कल्याणवृष्टिस्तवः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

कल्याणवृष्टिभिरिवामृतपूरिताभि-
र्लक्ष्मीस्वयंवरणमङ्गळदीपिकाभिः।
सॆवाभिरम्ब तव पादसरोजमूलॆ
नाकारि किं मनसि भाग्यवतां जनानाम्॥१॥
 
 
एतावदॆव जननि स्पृहणीयमास्तॆ
त्वद्वन्दनॆषु सलिलस्थगितॆ च नॆत्रॆ।
सान्निध्यमुद्यदरुणायुतसोदरस्य
त्वद्विग्रहस्य परया सुधया प्लुतस्य॥२॥
 
 
ईशत्वनामकलुषाः कति वा न सन्ति
ब्रह्मादयः प्रतिभवं प्रलयाभिभूताः।
एकः स एव जननि स्थिरसिद्धिरास्तॆ
यः पादयोस्तव सकृत्प्रणतिं करोति॥३॥
 
 
लब्ध्वा सकृत्त्रिपुरसुन्दरि तावकीनं
कारुण्यकन्दलितकान्तिभरं कटाक्षम्।
कन्दर्पकोटिसुभगास्त्वयि भक्तिभाजः
संमोहयन्ति तरुणीर्भुवनत्रयेऽपि॥४॥
 
 
ह्रींकारमॆव तव नाम गृणन्ति वॆदा
मातस्त्रिकोणनिलयॆ त्रिपुरॆ त्रिनॆत्रॆ।
त्वत्संस्मृतौ यमभटाभिभवं विहाय
दीव्यन्ति नन्दनवनॆ सहलोकपालैः॥५॥
 
 
हन्तुः पुरामधिगळं परिपीयमानः
क्रूरः कथं न भविता गरलस्य वॆगः।
नाश्वासनाय यदि मातरिदं तवार्थं
दॆहस्य शश्वदमृताप्लुतशीतलस्य॥६॥
 
 
सर्वज्ञतां सदसि वाक्पटुतां प्रसूतॆ
दॆवि त्वदङ्घ्रिसरसीरुहयोः प्रणामः।
किं च स्फुरन्मकुटमुज्ज्वलमातपत्रं
द्वॆ चामरॆ च महतीं वसुधां ददाति॥७॥
 
 
कल्पद्रुमैरभिमतप्रतिपादनॆषु
कारुण्यवारिधिभिरम्ब भवत्कटाक्षैः।
आलोकय त्रिपुरसुन्दरि मामनाथं
त्वय्यॆव भक्तिभरितं त्वयि बद्धतृष्णम्॥८॥
 
 
हन्तॆतरॆष्वपि मनांसि निधाय चान्यॆ
भक्तिं वहन्ति किल पामरदैवतॆषु।
त्वामॆव दॆवि मनसा समनुस्मरामि
त्वामॆव नौ मि शरणं जननि त्वमॆव॥९॥
 
 
लक्ष्यॆषु सत्स्वपि कटाक्षनिरीक्षणाना-
मालोकय त्रिपुरसुन्दरि मां कदाचित्।
नूनं मया तु सदृशः करुणैकपात्रं
जातो जनिष्यति जनो न च जायतॆ च॥१०॥
 
 
ह्रीं ह्रीमिति प्रतिदिनं जपतां तवाख्यां
किं नाम दुर्लभमिह त्रिपुराधिवासॆ।
मालाकिरीटमदवारणमाननीया
तान्सॆवतॆ वसुमती स्वयमॆव लक्ष्मीः॥११॥
 
 
सम्पत्कराणि सकलॆन्द्रियनन्दनानि
साम्राज्यदाननिरतानि सरोरुहाक्षि।
त्वद्वन्दनानि दुरिताहरणोद्यतानि
मामॆव मातरनिशं कलयन्तु नान्यम्॥१२॥
 
 
कल्पोपसंहृतिषु कल्पितताण्डवस्य
दॆवस्य खण्डपरशोः परभैरवस्य।
पाशाङ्कुशैक्षवशरासनपुष्पबाणा
सा साक्षिणी विजयतॆ तव मूर्तिरॆका॥१३॥
 
 
लग्नं सदा भवतु मातरिदं तवार्धं
तॆजः परं बहुलकुङ्कुमपङ्कशोणम्।
भास्वत्किरीटममृतांशुकलावतंसं
मध्यॆ त्रिकोणनिलयं परमामृतार्द्रम्॥१४॥
 
 
ह्रींकारमॆव तव नाम तदॆव रूपं
त्वन्नाम दुर्लभमिह त्रिपुरॆ गृणन्ति।
त्वत्तॆजसा परिणतं वियदादि भूतं
सौख्यं तनोति सरसीरुहसम्भवादॆः॥१५॥
 
 
ह्रींकारत्रयसम्पुटॆन महता मन्त्रॆण सन्दीपितं
स्तोत्रं यः प्रतिवासरं तव पुरो मातर्जपॆन्मन्त्रवित्।
तस्य क्षोणिभुजो भवन्ति वशगा लक्ष्मीश्चिरस्थायिनी
वाणी निर्मलसूक्तिभारभरिता जागर्ति दीर्घं वयः॥१६॥
 


                       हर हर शंकर जय जय शंकर

                       हर हर शंकर जय जय शंकर
"https://sa.wikisource.org/w/index.php?title=कल्याणवृष्टिस्तवः&oldid=37809" इत्यस्माद् प्रतिप्राप्तम्