापः, त्वया विना न जीवामीत्यनुवविरोधः, परिभवति मामनङ्ग इत्यात्मदोषोपालभ्यः, मनोभवेनाहं भवते दत्तेत्युपसर्पणोपायः, बलाद्धृतो ऽसि मयेति बन्धकीधार्ष्ट्यम्, अवश्यमागन्तव्यमिति सौभाग्यगर्वः, स्वयमागच्छामीति स्त्रीचापलम्, अनन्यरक्तो ऽयं <१> <१.अनुरक्त परिजन इति> <२> <२.स्वयं भक्ति> स्वभक्तिनिवेदनलाघवम् <३> <३.निवेदनापलाघवम्> । प्रत्याख्यानशङ्कया न सन्दिशामीत्यप्रबुद्धबोधनम् <४> <४.उद्धतप्रतिबोधनम्> अनपेक्षितानुजीवित <५> <५....अनुजीवित...> -दुःखदारुणा स्यामित्यति प्रणयिता, ज्ञास्यसि मरणे प्रीतिमित्यसम्भाव्यमेव <६> <६.ज्ञास्यसि मरणेन प्रीतिमित्यसम्भाव्यमितिऽ> ।


इति श्रीबाणभट्टविरचितः कादम्बरीपूर्वभागः ।

"https://sa.wikisource.org/w/index.php?title=कादम्बरी_पूर्वभागः&oldid=37817" इत्यस्माद् प्रतिप्राप्तम्