कल्पः/शुल्बसूत्राणि/आपस्तम्बशुल्बसूत्राणि

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
आपस्तम्बशुल्बसूत्रं

विहारयोगान्व्याख्यास्यामः । । १.१ । ।
यावदायामं प्रमाणं । । १.२क । ।
तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति । । १.२ख । ।
पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति । । १.२ग । ।
एवमुत्तरतो विपर्यस्येतरतः स समाधिः । । १.२घ । ।
तन्निमित्तो निर्ह्रासो विवृद्धिर्वा । । १.२च । ।
आयामं वाभ्यस्यागन्तुचतुर्थं आयामश्चाक्ष्णया रज्जुस्तिर्यङ्भानीशेषः । व्याख्यातं विहरणं । । १.३क । ।
दीर्घस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भुते कुरुतस्तदुभयं करोति । । १.४क । ।
ताभिर्ज्ञेयाभिरुक्तं विहरणं । । १.४ख । ।
चतुरश्रस्याक्ष्णयारज्जुर्द्विस्तवतीं भूमिं करोति । समस्य द्विकरणी । । १.५ । ।
प्रमाणं तृतीयेन वर्धयेत्तच्चतुर्थेनात्मचतुस्त्रिंशोनेन सविशेषः । । १.६ । ।
अथापरं । । १.७क । ।
प्रमाणमात्रीं रज्जुं उभयतः पाशां करोति । । १.७ख । ।
मध्ये लक्षणं अर्धमध्यमयोश्च पृष्ठ्यायां रज्जुं आयम्य पाशयोर्लक्षणेष्विति शङ्कून्निहत्युपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापायम्य शङ्कुं निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणमंसं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य मध्यमेनैव लक्षणेन दक्षिणां श्रोणिं आयच्छेत् । एवमुत्तरौ श्रोण्यंसौ । । १.७ग । ।


अथापरोयोगः । । २.१क । ।
पृष्ठ्यान्तयोर्मध्ये च शङ्कून्निहत्यार्धेऽर्धे तद्विशेषं अभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं लक्षणेन दक्षिणमङ्कं आयच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिं आयच्छेत् । एवं उत्तरौ श्रोण्यंसौ । । २.१ख । ।
प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी । । २.२ । ।
तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा । । २.३ । ।
तुल्ययोश्चतुरश्रयोरुक्तः समासः । नानाप्रमाणयोश्चतुरश्रयोः समासः । । २.४क । ।
ह्रसीयसः करण्या वर्षीयसो वृद्ध्रं उल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुरुभे समस्यति । तदुक्तं । । २.४ख । ।
चतुरश्राच्चतुरश्रं निर्जिहीर्षन्यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेथ् । । २.५क । ।
वृर्धस्य पार्श्वमानीं अक्ष्णयेतरत्पार्श्वं उपसंहरेथ् । । २.५ख । ।
सा यत्र निपतेत्तदपच्छिन्द्याथ् । । २.५ग । ।
छिन्नया निरस्तं । । २.५घ । ।
उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत्पृथग्भूते कुरुतस्तदुभयं करोति । । २.६क । ।
तिर्यङ्मानी पुरुषं शेषस्त्रीन् । । २.६ग । ।
तदुक्तं । । २.६घ । ।
दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन्तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्याथ् । । २.७क । ।
खण्डं आगन्तुना संपुरयेथ् । । २.७ख । ।
तस्य निर्हार उक्तः । । २.७ग । ।


समचतुरश्रं दीर्घचतुरश्रं चुकीर्षना यावच्चिकीर्षेत्तावतीं पार्श्वमानीं कृत्वा यदधिकं स्याद्यथायोगं उपदध्याथ् । । ३.१ । ।
चतुरश्रं मण्डलं चिकीर्षन्मध्यात्कोट्यां निपातयेथ् । । ३.२क । ।
पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेथ् । । ३.२ख । ।
सा नित्या मण्डलं । । ३.२ग । ।
यावद्धीयते तावदागन्तु । । ३.२घ । ।
मण्डलं चतुरश्रं चिकीर्षन्विष्कम्भं पञ्चदश भागान्कृत्वा द्वावुद्धरेत् । त्रयोदशावशिष्यन्ते । सा नित्या चतुरश्रं । । ३.३ । ।
प्रमाणेन प्रमाणं विधीयते । । ३.४ । ।
चतुरश्रं आदेशादन्यथ् । । ३.५ । ।
द्वाभ्यां चत्वारि । । ३.६क । ।
त्रिभिर्नव । । ३.६ख । ।
यावत्प्रमाणा रज्जुस्तावतस्तावतो वर्गान्करोति । । ३.८क । ।
अर्धतृतीयपुरुषा षट्सपादान् । । ३.८ख । ।
अथात्यन्त प्रदेशः । । ३.९क । ।
यावता यावताधिकेन परिलिखति तत्पार्श्वयोरुपदधाति । यच्च तेन चतुरश्रं क्रियते तत्कोट्यां । । ३.९ख । ।
अर्धप्रमाणेन पादप्रमाणं विधीयते । । ३.१०क । ।
अर्धस्य द्विप्रमाणायाः पादपूरणत्वाथ् । । ३.१०ख । ।
तृतीयेन नवमी कला । । ३.१०ग । ।


आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते । । ४.१क । ।
अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निं आदधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः । । ४.१ख । ।
चतुर्विंशत्यां अपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरं आधेय इति सर्वेषां अविशेषेण श्रूयते । । ४.२ । ।
दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते । । ४.३ । ।
गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागं आगन्तुं उपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनं । श्रुतिसामर्थ्याथ् । । ४.४ । ।
यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवं इव हि योषेति दार्शिक्या वेदेर्विज्ञायते । । ४.५ । ।
अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुं आयम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणं अंसं आलिखेत् । एवं उत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्याथ् । । ४.६ । ।


त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्वी भवति । षट्त्रिंशत्प्राची चतुर्विंशतिः पुरस्तात्तिरश्चीति स्ॐइक्या वेदेर्विज्ञायते । । ५.१ । ।
षट्त्रिंशिकायां अष्टादशोपसमस्य अपरस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणं पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशकेन दक्षिणापायम्य शङ्कुं निहन्त्येवं उत्तरतःश्रोणी । विपर्यस्यांसौ पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुं निहन्ति । एवं उत्तरतस्तावंसौ । । ५.२क । ।
तदेकरज्ज्वा विहरणं । । ५.२ख । ।
त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । ताभिस्त्रिरभ्यस्ताभिरंसौ । चतुरभ्यस्ताभिःश्रोणी । । ५.३ । ।
द्वादशिकापञ्चिकयोस्त्रयोदशिकाक्ष्णयारज्जुः, ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी । । ५.४ । ।
पञ्चदशिकाष्टिकयोः सप्तदशिकाक्ष्णयारज्जुः । ताभिःश्रोणी । । ५.५क । ।
द्वादशिकापञ्चत्रिंशिकयोः सप्तत्रिंशिकाक्ष्णयारज्जुः । ताभिरंसौ । । ५.५ख । ।
एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति । । ५.६ । ।
अष्टविंशत्योनं पदसहस्रं महावेदिः । । ५.७क । ।
दक्षिणस्मादंसाद्द्वादशसु दक्षिणस्यां श्रोण्यां निपातयेत् । छेदं विपर्यस्योत्तरत उपदध्यात् । सा दीर्घा चतुरश्रा । तथा युक्तां संचक्षीत । । ५.७ख । ।
स्ॐइक्या वेदितृतीयदेशे यजेतेति सौत्रामण्या वेदेर्विज्ञायते । । ५.८क । ।
प्रक्रमास्य द्विकरणी प्रक्रमस्थानीया भवति त्रिकरण्या वा । । ५.८ख । ।
अष्टिका दशिकेति तिर्यङ्मान्यौ । द्वादशिका पृष्ठया । । ५.८ग । ।
त्रीणि चतुर्विंशानि पदशतानि सौत्रामणिकी वेदिः । । ५.९ । ।
द्विस्तावा वेदिर्भवतीत्यश्वमेधे विज्ञायते । । ५.१० । ।


प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति । । ६.१ । ।
प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वाथ् । । ६.२क । ।
यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति । । ६.२ख । ।
रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते । । ६.३क । ।
तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्ताथ् । । ६.३ख । ।
यावता वा बाह्ये छिद्रे । । ६.३ग । ।
तदेकरज्ज्वोक्तं । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेथ् । । ६.४ । ।
अथाप्युदाहरन्ति । । ६.५क । ।
अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतं । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणं । । ६.५ख । ।
अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यां अध्यर्धेनेति श्रोण्यंसान्निर्हरेथ् । । ६.६ । ।
यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् । । ६.७ । ।
दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेथ् । । ६.८ । ।
तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते । । ६.९ । ।
पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वाथ् । । ६.१० । ।
विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्याथ् । । ६.११ । ।


नवारत्नि तिर्यक्सप्तविंशतिरुदगायतं इति सदसो विज्ञायते । । ७.१ । ।
अष्ठादशेत्येकेषां । । ७.२ । ।
तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेथ् । । ७.३ । ।
प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्याथ् । । ७.४ । ।
व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते । । ७.५ । ।
चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषां । । ७.६ । ।
करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेथ् । । ७.७ । ।
ता एकविंशतिर्भवन्ति । । ७.८ । ।
प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः । । ७.९ । ।
मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेथ् । । ७.१०क । ।
तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधं एकैकं प्रधिकं विभजेथ् । । ७.१०ख । ।
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेथ् । । ७.११क । ।
मध्यानीतरस्मिन्प्रस्तारे । । ७.११ख । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । ७.११ग । ।
पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते । । ७.१२ । ।
चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषां । । ७.१३ । ।
मृदो देहान्कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानं उपपध्याथ् । । ७.१४ । ।
यथासङ्ख्यं इतरा व्यवलिख्य यथायोगं उपदध्याथ् । । ७.१५ । ।


भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा । । ८.१ । ।
यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते । । ८.२क । ।
पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषं उत्तरे । । ८.२ख । ।
अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवं उत्तरत उत्तरं । । ८.२ग । ।
प्रादेशेन वितस्त्या वा पश्चात्पुच्छं । । ८.२घ । ।
एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवं एवोद्यन्त्यैकशतविधाथ् । । ८.३ । ।
तदु ह वै सप्तविधं एव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वं एकोत्तरानिति विज्ञायते । । ८.४ । ।
एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च । । ८.५ । ।
अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषं आवेशयेथ् । । ८.६क । ।
आकृतिविकारस्याश्रुतत्वाथ् । । ८.६ख । ।
पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते । । ८.७ । ।
यावान्यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयं । । ८.८ । ।
अपरेण यूपावटदेशं अनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्ताथ् । । ८.९ । ।
उन्मुच्य पूर्वस्मादपरस्मिन्प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्ताथ् । । ८.१० । ।


उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति । । ९.१क । ।
स पुरुषश्चतुरश्रः । । ९.१ख । ।
एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते । । ९.२क । ।
पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषं उत्तरे । । ९.२ख । ।
अरत्निना दक्षिणतो दक्षिणं इत्युक्तं । । ९.२ग । ।
पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरं । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी । । ९.३क । ।
पूर्ववदुत्तरं अंसं । । ९.३ख । ।
रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते । । ९.४ । ।
सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेथ् । । ९.५ । ।
करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेथ् । । ९.६क । ।
तासां एवैकतोऽध्यर्धास्तद्द्वितीयं । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयं । । ९.६ख । ।
सर्वतः प्रादेशस्तच्चतुर्थं । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमं । । ९.६ग । ।
ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेथ् । । ९.७क । ।
अर्धेन नाकसदां पञ्चचूडानां च । । ९.७ख । ।
यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य । । ९.८ । ।


उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः । । १०.१क । ।
पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासां अर्धेष्टकामात्राणि पक्षयोर्भवन्ति । । १०.१ख । ।
पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च । । १०.१ग । ।
पुच्छे प्रादेशं उपधाय सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् । । १०.२ । ।
पञ्चदशभागीयाभिः सङ्ख्यां पूरयेथ् । । १०.३ । ।
अपरस्मिन्प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः । । १०.४क । ।
यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छं । यथा पुच्छं तथा पक्षौ विपरीता अप्यये । । १०.४ख । ।
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् । । १०.५ । ।
पञ्चदशभागीयाबिः सङ्ख्यां पूरयेथ् । । १०.६क । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १०.६ख । ।
पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य । । १०.७ । ।
जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः । । १०.८क । ।
नाभिदघ्नीं द्विषाहस्रं द्वितीयं आस्यदघ्नीं त्रिषाहस्रं तृतीयं उत्तरं उत्तरं ज्यायाम्सं । । १०.८ख । ।
महान्तं बृहन्तं अपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते । । १०.८ग । ।
द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यं इष्टकापरिमाणं । । १०.९ । ।
विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ । । १०.१० । ।


चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य । । ११.१ । ।
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते । । ११.२ । ।
चतुर्भागीयमणूकं । पञ्चमभागीयारत्निः । तथोर्वस्थि । । ११.३क । ।
पादेष्टका पादमात्री । । ११.३ख । ।
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् । । ११.४ । ।
उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः । । ११.५क । ।
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च । । ११.५ख । ।
सन्ध्यन्तराले पञ्चभागीयाः सपादाः । । ११.६ । ।
पुच्छे प्रादेशमुपधाय सर्वं अग्निं चतुर्भागीयाभिः प्रच्छादयेथ् । । ११.७ । ।
पादेष्टकाभिः संख्यां पूरयेथ् । । ११.८ । ।
अपरस्मिन्प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः । । ११.९क । ।
ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्याथ् । । ११.९ख । ।
सर्वं अग्निं पञ्चमभागीयाभिः प्रच्छादयेथ् । । ११.१० । ।
पादेष्टकाक्षिः सङ्ख्यां पूरयेथ् । । ११.११क । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । ११.११ख । ।


एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेथ् । । १२.१क । ।
पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १२.१ख । ।
एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणं । । १२.२ । ।
काम्या गुणविकाराः गुणशास्त्रत्वाथ् । । १२.३ । ।
प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते । । १२.४ । ।
यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगं । । १२.५ । ।
कराणानि चयनं इत्येकविधोक्तं । । १२.६क । ।
प्रौगा इष्टकाः कारयेथ् । । १२.६ख । ।
उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान्भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते । । १२.७ । ।
यथा विमुखे शकटे । । १२.८ । ।
तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगं । । १२.९ । ।
प्रौगचितोक्तीः (-क्तं) । उभयतः प्रौगा इष्टकाः कारयेथ् । । १२.१० । ।
रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते । । १२.११ । ।
यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रं अवदध्याद्यावत्सम्भवेथ् । । १२.१२ । ।


तस्य करण्या द्वादशेनेष्टकाः कारयेथ् । । १३.१ । ।
तासां षट्प्रधावुपधाय शेषं अष्टधा विभजेथ् । । १३.२ । ।
उपधाने चतुरश्रस्यावान्तरदेशान्प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन्प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १३.३ । ।
द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते । । १३.४ । ।
द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च । । १३.५ । ।
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् । । १३.६ । ।
चतुरश्रं वा यस्य गुणशास्त्रं । । १३.७ । ।
स चतुरश्रः । । १३.८ । ।
पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते । । १३.९ । ।
सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः । । १३.१० । ।
तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च । । १३.११ । ।
उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः । । १३.१२ । ।
सर्वं अग्निं चतुरश्राभिः प्रच्छादयेथ् । । १३.१३ । ।
पादेष्टकाभिः सङ्ख्यां पूरयेथ् । । १३.१४ । ।
अपरस्मिन्प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च । । १३.१५ । ।
सर्वमग्निं चतुरश्राभिः प्रच्छादयेथ् । । १३.१६ । ।
पादेष्टकाक्षिः सङ्क्यां पूरयेथ् । । १३.१७ । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १३.१८ । ।


समूह्यं चिन्वीत पशुकाम इति विज्ञायते । । १४.१ । ।
समूहन्नेवेष्टका उपदधाति । । १४.२ । ।
दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते । । १४.३ । ।
परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते । । १४.४ । ।
मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः । । १४.५ । ।
उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते । । १४.६ । ।
परिचाय्येनोक्तः । । १४.७ । ।
श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते । । १४.८ । ।
द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च । । १४.९ । ।
तत्र यथाकामी शब्दार्थस्य विशयित्वाथ् । । १४.१० । ।
चतुरश्रं वा । यस्य गुणशास्त्रं । । १४.११ । ।
स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः । । १४.१२ । ।
छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते । । १४.१३ । ।
सर्वैश्छन्दोबिश्चिनुयादित्येकं । प्राकृतैरित्यपरं । । १४.१४ । ।


श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते । । १५.१ । ।
वक्रपक्षो व्यस्तपुच्छो भवति । । १५.२क । ।
पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते । । १५.२ख । ।
यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थं आत्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेथ् । । १५.३ । ।
पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति क्ळ्प्तिः । । १५.४ । ।
अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः । । १५.५ । ।
द्विपुरुषां रज्जुं उभयतःपाशां करोति । मध्ये लक्षणं । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनं आयच्छेदेवं पुरस्तात् । स निर्णामः । । १५.६ । ।
एतेनोत्तरः पक्षो व्याख्यातः । । १५.७ । ।
आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः । । १५.८ । ।
पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च । । १५.९क । ।
तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्याथ् । । १५.९ख । ।
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेथ् । । १५.१० । ।


अप्ययान्प्रति श्रोण्यंसानपच्छिन्द्याथ् । । १६.१क । ।
एवं इव हि श्येनः । । १६.१ख । ।
करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद्यथायोगनतं तत्प्रथमं । । १६.२ । ।
ते द्वे प्राची संहिते । तद्द्वितीयं । । १६.३ । ।
प्रथमस्य षड्भागं अष्टभागेन वर्धयेत् । यथायोगनतं तत्तृतीयं । । १६.४ । ।
चतुर्भागीयाध्यर्धा । तस्याश्चतुर्भागीयामात्रं अक्ष्णया छिन्द्यात् । तच्चतुर्थं । । १६.५ । ।
चतुर्बागीयार्धं पञ्चमं । । १६.६ । ।
तस्याक्ष्णया भेदः षष्ठं । । १६.७ । ।
पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनं आयच्छेत् । तस्य दक्षिणतोऽन्यं उत्तरतश्च । तावक्ष्णया दक्षिणॉअरयोः कोट्योरालिखेत् । तत्सप्तमं । । १६.८ । ।
एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत्तदष्टमं । । १६.९ । ।
चतुर्भागीयाक्ष्णयोभयतो भेदो नवमं । । १६.१० । ।
उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निरुपदध्याथ् । । १६.११ । ।
पुच्छपार्श्वयोरष्टावष्टौ षठ्ययस्तिस्रोऽग्रे तत एकान्ततस्तिस्रः तत एका । । १६.१२ । ।
पुच्छाप्यये चतुर्थ्यौ विशये । तयोस्तु पश्चात्पञ्चम्यावनीकसंहिते । । १६.१२ । ।


शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश्च । । १७.१ । ।
शेषे च षड्विंशतिरष्टौ षष्टयश्चतस्रः पञ्चम्यः । । १७.२ । ।
शिरसि चतुर्थ्यौ विशये । तयोश्च पुरस्तात्प्राच्यौ । । १७.३ । ।
एष द्विशतः प्रस्तारः । । १७.४ । ।
अपरस्मिन्प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश्च तृतीया आत्मानं अष्टभागावेताः । । १७.५क । ।
शेषे पञ्चचत्वारिंशत्प्रथमाः प्राचीः । । १७.५ख । ।
पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः । । १७.६क । ।
द्वितीयचतुर्थोश्चान्यतरतः प्रतिसंहितां एकैकां । । १७.६ख । ।
शेषे त्रयोदशाष्टम्यः । । १७.६ग । ।
श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश्च । । १७.७क । ।
शेषे च विंशतिस्त्रिंशत्षष्ठयः एकां पञ्चमीं । । १७.७ख । ।
शिरसि चतुर्थ्यौ तयोश्च पुरस्ताच्चतस्रो नवम्यः । । १७.८ । ।
एष द्विशतप्रस्तारः । । १७.९ । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । १७.१० । ।


श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते । । १८.१ । ।
वक्रपक्षो व्यस्तपुच्छो भवति । पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङुदूहति । एवं इव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते । । १८.२ । ।
पुरुषस्य षोडशभिर्विंशं शतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिंशदात्मनि तिस्रः शिरसि पञ्चदश पुच्छ एकत्रिंशद्दक्षिणे पक्षे तथोत्तरे । । १८.३ । ।
अध्यर्धपुरुषस्तिर्यग्द्वावायामत इति दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेभ्यो द्वे द्वे षोडस्यौ निरस्येत् । चत्वारिंशत्परिशिष्यन्ते । स आत्मा । । १८.४ । ।
शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणोत्तरयोर्निपातयेथ् । । १८.५क । ।
तिस्रः परिशिष्यन्ते । तच्छिरः । । १८.५ख । ।
पुरुषस्तिर्यग्द्वावायामतः षोडशभागश्च दक्षिणः पक्षः । तथोत्तरः । । १८.६ । ।
पक्षाग्रेपक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया व्यवलिख्यार्धानि निरस्येत् । एकत्रिंशत्परिशिष्यन्ते । । १८.७ । ।
पक्षाग्रं उत्सृज्य मध्ये पक्षस्य प्राचीं लेखां आलिखेथ् । । १८.८क । ।
पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदन्तुकुर्यात् । नितोदात्प्राचीनं पुरुषान्ते नितोदं नितोदयोर्नानान्तावालिखेत् । तत्पक्षिनमनं । एतेनोत्तरः पक्षो व्याख्यातः । । १८.८ख । ।


द्विपुरुषं पस्चादर्धपुरुषं पुरस्ताच्चतुर्भागोनः पुरुष आयामोऽष्टादशकरण्यो पार्श्वयोस्ताः पञ्चदशपरिगृह्णन्ति । तत्पुच्छं । । १९.१ । ।
षोडशीं चतुर्भिः परिगृह्णीयाथ् । । १९.२क । ।
अष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थसविशेषेणेति । । १९.२ख । ।
अर्धेष्टकां त्रिभिर्द्वाभ्यां चतुर्थाभ्यां चतुर्थसविशेषेणेति । । १९.३ । ।
पादेष्टकां त्रिभिश्चतुर्थेनैकं चतुर्थसविशेषार्धाभ्यां चेति । । १९.४ । ।
पक्षेष्टकां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति । । १९.५ । ।
पक्षमध्यीयां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति । । १९.६ । ।
पक्षाग्रीयां त्रिभिश्चतुर्थेनैकं चतुर्थसप्तमाभ्यां एकं चतुर्थसविशेषसप्तमाभ्यां चेति । । १९.७ । ।
पक्षकरण्याःसप्तमं तिर्यङ्मानी । पुरुषचतुर्थं च पार्श्वमानी । तस्याक्ष्णया रज्ज्वा करणं प्रजृम्भयेथ् । । १९.८क । ।
पक्षनमन्याः सप्तमेन फलकानि नमयेथ् । । १९.८ख । ।
उपधाने चतस्रः पादेष्टकाः पुरस्ताच्छिरसि । अपरेण शिरसोऽप्ययं पञ्च । पूर्वेण पक्षाप्ययावेकादश । अपरेणैकादश पूर्वेण पुच्छाप्ययं पञ्चापरेण पञ्च पञ्चदश पुच्छाग्रे । । १९.९ । ।


चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः । । २०.१ । ।
ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्याथ् । । २०.२ । ।
चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः । । २०.३ । ।
पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेथ् । । २०.४ । ।
अवशिष्टं षोडशीभिः प्राच्छादयेथ् । । २०.५क । ।
अन्त्या बाह्यविशेषा अन्यत्र शिरसः । । २०.५ख । ।
अपरस्मिन्प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्याथ् । । २०.६क । ।
तेऽपरेण द्वे विशये अभ्यन्तरविशेषे । । २०.६ख । ।
द्वाभ्यां अर्धेष्टकाभ्यां यथायोगं पर्युपदध्याथ् । । २०.७क । ।
बाह्यविशेषाभ्यां परिगृह्णीयाथ् । । २०.७ख । ।
आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्याथ् । । २०.८ । ।
चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः । । २०.९क । ।
पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेथ् । । २०.९ख । ।
तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः । । २०.१० । ।
अवशिष्टं षोडशीभिः प्रच्छादयेथ् । । २०.११क । ।
अन्त्या बाह्यविशेषा अन्यत्र पुच्छाथ् । । २०.११ख । ।
यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेथ् । । २०.१२ । ।
अणूकाः पञ्चदशभागीयानां स्थाने । । २०.१३ । ।
व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेथ् । । २०.१४ । ।


कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ । । २१.१ । ।
एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्याथ् । । २१.२क । ।
अशिरस्को वानाम्नानाथ् । । २१.२ख । ।
ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयं इति विद्यमाने कथं ब्रूयाथ् । । २१.३ । ।
प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणाथ् । । २१.४क । ।
यथाप्रकृत्यात्माविकाराथ् । । २१.४ख । ।
यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातं । । २१.५ । ।
त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते । । २१.६ । ।
तत्र सर्वाब्यासोऽविशेषाथ् । । २१.७ । ।
दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः । । २१.८ । ।
एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते । । २१.९ । ।
तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगाथ् । । २१.१० । ।

श्रेणी:गणित