एकाक्षरकोशः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

सौभरिकृता एकार्थनाममाला अपि द्रष्टव्या।

पुरुषोत्तमदेव एकाक्षरकोशः[सम्पाद्यताम्]

अकारो वासुदेवः स्यादाकारश्च पितामहः ।

पूजायां अपि माङ्गल्ये आकारः परिकीर्त्तितः । । १

इकारो उच्यते कामो लक्ष्मी रीकार उच्यते ।

उकारः शङ्करः प्रोक्त ऊकारश्चापि रक्षणे । । २

ऋकारो देवमाता स्यादॄकारो दनुजप्रसूः ।

ळ्कारो देवयोनिः स्याल्íर्माता सद्भिरुच्यते । । ३

एकारः कथितो विष्णुरैकारश्च महेश्वरः ।

ओकारस्तु भवेद्ब्रह्मा औकारो रुद्र उच्यते । । ४

अं स्याच्च परमं ब्रह्म अः स्याद्देवो महेश्वरः ।

कः प्रजापतिरुद्दिष्टो को वायुरिति शब्दितः । । ५

कश्चात्मा च समाख्यातः कः प्रकाश उदाहृतः ।

कं शिरो जलं आख्यातं कं सुखं च प्रकीर्तितं । । ६

पृथिव्यां कुः समाख्याता कुत्सायां कुः प्रकीर्तितः ।

खं इन्द्रियं समाख्यातं खं आकाशं उदाहृतं । । ७

खं स्वर्गे च समाख्यातं खं सर्पे च प्रकीर्तितं ।

तथा श्वभ्रे च खं प्राहुः खं शून्ये च प्रकीर्त्तितं । । ८

गो गणपतिरुद्दिष्टो गो गन्धर्वः प्रकीर्त्तितः ।

गं गीतं गा च गाथा स्याद्गौर्धेनुर्गौः सरस्वती । । ९

गौर्मातापि समुद्दिष्टा पृथिव्यां गौः प्रकीर्त्तिता ।

घो घण्टायां समाख्यातः किङ्किणी घा प्रकीर्त्तिता । । १०

उपमा घा समाख्याता कुस्वरे घुः प्रकीर्त्तितः ।

हनने घा समाख्याता गन्धने घः प्रकीर्त्तितः । । ११

ङकारो भैरवः ख्यातो ङकारो विषये स्मृतः ।

चकारश्चन्द्रमाः ख्यातस्तस्करश्च प्रकीर्त्तितः । । १२

निर्मलं छं समाख्यातं तरणी छः प्रकीर्त्तितः ।

छेदने छः समाख्यातो विद्वद्भिः शब्दकोविदैः । । १३

वेगिते जः समाख्यातो जघने जः प्रकीर्त्तितः ।

जेता च जः समाख्यातः प्रसिद्धैः शब्दकोविदैः । । १४

झंझावाते झकारः स्यान्नष्टे झः समुदाहृतः ।

ञकारो गायने प्रोक्तो ञकारो घर्घरध्वनौ । । १५

टङ्कारे टः पृथिव्यां टा टो ध्वनौ च प्रकीर्तितः ।

ठो महेश्वर आख्यातः शून्ये च ठः प्रकीर्तितः । । १६

बृहद्ध्वनौ च ठः प्रोक्तस्तथा चन्द्रस्य मण्डले ।

डकारः शङ्करः प्रोक्तस्त्रासध्वन्योः प्रकीर्तितः । । १७

ढकारः कीर्तिता ढक्का निर्गुणे च ध्वनावपि ।

णकारः कीर्तितो ज्ञाने निर्णयेऽपि प्रकीर्तितः । । १८

तकारः कथितश्चौरः क्रोडे पुच्छे प्रकीर्तितः ।

शिलोच्चये थकारः स्यात्थकारो भयरक्षणे । । १९

दं कलत्रे समाख्यातं दो दानच्छेदधातुषु ।

धं धने च धनेशे धो धा धातरि निदर्शितः । । २०

धिषणा धीः समाख्याता धूश्च स्याद्भारचिन्तयोः ।

नकारः सुगते बन्धे नुः स्तुतौ च प्रकीर्तितः । । २१

नेता नीश्च समाख्यातस्तरणौ नौः प्रकीर्तिता ।

नकारः सौगते बुद्धौ स्तुतो सूर्ये च कीर्तितः । । २२

नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः ।

पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः । । २३

पवने पः समाख्यातः पाः पाने पाश्च पातरि ।

कफे वाते फकारः स्यात्तथाह्वाने प्रकीर्तितः । । २४

झंझावाते फकारः स्यादक्षरे च प्रकीर्तितः ।

कोपे फिश्च समाख्यातस्तथा निष्फलभाषणे । । २५

वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः ।

नक्षत्रं भं बुधैः प्रोक्तं भ्रमरे भः प्रकीर्तितः । । २६

भा दीप्तिरपि भूर्भूमिर्भीर्भयं कथिता बुधैः ।

मः शिवश्चन्द्रमा वेधा मा च लक्ष्मीः प्रकीर्तिता । । २७

"https://sa.wikisource.org/w/index.php?title=एकाक्षरकोशः&oldid=37791" इत्यस्माद् प्रतिप्राप्तम्