आपिशलशिक्षा/प्रथमोध्यायः

विकिस्रोतः तः
शिक्षा
आपिशलशिक्षा
अध्यायः २ →

आकाशवायुप्रभवः शरीरात्समुच्चरन् वक्त्रमुपैति नादः ।
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः ।। १ ॥


तमक्षरं ब्रह्म परं पवित्रं गुहाशयं सम्यगुशन्ति विप्राः । २ ॥


स्थानमिदं करणमिदं प्रयत्न एष द्विधानिलः स्थानं पीडयति वृत्तिकारः प्रक्रम एषोऽथ नाभितलात् ।। ३ ॥


तत्र स्थानकरणप्रयत्नेभ्यो वर्णास्त्रिषष्टिः । ४ ॥


तत्र वर्णानां केषां किं स्थानं किं कारणं प्रयत्नश्च कः केषामित्युच्यते । ५ ॥