अर्थशास्त्रम्/अधिकरणम् ३/अध्यायः १५

विकिस्रोतः तः
← अध्यायः १४ अर्थशास्त्रम्
अध्यायः १५
कौटिलीय:
अध्यायः १६ →

 विक्रीय पण्यं अप्रयच्छतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१५.०१ ।।

 पण्य-दोषो दोषः ।। ०३.१५.०२ ।।

 राज-चोर-अग्न्य्-उदक-बाध उपनिपातः ।। ०३.१५.०३ ।।

 बहु-गुण-हीनं आर्त-कृतं वाअविषह्यं ।। ०३.१५.०४ ।।

 वैदेहकानां एक-रात्रं अनुशयः । कर्षकाणां त्रि-रात्रं । गो-रक्षकाणां पञ्च-रात्रं ।। ०३.१५.०५ ।।

 व्यामिश्राणां उत्तमानां च वर्णानां वृत्ति-विक्रये सप्त-रात्रं ।। ०३.१५.०६ ।।

 आतिपातिकानां पण्यानां "अन्यत्र-अविक्रेयम्" इत्यवरोधेनानुशयो देयः ।। ०३.१५.०७ ।।

 तस्यातिक्रमे चतुर्-विंशति-पणो दण्डः । पण्य-दश-भागो वा ।। ०३.१५.०८ ।।

 क्रीत्वा पण्यं अप्रतिगृह्णतो द्वादश-पणो दण्डः । अन्यत्र दोष-उपनिपात-अविषह्येभ्यः ।। ०३.१५.०९ ।।

 समानश्चानुशयो विक्रेतुरनुशयेन ।। ०३.१५.१० ।।

 विवाहानां तु त्रयाणां पूर्वेषां वर्णानां पाणि-ग्रहणात्सिद्धं उपावर्तनं । शूद्राणां च प्रकर्मणः ।। ०३.१५.११ ।।

 वृत्त-पाणि-ग्रहणयोरपि दोषं औपशायिकं दृष्ट्वा सिद्धं उपावर्तनं ।। ०३.१५.१२ ।।

 न त्वेवाभिप्रजातयोः ।। ०३.१५.१३ ।।

 कन्या-दोषं औपशायिकं अनाख्याय प्रयच्छतः कन्यां षण्-णवतिर्दण्डः । शुल्क-स्त्री-धन-प्रतिदानं च ।। ०३.१५.१४ ।।

 वरयितुर्वा वर-दोषं अनाख्याय विन्दतो द्वि-गुणः । शुल्क-स्त्री-धन-नाशश्च ।। ०३.१५.१५ ।।

 द्विपद-चतुष्पदानां तु कुण्ठ-व्याधित-अशुचीनां उत्साह-स्वास्थ्य-शुचीनां आख्याने द्वादश-पणो दण्डः ।। ०३.१५.१६ ।।

 आ-त्रि-पक्षादिति चतुष्पदानां उपावर्तनम् । आ-संवत्सरादिति मनुष्याणां ।। ०३.१५.१७ ।।

 तावता हि कालेन शक्यं शौच-आशौचे ज्ञातुं ।। ०३.१५.१८ ।।

 दाता प्रतिग्रहीता च स्यातां नौपहतौ यथा । ।। ०३.१५.१९अ ब ।।

 दाने क्रये वाअनुशयं तथा कुर्युः सभासदः ।। ०३.१५.१९च्द् ।।