ऋग्वेदः सूक्तं १०.१४०

विकिस्रोतः तः
(ऋग्वेद: सूक्तं १०.१४० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं १०.१३९ ऋग्वेदः - मण्डल १०
सूक्तं १०.१४०
अग्निः पावकः।
सूक्तं १०.१४१ →
ऋ. अग्निः पावकः, दे. अग्निः । सतोबृहती, १-२ विष्टारपंक्तिः, ६ उपरिष्टाज्ज्योतिः


अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।
बृहद्भानो शवसा वाजमुक्थ्यं दधासि दाशुषे कवे ॥१॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।
पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥२॥
ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।
त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥३॥
इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।
स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिं क्रतुम् ॥४॥
इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥५॥
ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥६॥

इळान्दम्

सायणभाष्यम्

‘अग्ने तव ' इति षडृचं द्वादशं सूक्तम् । पावकगुणविशिष्टोऽग्निर्षिः । शुद्धाग्निर्देवता । आद्या विष्टारपङ्क्तिरष्टकद्विद्वादशाष्टकवती । अथ तिस्रः सतोबृहत्यः ‘अयुजौ जागतौ ' ( अनु. ८. ४) इति लक्षणोपेताः । पञ्चम्युपरिष्टाज्ज्योतिः । षष्ठी त्रिष्टुप् । तथा चानुक्रान्तम्-अग्ने तवाग्निः पावक आग्नेयं विष्टारपङ्क्तिस्तिस्रः सतोबृहत्य उपरिष्टाज्ज्योतिः' इति । महाव्रत आग्निमारुतशस्त्र इदं सूक्तं स्तोत्रियानुरूपार्थम् । तथैव पञ्चमारण्यके सूत्रितम् (ऐ. आ. ५. ३. २ ) ।


अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजंते अ॒र्चयो॑ विभावसो ।

बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्यं१॒॑ दधा॑सि दा॒शुषे॑ कवे ॥१

अग्ने॑ । तव॑ । श्रवः॑ । वयः॑ । महि॑ । भ्रा॒ज॒न्ते॒ । अ॒र्चयः॑ । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।

बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा । वाज॑म् । उ॒क्थ्य॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे॒ ॥१

अग्ने । तव । श्रवः । वयः । महि । भ्राजन्ते । अर्चयः । विभावसो इति विभाऽवसो ।

बृहद्भानो इति बृहत्ऽभानो । शवसा । वाजम् । उक्थ्यम् । दधासि । दाशुषे । कवे ॥१

हे “अग्ने “तव “वयः अन्नं “श्रवः श्रवणीयं प्रशस्यम् । हविरात्मकस्य तस्य मन्त्रसंस्कृतत्वेन प्रशस्तत्वात् । अन्नेषु मध्ये तवैवान्नं श्रेष्ठमित्यर्थः । हे “विभावसो । विशिष्टा दीप्तिर्विभा । सैव वसु धनं यस्य तादृशाग्ने “अर्चयः दीप्तयः “महि महत् बहुलं “भ्राजन्ते दीप्यन्ते । ‘भ्राजृ दीप्तौ । अनुदात्तैत् । भौवादिकः । हे "बृहद्भानो प्रौढदीप्ते “कवे क्रान्तदर्शिन्नग्ने एवंमहानुभावस्त्वं “शवसा बलेनोपेतम् “उक्थ्यं प्रशस्यम् । यद्वा । उक्थो यज्ञः । तद्योग्यं “वाजम् अन्नं “दाशुषे हवींषि दत्तवते यजमानाय “दधासि ददासि प्रयच्छसि ॥


पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू॑नवर्चा॒ उदि॑यर्षि भा॒नुना॑ ।

पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ॥२

पा॒व॒कऽव॑र्चाः । शु॒क्रऽव॑र्चाः । अनू॑नऽवर्चाः । उत् । इ॒य॒र्षि॒ । भा॒नुना॑ ।

पु॒त्रः । मा॒तरा॑ । वि॒ऽचर॑न् । उप॑ । अ॒व॒सि॒ । पृ॒णक्षि॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ ॥२

पावकऽवर्चाः । शुक्रऽवर्चाः । अनूनऽवर्चाः । उत् । इयर्षि । भानुना ।

पुत्रः । मातरा । विऽचरन् । उप । अवसि । पृणक्षि । रोदसी इति । उभे इति ॥२

“पावकवर्चाः शोधकदीप्तिः “शुक्रवर्चाः निर्मलतेजस्कः “अनूनवर्चाः संपूर्णतेजस्कः । हे अग्ने ईदृशस्त्वं “भानुना तेजसा “उदियर्षि उद्गच्छसि । ‘ऋ सृ गतौ ' । जौहोत्यादिकः । 'अर्तिपिपर्त्योश्च' इत्यभ्यासस्येत्वम् । स त्वं “पुत्रः सन् "मातरा मातृभूते अरण्यौ “विचरन् यागावसाने विशेषेण प्राप्नुवन् “उपावसि उपगतान् यजमानान् रक्षसि । तथा “उभे “रोदसी द्यावापृथिव्यौ “पृणक्षि संयोजयसि । हविषा द्युलोकं वृष्ट्येमं लोकं च पूरयसीत्यर्थः । ‘ पृची संपर्क' । रौधादिकः ।


ऊर्जो॑ नपाज्जातवेदः सुश॒स्तिभि॒र्मंद॑स्व धी॒तिभि॑र्हि॒तः ।

त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा॑ताः ॥३

ऊर्जः॑ । न॒पा॒त् । जा॒त॒ऽवे॒दः॒ । सु॒श॒स्तिऽभिः॑ । मन्द॑स्व । धी॒तिऽभिः॑ । हि॒तः ।

त्वे इति॑ । इषः॑ । सम् । द॒धुः॒ । भूरि॑ऽवर्पसः । चि॒त्रऽऊ॑तयः । वा॒मऽजा॑ताः ॥३

ऊर्जः । नपात् । जातऽवेदः । सुशस्तिऽभिः । मन्दस्व । धीतिऽभिः । हितः ।

त्वे इति । इषः । सम् । दधुः । भूरिऽवर्पसः । चित्रऽऊतयः । वामऽजाताः ॥३

हे “ऊर्जो “नपात् ऊर्जः अन्नस्य पार्थिवस्यारण्यादेः पुत्र हे “जातवेदः जातानां वेदितरग्ने “सुशस्तिभिः अस्माभिः क्रियमाणै: “मन्दस्व मोदस्व । तथा “धीतिभिः कर्मभिरस्माभिः क्रियमाणैः अग्निहोत्रादिभिः “हितः सुहितः तृप्तो भव । अपि च “भूरिवर्पसः । वर्प इति रूपनाम । बहुविधरूपाः “चित्रोतयः चित्रा विचित्रोतिस्तृप्तिर्यासां तास्तथोक्ता: “वामजाताः वामं वननीयं जातं जन्म यासां तादृशीः “इषः अन्नानि हविर्लक्षणानि “त्वे त्वय्येव “सं दधुः संदधति । सम्यग्जुह्वति यजमानाः । यद्वा । भूरिवर्पस इत्यादिकं कर्तृविशेषणम् । तदानीं चित्रोतय इत्यस्य विचित्ररक्षा इति योज्यम् ॥


इ॒र॒ज्यन्न॑ग्ने प्रथयस्व जं॒तुभि॑र॒स्मे रायो॑ अमर्त्य ।

स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा॑जसि पृ॒णक्षि॑ सान॒सिं क्रतुं॑ ॥४

इ॒र॒ज्यन् । अ॒ग्ने॒ । प्र॒थ॒य॒स्व॒ । ज॒न्तुऽभिः॑ । अ॒स्मे इति॑ । रायः॑ । अ॒म॒र्त्य॒ ।

सः । द॒र्श॒तस्य॑ । वपु॑षः । वि । रा॒ज॒सि॒ । पृ॒णक्षि॑ । सा॒न॒सिम् । क्रतु॑म् ॥४

इरज्यन् । अग्ने । प्रथयस्व । जन्तुऽभिः । अस्मे इति । रायः । अमर्त्य ।

सः । दर्शतस्य । वपुषः । वि । राजसि । पृणक्षि । सानसिम् । क्रतुम् ॥४

हे “अग्ने “जन्तुभिः जातैः शत्रुभिः सह “इरज्यन् ईर्ष्यन् स्पर्धां कुर्वन् । ‘इरज् ईर्ष्यायाम् । कण्ड्वादिः । यद्वा इरज्यतिरैश्वर्यकर्मा । जन्तुभिर्जायमानैरात्मीयैस्तेजोभिः इरज्यन् ईश्वरो भवन् । हे "अमर्त्य मरणरहित “अग्ने “अस्मे अस्माकम् । ‘सुपां सुलुक्° ' इति षष्ठ्या: शेआदेशः । “रायः धनानि “प्रथयस्व विस्तारय । रयिशब्दाच्छसः स्थाने व्यत्ययेन जस् । शसो वा व्यत्ययेन ‘ उडिदम्' इति विभक्त्युदात्तत्वं न क्रियते । “सः त्वं “दर्शतस्य दर्शनीयस्य “वपुषः तेजोमयस्य शरीरस्य “वि “राजसि । तृतीयार्थे षष्ठी वा । ईदृशेन शरीरेण विशेषेण दीप्यसे । यद्वा । राजतिरैश्वर्यकर्मा । वपुरिति च रूपनाम । दर्शनीयेन रूपेण वि राजसि विशेषेण ईशिषे । अत एवं “सानसिं संभजनीयं “क्रतुं कर्मं "पृणक्षि अस्माभिः संपर्चयसि । फलेन वा संयोजयसि ॥


इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे॑तसं॒ क्षयं॑तं॒ राध॑सो म॒हः ।

रा॒तिं वा॒मस्य॑ सु॒भगां॑ म॒हीमिषं॒ दधा॑सि सान॒सिं र॒यिं ॥५

इ॒ष्क॒र्तार॑म् । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसम् । क्षय॑न्तम् । राध॑सः । म॒हः ।

रा॒तिम् । वा॒मस्य॑ । सु॒ऽभगा॑म् । म॒हीम् । इष॑म् । दधा॑सि । सा॒न॒सिम् । र॒यिम् ॥५

इष्कर्तारम् । अध्वरस्य । प्रऽचेतसम् । क्षयन्तम् । राधसः । महः ।

रातिम् । वामस्य । सुऽभगाम् । महीम् । इषम् । दधासि । सानसिम् । रयिम् ॥५

“इष्कर्तारं निष्कर्तारम् । छान्दसो वर्णलोपः । “अध्वरस्य यज्ञस्य निष्कर्तारं संस्कर्तारं “प्रचेतसं प्रकृष्टज्ञानं “महः महतः “राधसः धनस्य “क्षयन्तम् ईश्वरम् । क्षयतिरैश्वर्यकर्मा । “वामस्य वननीयस्य धनस्य “रातिं दातारम् । रातेः कर्तरि क्तिच् । ईदृशं त्वां स्तुम इति शेषः । स त्वं “सुभगां सौभाग्योपेतां “महीं महतीम् “इषम् अन्नं “सानसिं संभक्तव्यं “रयिं धनं च “दधासि स्तोतृभ्यो ददासि ॥


ऋ॒तावा॑नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः॑ ।

श्रुत्क॑र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ॥६

ऋ॒तऽवा॑नम् । म॒हि॒षम् । वि॒श्वऽद॑र्शतम् । अ॒ग्निम् । सु॒म्नाय॑ । द॒धि॒रे॒ । पु॒रः । जनाः॑ ।

श्रुत्ऽक॑र्णम् । स॒प्रथः॑ऽतमम् । त्वा॒ । गि॒रा । दैव्य॑म् । मानु॑षा । यु॒गा ॥६

ऋतऽवानम् । महिषम् । विश्वऽदर्शतम् । अग्निम् । सुम्नाय । दधिरे । पुरः । जनाः ।

श्रुत्ऽकर्णम् । सप्रथःऽतमम् । त्वा । गिरा । दैव्यम् । मानुषा । युगा ॥६

“ऋतावानं सत्यवन्तं यज्ञवन्तं वा। 'छन्दसीवनिपौ ' इति मत्वर्थीयो वनिप् । महिषं महान्तं पूज्यं वा “विश्वदर्शतं विश्वैः सर्वैर्दर्शनीयम्। यद्वा विश्वं दर्शनं यस्य । ‘ बहुवीहौ विश्वं संज्ञायाम्' इति पूर्वपदान्तोदात्तत्वम् । ईदृशम् “अग्निं “सुम्नाय सुखार्थं “जनाः ऋत्विग्यजमानरूपाः “पुरः “दधिरे पुरो दधते । सर्वकर्मभ्यः पुरस्ताद्धारयन्ति । यद्वा पुरः पुरस्तात् पूर्वस्यां दिशि आहवनीयरूपेण धारयन्ति । परोऽर्धर्चः प्रत्यक्षकृतः । अपि च हे अग्ने “श्रुत्कर्णं श्रुत् स्तुतीः सम्यक् शृण्वन् कर्णः श्रोत्रेन्द्रियं यस्य तादृशं “सप्रथस्तमम् अतिशयेन प्रख्यातं यद्वा सर्वतो विस्तार्यमाणं "दैव्यं देवानां हविर्वोढृत्वेन संबन्धिनम् ईदृशं “त्वा त्वां “मानुषा मानुषाणि मनोरपत्यानि “युगा युगानि युगलानि पत्नीयजमानरूपाणि "गिरा स्तुत्या स्तुवन्तीति शेषः ॥ ॥ २८ ॥


[सम्पाद्यताम्]

टिप्पणी

इलान्दं साम (ऊह्यगानम्)

क्षेत्रे सिकतादिवापः -- अग्ने तव श्रवो वय इति सिकता नि वपति । एतद् वा अग्नेर् वैश्वानरस्य सूक्तम् । ...... संवत्सरो ऽग्निर् वैश्वानरः – तैसं ५.२.६.१

शुक्लयजुर्वेदः १२.१०६

शतपथब्राह्मणम् ७.३.१.२९

च्यवेत चेद्यज्ञायज्ञीयमग्ने तव श्रवो वय इति षट्स्तोत्रियानुरूपौ यदीलान्दं भूयसीषु चेत्स्तुवीरन्नाऽग्निं न स्ववृक्तिभिरिति (ऋ. १०.२१.१) तावतीरनुरूपः, इति । - ऐ.आ. ५.३.२

महाव्रतप्रकरणम् -- ते यदि यज्ञायज्ञीयमग्निष्टोमसाम कुर्युस्तस्योक्तौ स्तोत्रियानुरूपौ(यज्ञायज्ञा वो अग्नये, देवो वो द्रविणोदा)। तयोर्दिष्टं शस्त्रम् । यद्यु वा इलान्दमग्ने तव श्रवो वय इति (१०.१४०) स्तोत्रियस्तृचोऽत एवोत्तरः सूक्तानुरूपः। यद्यु सर्वस्मिन् षलर्चे स्तुवीरन्नाग्निं न स्ववृक्तिभिरित्येतस्य षलनुरूपं कुर्वीत । अर्धर्चशः शस्त्रम् । - शां.श्रौ.सू. १८.२३.६

१०.१४०.६ ऋतावानं महिषं इति

महिषोपरि टिप्पणी

मण्डल १०

सूक्तं १०.१

सूक्तं १०.२

सूक्तं १०.३

सूक्तं १०.४

सूक्तं १०.५

सूक्तं १०.६

सूक्तं १०.७

सूक्तं १०.८

सूक्तं १०.९

सूक्तं १०.१०

सूक्तं १०.११

सूक्तं १०.१२

सूक्तं १०.१३

सूक्तं १०.१४

सूक्तं १०.१५

सूक्तं १०.१६

सूक्तं १०.१७

सूक्तं १०.१८

सूक्तं १०.१९

सूक्तं १०.२०

सूक्तं १०.२१

सूक्तं १०.२२

सूक्तं १०.२३

सूक्तं १०.२४

सूक्तं १०.२५

सूक्तं १०.२६

सूक्तं १०.२७

सूक्तं १०.२८

सूक्तं १०.२९

सूक्तं १०.३०

सूक्तं १०.३१

सूक्तं १०.३२

सूक्तं १०.३३

सूक्तं १०.३४

सूक्तं १०.३५

सूक्तं १०.३६

सूक्तं १०.३७

सूक्तं १०.३८

सूक्तं १०.३९

सूक्तं १०.४०

सूक्तं १०.४१

सूक्तं १०.४२

सूक्तं १०.४३

सूक्तं १०.४४

सूक्तं १०.४५

सूक्तं १०.४६

सूक्तं १०.४७

सूक्तं १०.४८

सूक्तं १०.४९

सूक्तं १०.५०

सूक्तं १०.५१

सूक्तं १०.५२

सूक्तं १०.५३

सूक्तं १०.५४

सूक्तं १०.५५

सूक्तं १०.५६

सूक्तं १०.५७

सूक्तं १०.५८

सूक्तं १०.५९

सूक्तं १०.६०

सूक्तं १०.६१

सूक्तं १०.६२

सूक्तं १०.६३

सूक्तं १०.६४

सूक्तं १०.६५

सूक्तं १०.६६

सूक्तं १०.६७

सूक्तं १०.६८

सूक्तं १०.६९

सूक्तं १०.७०

सूक्तं १०.७१

सूक्तं १०.७२

सूक्तं १०.७३

सूक्तं १०.७४

सूक्तं १०.७५

सूक्तं १०.७६

सूक्तं १०.७७

सूक्तं १०.७८

सूक्तं १०.७९

सूक्तं १०.८०

सूक्तं १०.८१

सूक्तं १०.८२

सूक्तं १०.८३

सूक्तं १०.८४

सूक्तं १०.८५

सूक्तं १०.८६

सूक्तं १०.८७

सूक्तं १०.८८

सूक्तं १०.८९

सूक्तं १०.९०

सूक्तं १०.९१

सूक्तं १०.९२

सूक्तं १०.९३

सूक्तं १०.९४

सूक्तं १०.९५

सूक्तं १०.९६

सूक्तं १०.९७

सूक्तं १०.९८

सूक्तं १०.९९

सूक्तं १०.१००

सूक्तं १०.१०१

सूक्तं १०.१०२

सूक्तं १०.१०३

सूक्तं १०.१०४

सूक्तं १०.१०५

सूक्तं १०.१०६

सूक्तं १०.१०७

सूक्तं १०.१०८

सूक्तं १०.१०९

सूक्तं १०.११०

सूक्तं १०.१११

सूक्तं १०.११२

सूक्तं १०.११३

सूक्तं १०.११४

सूक्तं १०.११५

सूक्तं १०.११६

सूक्तं १०.११७

सूक्तं १०.११८

सूक्तं १०.११९

सूक्तं १०.१२०

सूक्तं १०.१२१

सूक्तं १०.१२२

सूक्तं १०.१२३

सूक्तं १०.१२४

सूक्तं १०.१२५

सूक्तं १०.१२६

सूक्तं १०.१२७

सूक्तं १०.१२८

सूक्तं १०.१२९

सूक्तं १०.१३०

सूक्तं १०.१३१

सूक्तं १०.१३२

सूक्तं १०.१३३

सूक्तं १०.१३४

सूक्तं १०.१३५

सूक्तं १०.१३६

सूक्तं १०.१३७

सूक्तं १०.१३८

सूक्तं १०.१३९

सूक्तं १०.१४०

सूक्तं १०.१४१

सूक्तं १०.१४२

सूक्तं १०.१४३

सूक्तं १०.१४४

सूक्तं १०.१४५

सूक्तं १०.१४६

सूक्तं १०.१४७

सूक्तं १०.१४८

सूक्तं १०.१४९

सूक्तं १०.१५०

सूक्तं १०.१५१

सूक्तं १०.१५२

सूक्तं १०.१५३

सूक्तं १०.१५४

सूक्तं १०.१५५

सूक्तं १०.१५६

सूक्तं १०.१५७

सूक्तं १०.१५८

सूक्तं १०.१५९

सूक्तं १०.१६०

सूक्तं १०.१६१

सूक्तं १०.१६२

सूक्तं १०.१६३

सूक्तं १०.१६४

सूक्तं १०.१६५

सूक्तं १०.१६६

सूक्तं १०.१६७

सूक्तं १०.१६८

सूक्तं १०.१६९

सूक्तं १०.१७०

सूक्तं १०.१७१

सूक्तं १०.१७२

सूक्तं १०.१७३

सूक्तं १०.१७४

सूक्तं १०.१७५

सूक्तं १०.१७६

सूक्तं १०.१७७

सूक्तं १०.१७८

सूक्तं १०.१७९

सूक्तं १०.१८०

सूक्तं १०.१८१

सूक्तं १०.१८२

सूक्तं १०.१८३

सूक्तं १०.१८४

सूक्तं १०.१८५

सूक्तं १०.१८६

सूक्तं १०.१८७

सूक्तं १०.१८८

सूक्तं १०.१८९

सूक्तं १०.१९०

सूक्तं १०.१९१

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१०.१४०&oldid=311143" इत्यस्माद् प्रतिप्राप्तम्