अमृत-नाद उपनिषद्
Wikisource इत्यस्मात्
-
-
-
-
-
- ॥ अमृतनादोपनिषत् ॥
-
-
-
-
-
-
-
- ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
-
-
-
-
-
- शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः ।
- परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् ॥ १ ॥
-
-
-
-
-
- ओङ्काररथमारुह्य विष्णुं कृत्वाथ सारथिम् ।
- ब्रह्मलोकपदान्वेषी रुद्राराधनतत्परः ॥ २ ॥
-
-
-
-
-
- तावद्रथेन गन्तव्यं यावद्रथपथि स्थितः ।
- स्थित्वा रथपथस्थानं रथमुत्सृज्य गच्छति ॥ ३ ॥
-
-
-
-
-
- मात्रालिङ्गपदं त्यक्त्वा शब्दव्यञ्जनवर्जितम् ।
- अस्वरेण मकारेण पदं सूक्ष्मं च गच्छति ॥ ४ ॥
-
-
-
-
-
- शब्दादिविषयाः पञ्च मनश्चैवातिचञ्चलम् ।
- चिन्तयेदात्मनो रश्मीन्प्रत्याहारः स उच्यते ॥ ५ ॥
-
-
-
-
-
- प्रत्याहारस्तथा ध्यानं प्राणायामोऽथ धारणा ।
- तर्कश्चैव समाधिश्च षडङ्गो योग उच्यते ॥ ६ ॥
-
-
-
-
-
- यथा पर्वतधातूनां दह्यन्ते धमनान्मलाः ।
- तथेन्द्रियकृता दोषा दह्यन्ते प्राणधारणात् ॥ ७ ॥
-
-
-
-
-
- प्राणायामैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् ।
- प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान्गुणान् ॥ ८ ॥
-
-
-
-
-
- किल्बिषं हि क्षयं नीत्वा रुचिरं चैव चिन्तयेत् ॥ ९ ॥
-
-
-
-
-
- रुचिरं रेचकं चैव वायोराकर्षणं तथा ।
- प्राणायामास्त्रयः प्रोक्ता रेचपूरककुम्भकाः ॥ १० ॥
-
-
-
-
-
- सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह ।
- त्रिः पठेदायतप्राणः प्राणायामः स उच्यते ॥ ११ ॥
-
-
-
-
-
- उत्क्षिप्य वायुमाकाशे शून्यं कृत्वा निरात्मकम् ।
- शून्यभावे नियुञ्जीयाद्रेचकस्येति लक्षणम् ॥ १२ ॥
-
-
-
-
-
- वक्त्रेणोत्पलनालेन तोयमाकर्षयेन्नरः ।
- एवं वायुर्ग्रहीतव्यः पूरकस्येति लक्षणम् ॥ १३ ॥
-
-
-
-
-
- नोच्छ्वसेन्न च निश्वसेत् गात्राणि नैव चालयेत् ।
- एवं भावं नियुञ्जीयात् कुम्भकस्येति लक्षणम् ॥ १४ ॥
-
-
-
-
-
- अन्धवत्पश्य रूपाणि शब्दं बधिरवत् शृणु ।
- काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ॥ १५ ॥
-
-
-
-
-
- मनः सङ्कल्पकं ध्यात्वा संक्षिप्यात्मनि बुद्धिमान् ।
- धारयित्वा तथाऽऽत्मानं धारणा परिकीर्तिता ॥ १६ ॥
-
-
-
-
-
- आगमस्याविरोधेन ऊहनं तर्क उच्यते ।
- समं मन्येत यं लब्ध्वा स समाधिः प्रकीर्तितः ॥ १७ ॥
-
-
-
-
-
- भूमौ दर्भासने रम्ये सर्वदोषविवर्जिते ।
- कृत्वा मनोमयीं रक्षां जप्त्वा वै रथमण्डले ॥ १८ ॥
-
-
-
-
-
- पद्मकं स्वस्तिकं वापि भद्रासनमथापि वा ।
- बद्ध्वा योगासनं सम्यगुत्तराभिमुखः स्थितः ॥ १९ ॥
-
-
-
-
-
- नासिकापुटमङ्गुल्या पिधायैकेन मारुतम् ।
- आकृष्य धारयेदग्निं शब्दमेवाभिचिन्तयेत् ॥ २० ॥
-
-
-
-
-
- ओमित्येकाक्षरं ब्रह्म ओमित्येकेन रेचयेत् ।
- दिव्यमन्त्रेण बहुधा कुर्यादात्ममलच्युतिम् ॥ २१ ॥
-
-
-
-
-
- पश्चाद्ध्यायीत पूर्वोक्तक्रमशो मन्त्रविद्बुधः ।
- स्थूलातिस्थूलमात्रायं नाभेरूर्ध्वरुपक्रमः ॥ २२ ॥
-
-
-
-
-
- तिर्यगूर्ध्वमधो दृष्टिं विहाय च महामतिः ।
- स्थिरस्थायी विनिष्कम्पः सदा योगं समभ्यसेत् ॥ २३ ॥
-
-
-
-
-
- तालमात्राविनिष्कम्पो धारणायोजनं तथा ।
- द्वादशमात्रो योगस्तु कालतो नियमः स्मृतः ॥ २४ ॥
-
-
-
-
-
- अघोषमव्यञ्जनमस्वरं च अकण्ठताल्वोष्ठमनासिकं च ।
- अरेफजातमुभयोष्मवर्जितं यदक्षरं न क्षरते कदाचित्॥ २५ ॥
-
-
-
-
-
- येनासौ पश्यते मार्गं प्राणस्तेन हि गच्छति ।
- अतस्तमभ्यसेन्नित्यं सन्मार्गगमनाय वै ॥ २६ ॥
-
-
-
-
-
- हृद्द्वारं वायुद्वारं च मूर्धद्वारमतः परम् ।
- मोक्षद्वारं बिलं चैव सुषिरं मण्डलं विदुः ॥ २७ ॥
-
-
-
-
-
- भयं क्रोधमथालस्यमतिस्वप्नातिजागरम् ।
- अत्याहरमनाहरं नित्यं योगी विवर्जयेत् ॥ २८ ॥
-
-
-
-
-
- अनेन विधिना सम्यग्नित्यमभ्यसतः क्रमात् ।
- स्वयमुत्पद्यते ज्ञानं त्रिभिर्मासैर्न संशयः ॥ २९ ॥
-
-
-
-
-
- चतुर्भिः पश्यते देवान्पञ्चभिस्तुल्यविक्रमः ।
- इच्छयाप्नोति कैवल्यं षष्ठे मासि न संशयः ॥ ३० ॥
-
-
-
-
-
- पार्थिवः पञ्चमात्रस्तु चतुर्मात्रस्तु वारुणः ।
- आग्नेयस्तु त्रिमात्रोऽसौ वायव्यस्तु द्विमात्रकः ॥ ३१ ॥
-
-
-
-
-
- एकमात्रस्तथाकाशो ह्यर्धमात्रं तु चिन्तयेत् ।
- सिद्धिं कृत्वा तु मनसा चिन्तयेदात्मनात्मनि ॥ ३२ ॥
-
-
-
-
-
- त्रिंशत्सार्धाङ्गुलः प्राणो यत्र प्राणः प्रतिष्ठितः ।
- एष प्राण इति ख्यातो बाह्यप्राणस्य गोचरः ॥ ३३ ॥
-
-
-
-
-
- अशीतिश्च शतं चैव सहस्राणि त्रयोदश ।
- लक्षश्चैकोननिःश्वास अहोरात्रप्रमाणतः ॥ ३४ ॥
-
-
-
-
-
- प्राण आद्यो हृदिस्थाने अपानस्तु पुनर्गुदे ।
- समानो नाभिदेशे तु उदानः कण्ठमाश्रितः ॥ ३५ ॥
-
-
-
-
-
- व्यानः सर्वेषु चाङ्गेषु सदा व्यावृत्य तिष्ठति ।
- अथ वर्णास्तु पञ्चानां प्राणादीनामनुक्रमात् ॥ ३६ ॥
-
-
-
-
-
- रक्तवर्णो मणिप्रख्यः प्राणवायुः प्रकीर्तितः ।
- अपानस्तस्य मध्ये तु इन्द्रगोपसमप्रभः ॥ ३७ ॥
-
-
-
-
-
- समानस्तु द्वयोर्मध्ये गोक्षीरधवलप्रभः ।
- आपाण्डुर उदानश्च व्यानो ह्यर्चिस्समप्रभः ॥ ३८ ॥
-
-
-
-
-
- यस्येदं मण्डलं भित्वा मारुतो याति मूर्धनि ।
- यत्र तत्र म्रियेद्वापि न स भूयोऽबिजायते ।
- न स भूयोऽभिजायत इत्युपनिषत् ॥ ३९ ॥
-
-
-
-
-
- ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॐ सह नाववतु । सह नौ भुनक्तु । सह वीर्यं करवावहै । तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
-
-
-
-
-
-
-
- ॥ इति अमृतनादोपनिषत्समाप्ता ॥
-
-
-
-