आपिशलशिक्षा/सप्तमोध्यायः

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ६ शिक्षा
आपिशलशिक्षा
अध्यायः ८ →

वृत्तिकारप्रकरणम्

एवं व्याख्याने वृत्तिकारा पठन्ति -- अष्टादशप्रभेदमवर्णकुलमिति । अत्र । १ ।

ह्रस्वदीर्घप्लुतत्वाच्च त्रैस्वर्योपनयेन च । आनुनासिक्यभेदाच्च
सङ्ख्यातोऽष्टादशात्मकः ।। इति ।। । २ ।

एवविर्णादयः । ३ ।

ऌवर्णस्य दीर्घा न सन्ति । ४ ।

तं द्वादशप्रभेदमाचक्षते । ५ ।

यदृच्छाशक्तिजानुकरणा वा यदा दीर्घाः स्युस्तदा तमप्यष्टादशप्रभेदं ब्रुवते । ६ ।

सन्ध्यक्षराणां ह्रस्वा न सन्ति । ७ ।

तान्यपि द्वादशप्रभेदानि । ८ ।

छन्दोगानां सात्यमुग्रिराणायनीया ह्रस्वानि पठन्ति । ९ ।

तेषामप्यष्टादशप्रभेदानि । १० ।

अन्तस्था द्विप्रभेदा रेफवर्जिताः सानुनासिका निरनुनासिकाश्च । ११ ।

रेफोष्मणां सवर्णा न सन्ति । १२।

वर्ग्यो वर्ग्येण सवर्णः । १३ ।