एकात्मतामन्तः

विकिस्रोतः तः
(एकात्मता मंत्र इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ

यं वैदिकामन्त्रदृशः पुराणाः
इन्द्रं यमं मातरिश्वानमाहुः।
वेदान्तिनोऽनिर्वचनीयमेकम्
यं ब्रह्मशब्देन विनिर्दिशन्ति ॥

शैवायमीशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरीति स्तुवन्ति ।
बुद्धस्तथार्हन्निति बौद्धजैनाः
सत् श्री अकालेति च सिख्खसन्तः ॥

शास्तेति केचित् कतिचित् कुमारः
स्वामीति मातेति पितेति भक्त्या ।
यं प्रार्थयन्ते जगदीशितारम्
स एक एव प्रभुरद्वितीयः॥

एतदपि पशयन्तु[सम्पाद्यताम्]

एकात्मतास्तोत्रम्

"https://sa.wikisource.org/w/index.php?title=एकात्मतामन्तः&oldid=31145" इत्यस्माद् प्रतिप्राप्तम्